"सौरव्यूहः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
[[File:Planets2013.jpg|300px|right|सौरव्यूहस्य सदस्याः]]
सौरव्यूहस्य उद्भवः ५०० कोटिवर्षेभ्यः पूर्वं जातः इति विश्वासः आधुनिकानां विज्ञानिनाम् । तस्य कारणीभूता प्रक्रिया या काचित् भ्वतुभवतु नाम, सौरव्यूहस्य ग्रहाणां विषये निर्दिष्टा तथा क्रियाबद्धा काचित् व्यवस्था अस्ति ।
:# सौरव्यूहस्य सर्वेऽपि ग्रहाः [[सूर्यः|सूर्यं]] परितः एकस्याम् एव दिशि भ्रमन्ति । तेषां ग्रहाणां भ्रमणपथः अण्डाकारकः । ते च ग्रहाः एकस्मिन् एव समतले (Plane) परिभ्रमन्ति अपि । तेषां ग्रहाणां परितः ये उपग्रहाः परिभ्रमन्ति ते अपि एकस्यां दिशि एव परिभ्रमन्ति ।
:# [[शुक्रः|शुक्रग्रहं]] (Venus) तथा युरेनस्-ग्रहं च विहाय अन्ये सर्वेऽपि ग्रहाः स्व-अक्षं परितः यस्यां दिशि आवर्तनं प्राप्नुवन्ति तस्याम् एव दिशि सूर्यं परितः अपि भ्रमन्ति । उत्तरदिक्तः दक्षिणदिशि यदा पश्यामः तदा ते ग्रहाः अप्रदक्षिणाकारेण (Anti Clockwise) चलन्ति ।
:# प्रतिग्रहं प्रति सूर्यतः विद्यमानं दूरं तस्य ग्रहस्य समीपस्थस्य ग्रहस्य (सूर्यस्य दिशि) अपेक्षया द्विगुणितं भवति ।
:# समग्रस्य सौरव्यूहस्य द्रव्यराशौ ९९.९% भागः यद्यपि सूर्यस्य अस्ति तथापि तस्य कोनीयावेगस्यकोनीयवेगस्य (Angular momentum) ९०% भागः ग्रहाणाम् अस्ति ।
:# सौरव्यूहस्य ग्रहाः द्विधा विभक्तुं शक्यन्ते ।
::::'''पार्थिवाः ग्रहाः''' (Terrestrial Planets)
Line १० ⟶ ११:
गुरुः (Jupiter), शनिः (Saturn), युरेनस्, नेप्चून् च द्वितीये दैत्यग्रहाणां गणे अन्तर्भवन्ति । एते ग्रहाः महागात्रकाः । तेषां सान्द्रता अपि अत्यन्तं न्यूना भवति (०.७ तः १.७) । <br />
अस्य गणद्वयस्य ग्रहान् काचित् एका पट्टिका पृथक्करोति । सा पट्टिका '''क्षुद्रग्रहमेखला''' (Asteroid Belt) इति उच्यते ।
भूमौ तथा चन्द्रे च विद्यमानानां शिलानां तथा व्योमतः तदा तदा पतताम् उल्कानाम् अध्ययनेन पार्थिवग्रहाः सामान्यतया अयः, आम्लजनकं, सिलिकान् तथा मेग्नेषियम् इत्यादिभिः धातुभिः रूपिताः सन्ति इति ज्ञातम् अस्ति । सूर्यः तु सम्पूर्णतया जलजनकेन (Hydrogen) तथा हीलियं धातुनामूलवस्तुना रूपितः अस्ति । अनेन एव संयोगेन गुरुः, शनिः, युरेनस्, नेप्चून्, प्लूटो ग्रहाः अपि रूपिताः स्युः इति उच्यते ।
 
