"रविशङ्कर (धर्मगुरुः)" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १५:
|footnotes=
}}
'''श्री श्री रविशङ्करः''' (Sri Sri Ravishankar) ({{lang-ta| ஸ்ரீ ஸ்ரீ ரவி ஷங்கர்}}) कश्चित् सनातनधर्मगुरुः . क्रि.श. १९५६तमे वर्षे [[तमिळुनाडुराज्यम्|तमिळुनाडुप्रदेशे]] अजायत । भारतस्य अध्यात्मगुरोः अस्य प्रथमः आचार्यः [[महर्षि महेश योगी|महर्षिः महेशयोगी]] । <ref>[http://www.thecolorsofindia.com/ravishankar/index.html रविशङ्करस्य गाथा]</ref>अस्य मूलं नाम रविशङ्कररत्नम् । आर्ट् आफ् लिविङ्ग् प्रतिष्ठानस्य संस्थापकः (क्रि.श.१९८२) अस्ति । एतत् प्रतिष्ठानं वैयक्तिकजीवनस्य क्लेशानां, सामाजिकसमस्यानां, हिंसाचारादीनां च शमनाय उद्दिष्टम् अस्ति । अपि च विश्वसंस्थायाः शैक्षणिकवैज्ञानिकसांस्कृतिकायोगस्य (UNESCO) सूचनास्थानमानेन विद्यमाना सर्वकारेतरसंस्था (NGO) अस्ति । सरलतया श्री श्री इति गौरवसूचकपदेन अथवा गुरुजी, गुरुदेव इति वा अनुयायिनः एतं सम्बोधयन्ति ।<ref name="Salkin">A. ಸಾಲ್ಕಿನ್, [http://www.yogajournal.com/views/738_3.cfm एम्परर् आफ् एर्],योग जर्नल्२००२</ref> एषः क्रि.श. १९९७तमे वर्षे जिनिवामूलस्य इण्टर्न्याषनल् संस्था फार् ह्यूमन् व्याल्यूस् इति धर्मदत्तिसंस्थाम् आरब्धवान् । एषा अपि असर्वकारीयसंस्था (NGO) परिहारकार्ये, ग्रामीणाभिवृद्धिकार्ये च निरता अस्ति ।
 
==जीवनवृत्तान्तः==
क्रि.श. १९५६तमे वर्षे रविशङ्करस्य पिता आर्.एस्.वेङ्कटरत्नं वाहनोद्यमे निरतः आसीत् ।<ref name="RD"/> ग्रामीणमहिलानां सबलीकरणसंस्थायाः निदेशकः भारतीयभाषाणां विद्वान् चासीत् । रविशङ्करस्य माता विशालाक्षी रत्नम् । एतस्य बाल्यनाम रवि इति रविवासरे जातः इति अङ्कितम् । आदिशङ्कराचार्यस्य जन्मतिथौ (वैशाखशुद्धपञ्चम्याम्) जातः इति शङ्करः इति अपि नाम योजितम् । अतः रविशङ्करः इति अभवत् । <ref name="Salkin"/><ref>[http://www.webindia123.com/personal/religious/sriravi.htmवेब् इण्डिया बयोग्रफी]</ref> बेङ्गळूरुविश्वविद्यालयस्य सेण्ट् जोसेफ् महाविद्यालयतः स्वस्य २१तमे वयसि विज्ञानपदवीम् अवाप्नोत् । स्नातकपदव्याः पश्चात् वेदविज्ञानस्य[[वेदः|वेद]][[विज्ञानम्|विज्ञानस्य]] विषये उपन्यस्तुं, वेदविज्ञानस्य च सम्मेलनं व्यवस्थापयितुम् [[आयुर्वेदः|आयुर्वेदकेन्द्राणि]] स्थापयितुं च आह्वानम् अङ्गीकृत्य महर्षिणा महेशयोगिना सह प्रवासम् अकरोत् ।<ref>गौटियर्, फ्राकय्स्, दि गुरु आफ् जाय्, न्यूयार्क्, हए हौस्,२००८,पि. ३६.</ref> एतं पूर्वं पण्डितः रविशङ्करः (अथवा पण्डितजी) इति सम्बोधयन्ति स्म । किन्तु [[पण्डितः रविशङ्करः]] इति प्रसिद्ध सितार् वादकः अस्तीति क्रि.श. १९९०तमे वर्षे श्री श्री रविशङ्करः इति सम्बोधनं परिवर्तितम् ।<ref name="Salkin"/>क्रि.