"जवाहरलाल नेहरू" इत्यस्य संस्करणे भेदः

(लघु) Bot: Migrating 1 interwiki links, now provided by Wikidata on d:q1047 (translate me)
पङ्क्तिः १७:
== राजकीयपूर्वभागः ==
नेहरु महाभागः तथा तेन साकं ये कारागृहे आसन् तेषां मोचनम् अभवत् । ब्रिटिश्जनाः राजकीयप्रभुत्वं भारतीयानां कृते ह्स्तान्तरितं कर्तुं निश्चितवन्तः। तदर्थं ब्रिटिश् केबिनेट् मुख्यस्थाः भारतमागताः ।
यदा नेहरुमहाभागः प्रधानमन्त्रित्वेन कार्यभारम् ऊढवान् तदा भारते हिन्दूमुस्लिं कलहः तस्य कार्ये प्रत्यूहवत् अभवत् । महमदाली [[जिन्ना]] मुस्लिमजनानां कृते स्वतन्त्र्यदेशः आवश्यकः इति आग्रहं कृतवान् । अत एव एताद्दशविघ्नानां मध्ये तस्य कार्यम् अग्रे न गतम् । मुस्लिं जनानां तथा हिन्दूनां सहयोगेन भारते यदा प्रजाप्रभुत्वराज्यं कर्तुं न शक्तः तदा नेहरु भारतस्य विभजनं कर्तुं अनिच्छया अङ्गीकृतवान् । विभागः तु यथा ब्रिटिश्जानानां योजनानुसारम् अभवत् । अयं विभागः तु जून् ३ दिनाङ्के १९४७ वर्षे अभवत् । तदा आग्स्ट १५ दिनाङ्के सः प्रधानमन्त्रिरुपेण प्रमाणवचनं स्वीकृतवान् । तदनन्तरं तस्य प्रथमभाषणं TyreshTryst with Destiny इति प्रसिद्धम् । तस्य भाषणस्य सारांशः एवम् आसीत्-
’अस्माकं लक्ष्यं प्रति गन्तुं सन्धानं कृतम् । इदानीं सन्धानस्य फलप्राप्त्यर्थं समयः आगतः । पूर्णतया कर्तुं न शक्यते चेदपि किञ्चिद् वा कर्तु प्रयतनीयम् । मध्यरात्रे १२ वादने यदा सर्वे सुप्ताः आसन् तदा अस्माकं देशः जागरितः आसीत्। स्वातन्त्र्यं तु प्राप्नोत् । दुर्लभं तादृशं क्षणं सर्वदा न लभ्यते। प्राचीनं सन्त्यज्य अस्माभिः नावीन्यं प्राप्तम् अस्ति। देशस्य चरिते ईद्दशं क्षणं पुनः न आगच्छति । एतावत् पर्यन्तं येषां वाक्, मनः सर्वं निगूढे आसीत् इदानीम् तेषां स्वातन्त्र्यम् आगतम् । अस्मिन् सन्दर्भे भारतस्य तथा भारतीयतायाः च सेवां कर्तुं वयं प्रतिज्ञां कुर्मः मानवतां च न त्यजाम ’ इति।
तस्मिन् काले मतान्तरकलहाः बहुत्र वर्धन्ते स्म । अयं कलहः [[पञ्जाब्]] [[देहली]] [[बङ्गाल्]] इत्यत्र सर्वत्र प्रसारितः आसीत् । नेहरु मुस्लिम् नेतृभिः साकं आभारतं सञ्चरन् सर्वत्र देशे शान्तिस्थापनाय तथा शरणार्थिनां मनः प्रसादनार्थं प्रायतत । सः मौलाना आजाद तथा अन्यैः नेतृभिः साकं मुस्लिमबान्धवानां भारते स्थातुं तथा योगक्षेमं वोढुं च वार्तालापं कृतवान् । देशस्थितिं वीक्ष्य तस्य मनोवेदना सञ्जाता।
"https://sa.wikipedia.org/wiki/जवाहरलाल_नेहरू" इत्यस्माद् प्रतिप्राप्तम्