"युगादिः" इत्यस्य संस्करणे भेदः

(लघु) Bot: Migrating 11 interwiki links, now provided by Wikidata on d:q3351126 (translate me)
No edit summary
पङ्क्तिः १:
चान्द्रमानपद्धत्यनुसारं चैत्रशुक्लप्रतिपत् एव '''युगादिः''' इति उच्यते । तद्दिने एव नववर्षस्य आरम्भः । तदा एव वसन्त-ऋतोः आगमनमपि । प्रकृतिः अपि नवोत्सावतीनवोत्साहवती भवति तदा । वृक्षाः सर्वे पल्लविताः भवन्ति । सर्वत्र वसन्तस्य प्रभावः दृश्यते । इदानीन्तनजगति नवसंवत्सरः इति यदायद् आचरन्ति (जनवरी १) तदा तु पृक्रुतौप्रकृतौ नववर्षस्य किमपि लक्षणं न भवति । वृक्षाः सर्वे पर्णरहिताः तिष्ठन्ति । वातावरणम् अपि अति शीतलंअतिशीतलं भवति । जनाः अपि तादृशवातावरणे उत्साहवन्तः न भवन्ति । एतत् युगादिपर्व समग्रे भारतदेशे आचर्यमाणं महापर्व । केषुचित् राज्येषु एतत् दिनं नूतनवर्षत्वेन आचर्यते |एतत् पर्व यस्मिन् वासरे भवति तस्य वासरस्य ग्रहः एव तस्य वर्षस्य अधिपतिः भवति । उदाहरणार्थं युगादिपर्व गुरुवासरे अस्ति चेत् [[गुरुः|गुरुग्रहः]] एव तस्य संवत्सरस्य अधिपतिः ।
 
युगादिः नाम युगस्य आदिः । युगानि चत्वारि – [[कृतयुगम्|कृत]]-[[त्रेतायुगम्|त्रेत]]-[[द्वापरयुगम्|द्वापर]]-[[कलियुगम्]] चेति । भगवान् [[ब्रह्मा]] एतद्दिने एव जगतः सॄष्टिकार्यम् आरब्धवान् इति कारणात् एतत् दिनं युगादिशब्देन निर्दिश्यते ।
"https://sa.wikipedia.org/wiki/युगादिः" इत्यस्माद् प्रतिप्राप्तम्