श. १९८०तमे दशके रविशङ्करः आध्यात्मिकतायाः प्रयोगिकप्रणालीं विश्वे बहुत्र आयोजितवान् । [[सुदर्शनक्रिया]] इति विशिष्टां क्रमबद्धस्य श्वासोच्छ्वासस्य अभ्यासपद्धतिम् आरब्धवान् <ref name="RD">{{Cite news|url=http://www.rd-india.com/newsite/other/facetoface_feb07.asp |title=Face to face|last=Mahadevan|first=Ashok|date=February 2007|publisher=[[Reader's Digest]]|accessdate=2009-06-05}}</ref> प्रत्येकं भावः अपि श्वासोच्छ्वासस्य गतिनासम्बद्धः भवति । श्वासः सक्रमः भवति चेत् शरीरस्य मनसः च सङ्कष्टस्य शमनं भवति इति रविशङ्करः वदति ।<ref name="ST">{{Cite news| url=http://seattletimes.nwsource.com/html/health/2002075460_healthbreathing31.html| title=Breathe deeply to relieve stress, depression| last=MacGregor| first=Hillary E|date=2004-10-31| publisher=[[The Seattle Times]]| accessdate=2009-06-05}}</ref> अस्य प्रोत्साहनेन अस्य पिता अन्यैः बेङ्गळूरुनगरप्रमुखैः[[बेङ्गळूरु]]नगरप्रमुखैः सह मिलित्वा '''वेदविज्ञानमहाविद्यापीठम् ''' इति संस्थाम् आरब्धवान् । अस्याः संस्थायाः आश्रयेण ग्रामीणभागस्य शिक्षावञ्चितबालानां विद्यालयः एकः आरब्धः । एषा शाला इदानी २०००छात्रेभ्यः विद्यादानं कुर्वती अस्ति ।<ref>http://expressbuzz.com/Cities/Bangalore/dutch-honour-for-sri-sri-ravi-shankar/64181.html</ref>क्रि.श. १९८३तमे वर्षे प्रथमवारं रविशङ्करः युरोप् देशस्य [[स्विट्जर्लेण्ड्]] नगरे सर्वप्रथमं जीवनकलाप्रणालीं समचालयत् । क्रि.श. १९८६तमे वर्षे [[अमेरिकादेशः|अमेरिकादेशस्य]] क्यालिफोर्नियायाः[[क्यालिफोर्निया]]याः एपल् व्यालिमध्ये एतत् चालितवान् ।<ref>http://artofliving.eu/index.php?id=205&amp;L=17</ref>
 
==अध्यात्मगुरुः==
रविशङ्करः वदति आध्यात्मिकता मनुष्ये प्रीतिं करुणाम् उत्साहं जीवनमौल्यानि च वर्धयति । एतत् कस्यचिदपि एकस्य मतस्य धर्मस्य वा परिमितं न । एतत् विश्वधर्मस्य हृदयभागम् अस्ति । अतः एतत् सर्वजनेभ्यः मुक्तम् अस्ति ।<ref> श्री श्री रविशङ्करः [[ब्याङ्ग् आन् दि डोर् साण्टा बार्बरा]], CA: आर्ट् आफ् लिविङ्ग् फौण्डेशन्१९९५. ISBN 1-885289-31-6</ref> श्वासः अस्माकं देहमनसोः मध्ये अनुबन्धः अस्ति इति रविशङ्करस्य प्रतिपादनम् । अतः मनसः शान्त्यै साधनं ध्यानं परोपकारः च इति अस्य वादः । विज्ञानम् अध्यात्म च परस्परं सम्बद्धानुबन्धः । मनसः विबाधानिवारणं हिंसामुक्तजगतः निर्माणम् एव अस्य परमं लक्ष्यम् अस्ति । <ref>[http://www.washingtonpost.com/wp-dyn/content/article/2007/07/04/AR2007070401609.html वषिङ्क्टन् पोस्ट् सन्दर्शनम्]</ref>
 
==मानवहितकार्याणि==