==आकाशकायानाम् उद्भवः==
आकाशकायानाम् उद्भवस्य विषयस्य आधुनिकानि गभीराणि चिन्तनानि क्रि. श. १७५५ वर्षाभ्यन्तरे आरब्धानि । अस्मिन् वर्षे (१७५५) प्रसिद्धः जर्मन् तत्त्वज्ञानी [[इम्यान्युयल् क्याण्ट्]] (Emmanuel Kant) इत्याख्यः कञ्चित् सिद्धान्तं प्रत्यपादयत् । स च सिद्धान्तः '''शुक्लपटलसिद्धान्तः''' (Nebular Hypothesis) इति उच्यते । तस्य सिद्धान्तस्य अनुसारम् – आकाशकायानाम् उद्भवात् पूर्वं व्योम्नि कश्चन अगाधः आकाशः उदभवत् । सः एव आकाशः तेन इम्यान्युयल् क्याण्टेन '''नेबुल''' (आकाशः) इति उक्तम् । कालक्रमेण मन्दं मन्दं तस्य आकाशस्य आवर्तनम् आरब्धम् । तस्य सान्द्रीकरणस्य परिणामतः “नेबुल” नामके शुक्लपटे अनेके निर्दिष्टाः कायाः उद्भूताः । तादृशेषु कायेषु भूमिः अपि अन्यतमःअन्यतमा । सौरमण्डलस्य अन्ये ग्रहाः अपि अनेन एव क्रमेण रूपिताः इति प्रत्यपादयत् सः इम्यान्युयल् क्याण्ट् । तस्य इम्यान्युयल् क्याण्टस्य सः सिद्धान्तः सौरकायाणाम् आवर्तनस्य परिभ्रमणस्य क्रियाः व्यवस्थितरूपेण विवरीतुं समर्थः अभवत् ।
 
इम्यान्युयल् क्याण्टस्य अयं सिद्धान्तः यद्यपि बहुभिः अङ्गीकृतः तथापि तस्मिन् विद्यमानाः काश्चन न्यूनताः केषुचित् विज्ञानिषु अतृप्तिम् अजनयत्अजनयन् । ४० वर्षाणाम् अनन्तरं क्रि. श. १७९६ तमे वर्षे फ्रेञ्च् गणितज्ञः लाप्लास् इत्याख्यः अस्य इम्यान्युयल् क्याण्टस्य सिद्धान्तं किञ्चित् प्रमाणेन परिवर्त्य अन्यं कञ्चित् सिद्धान्तं प्रत्यपादयत् । किन्तु तदानीन्तने काले सिद्धानि बहूनि गणित–भौतिकसूत्राणि सः लाप्लास् स्वसिद्धान्ते समीचीनतया न उपयुक्तवान् इति कारणतः स्वसिद्धान्तस्य बह्व्यः न्यूनताः तेन न ज्ञाताः एव ।
 
इम्यान्युयल् क्याण्ट् तथा लाप्लास् इत्येतयोः द्वयोः सिद्धान्तस्य अनुसारं शुक्लपटे विद्यमानस्य आनिलस्य मूलद्रव्यराशिः शिथिलः सन् सङ्कुचनम् आरभत । तस्य परिणामरूपेण आवर्तनस्य वेगः (Speed of Rotation ) वर्धितः । तेन सञ्जातायाः केन्द्रापगामिशक्तेः (Centrifugal Force) प्रभावात् अनिलद्रव्यस्य तरङ्गाः केन्द्रस्य द्रव्यराशितः कालक्रमेण पृथक् जाताः । ते एव तरङ्गाः अन्ते इदानीन्तनानां ग्रहाणां रूपेण सान्द्रीकरणं प्राप्नुवन् । अनन्तरं प्रायः शतकस्य अनन्तरं (१०० वर्षाणाम् अनन्तरम्) ब्रिटिष् विज्ञानिनः सर् जेम्स् म्याक्वेल् तथा सर् जेम्स् जेन्स् इत्येतौ इम्यान्युयल् क्याण्ट् तथा लाप्लास् द्वयोः अपि सिद्धान्तं निराकृतवन्तौ । तयोः मतस्य अनुसारं इम्यान्युयल् क्याण्ट् तथा लाप्लास् इत्येताभ्यां प्रतिपादितः सिद्धान्तः कोनीयावेगस्य परिपालनस्य नियमम् (Law of Conservation of Angular Momentum) उल्लङ्घति ।
"https://sa.wikipedia.org/wiki/सौरव्यूहः" इत्यस्माद् प्रतिप्राप्तम्