"कन्याकुमारी" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ६९:
 
==पौरणिकप्राशस्त्यम्==
कन्याकुमारीक्षेत्रं पुराणप्रसिद्धम् अपि अस्ति । पुरा बाणासुरो नामकः राक्षसः ईश्वरानुग्रहार्थं तपस्तेपे । वरं च अवाप । 'कन्यां विना तस्य मृत्युः एव न स्यात्' इति । सः स्वशक्तेः दुरुपयोगं चकार । तदा देवाः यज्ञमेकम् अन्वतिष्ठन् । तत्फलरूपेण शक्तिदेवता कुमारीरूपेण भुवि अवततार । बाणासुरः तस्याम् अनुरक्तः । किन्तु लोककण्टकं तं सा देवी जघान । देव्याः कन्याकुमार्याः विषये एषा पुराणकथा प्रथिता अस्ति । कन्याकुमारीमन्दिरं सुविशालं सुन्दरं कलापूर्णं च वर्तते । द्वारात् गर्भगृहपर्यन्तं मार्गम् उभयतः [[शिवः|शिवम्]] अन्विष्यन्त्यः इव दीपं करेषु धृत्वा दीपशिलाबालाः तिष्ठन्ति । गर्भगृहे कन्याकुमार्याः विग्रहः शोभते । तस्याः हस्ते पुष्पमाला शोभते । [[शिवः|शिवं]] वरयितुं प्रतीक्षमाणा इव भासते । अत्रत्यसागरतटेषु वालुकाः पीत-रक्त-कृष्णवर्णीयाः सन्ति । भावुकाः ताह् वालुकाः हरिद्राकुङ्कुमकस्तूरीत्वेन भावयन्ति । विवाहार्थम् आगतेभ्यः दातुम् एते संगृहीताः आसन् । परन्तु सूर्योदयात् पूर्वं [[शिवः]] नागतः । तस्मात् विवाहः स्थगितः । हरिद्राकुङ्कुमकस्तूरीकाः पुलिनराशिरूपेण अद्यापि अत्रैव सन्ति इति लोककथा अस्ति ।अस्ति।
 
==ऐतिहासिकप्राशस्त्यम्==
"https://sa.wikipedia.org/wiki/कन्याकुमारी" इत्यस्माद् प्रतिप्राप्तम्