क्रि.श.१९९०तमे काले जीवनकलासंस्थायाः अन्यराष्ट्रियसंस्थायाः चाश्रयेण नैकानि मानवहितकारिकार्याणि आरब्धानि । तानि अद्यापि अनुवर्तन्ते । क्रि.श. १९९२तमे वर्षे कारागारेषु बद्धानां पुनश्चेतनेन प्रधानवाहिन्याम् आनेतुं तत्र अनेकाः कार्यक्रमाः कृताः । <ref>[http://cities.expressindia.com/fullstory.php?newsid=234080 "इन् प्रिसन्, प्रवीण् महाजन्, &amp; दावूद्स् ब्रदर् जायिन्१५००, अदर्स् इन् योग एण्ड् भजन्स्"], ''MUMBAI न्यूस् लैन् - मुम्बै क्रि.श. २००७ तमस्य वर्षस्य एप्रिल् मासस्य ३०दिनाङ्कः ।</ref>क्रि.श. १९३७तमे वर्षे मानवमौल्यानाम् अन्ताराष्ट्रियसंस्था इति मानवहितकारी सङ्घः आरब्धः । तस्य 5Hकार्यक्रमेण ग्रामीणप्रदेशेषु सुस्थिराभिवृद्धिः, मानवीयमौल्यपुनश्चेतनं च लक्षितम् ।<ref>[http://www.huffingtonpost.com/sri-sri-ravi-shankar श्री श्री रविशङ्करः], दि हफिङ्ग्टन् पोस्ट् क्रि.श. २०१०, अगस्त् १२।</ref>न्यूयार्क नगरस्य विश्ववाणिज्यकेन्द्रस्य उदर्के क्रि.श.२००१तमे वर्षे सम्भूते भयोत्पादकाक्रमणावसरे सञ्जातजनमानसविबाधानिवारणार्थं <ref name="ST"/>एतत् प्रतिष्ठानं कोसोवो युद्धपीडितस्य प्रदेशे परिहारकार्याणि, आरोग्यसंरक्षणकार्याणि च अकरोत् । क्रि.श. २००३तमे वर्षे आक्रान्ते इराक् देशे कार्यनिरतः भूत्वा जनमानसस्य विबाधां शमयितुं प्रयत्नम् अकरोत् । <ref>[http://news.bbc.co.uk/1/hi/world/south_asia/3393327.stm BBCवार्ता| भारतीय स्ट्रेस् बस्टर्स् टार्गेट् इराक्]</ref> [[आफ्घानिस्तानम्|आफ्घानिस्ताने]] क्रि.श. २००३तः २००६पर्यन्तम् एतादृशानि एव परिहारकार्याणि अकरोत् । क्रि.श. २००७ श्री श्री रविशङ्करः प्रधानमन्त्रिणः नौरि अल् मौलिकि इत्यस्य निमन्त्रणम् अङ्गीकृत्य [[इराक्]] प्रवासं कृत्वा सुन्नि शिया कुर्दि नायकानां सन्दर्शनं कृतवान् ।<ref>[http://www.ibnlive.com/news/art-of-living-guru-in-iraq-to-talk-peace/41193-3.html?xml Art of living guru in irraq to talk peace]</ref>एषः क्रि.श.२००४तमे वर्षे पाकिस्तानस्य प्रवासं कृत्वा जागतिकशान्तिप्रेरणां कर्तुं कांश्चन मतीयनायकान् सन्दृष्टवान् ।<ref>[http://timesofindia.indiatimes.com/articleshow/788657.cms there is dignity of religion in pakistan],The times of India</ref>बहवः कार्यकर्तारः क्रि.श. २००४ तमे वर्षे [[हिन्दुमहासागरः|हिन्दुमहासागरस्य]] भूकम्पन सुनामी जञ्झावातस्य सन्त्रस्तानां सहायार्थं कार्याणि कृतवान् । SMART इति परिचितस्य कारागृहस्य बन्धिनां मानसविबाधापरिहारार्थं कार्यक्रमान् योजितवान् । रविशङ्करः अन्तर्मतीयकसंवादेषु अपि आसक्तः अस्ति । प्रस्तुतम् एलिजा अन्तर्मतीयसंस्थायाः विश्वमतनायकसमितौ रविशङ्करः स्थानं प्राप्तवान् ।<ref>[http://www.elijah-interfaith.org/programs/board-of-world-religious-leaders/leaders-of-religions-of-india.html The elija interfaith institute - hindu members of the board of the world religious leaders]</ref>
 
==सुदर्शनक्रिया==
"https://sa.wikipedia.org/wiki/रविशङ्कर_(धर्मगुरुः)" इत्यस्माद् प्रतिप्राप्तम्