"भारतम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ९३:
[[File:Rigveda MS2097.jpg|thumb|'''भारतस्य प्रतिष्ठे द्वे संस्कृतं संस्कृतिः तथा''']]
भारतम्(IPA:/bʰɑːrət̪əm/), आधिकारिकरूपेण भारतगणराज्यम्, दक्षिण-एषियाखण्डे स्थितं किञ्चन देशम् अस्ति । भौगोलिकविस्तीर्णे भारतं विश्वे सप्तमे स्थाने विद्यते । जनसंख्यायां द्वितीये स्थाने विद्यते । विश्वे प्रसिद्धं जनतत्न्त्रयुतं देशम् एतत् । अस्य सीमा पश्चिमे [[पाकिस्तानम्|पाकीस्थानेन]], ईशान्ये [[चीनः|चैना]]-[[नेपालदेशः|नेपाल]]-[[भूतानदेशः|भूतानदेशैः]] परिवृता, [[म्यन्मार|बर्मा]] [[बङ्ला]] देशौ पूर्वदिशायां स्तः। श्रीलङ्का, मालाद्वीपः च हिन्दुमहासागरे भारतस्य समीपवर्तिनौ । <br>
एषः देशः प्राचीन-सिन्धु-सभ्यतायाः मातृभूमिः । एषः भूभागः स्वस्य सांस्कृतिकसम्पदा प्रसिद्धः अस्ति । हिन्दुधर्मः, बौद्धधर्मः, जैनधर्मः, सिख्खधर्मः इत्येतेषां विश्वस्य चतुर्णां प्रमुखानां तत्त्वदर्शनानाम् उगमस्थानम्उद्गमस्थानम् एतत् । क्रिस्ताब्दस्य प्रथमशतके अत्र प्रविष्टाः झरातुष्ट्रधर्मः, क्रैस्तधर्मः, इस्लामधर्मः च अत्र द्रष्टुं शक्याः । एतेन भारतस्य मतसामरस्यं ज्ञातं भवति । क्रमेण [[ईस्ट्इण्डियाकम्पनी]]द्वारा ब्रिटिश्शासनम् आगतम् । शासनस्य केन्द्रस्थानं लण्डन् आसीत्। अष्टादशशतकात् नवदशशतकस्य मध्यभागपर्यन्तं ते शासितवन्तः इमं देशम् । बहूनाम् आन्दोलनानां कारणतः भारतं १९४७ तमे वर्षे स्वतन्त्रः देशः अभवत् ।
<br>
भारतस्य अर्थव्यवस्था विश्वे नवमं स्थानं प्राप्ता । अधुना एषः देशः अभिवृद्धिपथे प्रचलदस्ति। एषः अण्वस्त्रयुतः देशः अस्ति । प्रादेशिकस्तरे शक्तिमान् देशः ।विश्वे एव सेनाबले तृतीयं स्थानमस्ति अस्य ।सेनायाः कृते व्ययविषये अस्य दशमं स्थानमस्ति । भारतं गणतन्त्रात्मकं देशमस्ति । संसदः सदनद्वयमस्ति ।अत्र २८ राज्यानि, सप्तकेन्द्रशासितप्रदेशाः च सन्ति । एतत् आर्थिकपुरोगामिपञ्चराष्ट्रेषु अयमपि अनयतमः देशः । अयं देशः बहुभाषीयः,विविधधर्मी च अस्ति । अत्र विविधाः वन्यजीविनः वसन्ति ।
"https://sa.wikipedia.org/wiki/भारतम्" इत्यस्माद् प्रतिप्राप्तम्