"ब्रह्म" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
संसारचक्रं विचित्रमस्ति। मायाविमोहिताः सन्ति सर्वेऽपि मानवाः। विद्यावन्तोऽपि महाविद्यां नोपासन्ते। तेऽपि नानाविधानि कष्टानि प्राप्नुवन्ति। ये योगिनः ज्ञानिनः आचारवन्तः साधवः सन्ति तेऽपि मायया मोहिताः भवन्ति।
यथोक्तम्-
ज्ञानिनामपि चेतांसि देवी भगवती हि सा।।
दुर्गासप्तशती 1.55
बलादाकृष्य मोहाय महामाया प्रयच्छति।
दुर्गासप्तशती 1.56
ये संसारबन्धनं त्यक्तुं वाञ्छन्ति, मायामयं विश्वं संसारसागरञ्च तर्त्तुमिच्छन्ति मोक्षस्य द्वारमुद्धाटयितुमिच्छन्ति तैः किं करणीयमिति वर्तते महती जिज्ञासा। वस्तुतः मोक्षस्य सर्वस्य वा मूलमस्ति महेश्वरः महेश्वरस्यापि मूलमस्ति पञ्चाक्षरमन्त्रः पञ्चाक्षारमन्त्रस्यापि मूलमस्ति गुरुः। अतः संसारे सर्वेभ्योऽपि श्रेष्ठः गुरुरस्ति।
उक्तञ्च-
मोक्षस्य मूलं यज्ज्ञानं तस्य मूलं महेश्वरः।
तस्य पञ्चाक्षरो मन्त्रो मूलमन्त्रं गुरोर्वचः ।।इति।।
गुरुरेव माता गुरूरेव पिता गुरुरेव देवो वर्तते। गुरुरेव पातकिनं पवित्रं करोति, पतितमुन्नतशिखरमारोहयति। प्रसन्नः गुरुः महेश्वरं प्रसीदयति प्रदर्शयति च। तत्किमस्ति यद् गुरुः कर्तुं न शक्नोति। गुरुः दुर्लभमपि प्रापयति असाध्यमपि साधयति। ईश्वरादपि श्रेष्ठः गुरुरेव अस्ति। गुरौ प्रसन्ने ईश्वरः प्रसीदति विपदः गच्छन्ति सम्पदः आगच्छन्ति।
यथोक्तम्-
गुरुः पिता गुरुर्माता गुरुर्देवो गुरुर्गतिः।
पङ्क्तिः २६:
तस्मान्मन्येत सततं पितुरप्यधिकं गुरुम्।।इति।।
गुरौ भक्तिः कार्या, श्रद्धा विधेया, गुरोराज्ञा पालनीया, कदापि गुरोर्वचनेषु अविश्वासः न करणीयः।
यथा-
निःसन्दिग्धं गुरोर्वाक्यं संशयात्मा विनश्यति।।इति।।
गुरोः स्मरणेन दर्शनेन च पापस्य नाशो भवति। गुरुः सिद्धिप्रदः कल्याणकारी शिवरूपः अस्ति। गुरोरर्थोऽपि एतादृश एव भवति।
पङ्क्तिः ३७:
अमार्गस्थोऽपि मार्गस्थो गुरुरेव सदागतिः।
गुरुः ध्येयः पूज्यः प्रातः स्मरणीयो वर्तते।
यथा चोक्तम्-
प्रातरुत्थाय देवेशि ब्रह्मरन्ध्रे निजं गुरुम्।
ध्यात्वा पञ्चोपचारैश्च मानसैः पूजयेत्परम्।। इति।।
तन्त्रशास्त्रे दीक्षायाः महत्त्वम्
संसारः ईश्वरस्याधीने वर्तते। ईश्वरोऽपि मन्त्रस्याधीने वर्तते । पुनः स च मन्त्रः दीक्षितस्यैवाधीने भवति । दीक्षायाः तन्त्रे बहुमहत्वं विद्यते । शुद्धसंस्कारहेतवे मलनिवृत्तये च दीक्षैव साधनमस्ति। दीक्षां विना तन्त्रे मन्त्रे च प्रवेशः एव निषिद्धः अस्ति। तन्त्रे तु दीक्षितः एव अधिकारी भवति। अदीक्षितस्तु फलं नाश्नुते।
यथोक्तम्-
अथ दीक्षां प्रवक्ष्यामि श्रृणुष्व कमलानने।
यया विना नाधिकारस्तन्त्रे मन्त्रेऽपि च क्वचित्।।
पङ्क्तिः ५०:
तेन दीक्षेति लोकेऽस्मिन् कीर्तिता तन्त्रपारगैः।।
(यामलतन्त्रे)
साधकः दीक्षयैव जपस्य तपसो वा अधिकारी भवति। दीक्षां विना मन्त्रजपः अरण्यरोदनं भवति।
यथोक्तम्
दीक्षामूलं जपं सर्वं दीक्षामूलं परं तपः। अपि च-
"https://sa.wikipedia.org/wiki/ब्रह्म" इत्यस्माद् प्रतिप्राप्तम्