"एला" इत्यस्य संस्करणे भेदः

(लघु) Bot: Migrating 63 interwiki links, now provided by Wikidata on d:q33466 (translate me)
No edit summary
पङ्क्तिः १:
एलायांएलायाः[[चित्रम्:Elettaria cardamomum - Köhler–s Medizinal-Pflanzen-057.jpg|thumb|150px|right|एलासस्यं, पुष्पं, फलं, बीजं, मूलं चापि]]
[[चित्रम्:Black and green cardamom.jpg|thumb|200px|left|हरितवर्णस्य कृष्णवर्णस्य च एला]]
 
इयम् एला [[भारतम्|भारते]] अपि वर्धमानः कश्चन सस्यविशेषः । एला अपि सस्यजन्यः [[आहारः|आहार]]पदार्थः । इयम् एला आहारत्वेन यथा उपयुज्यते तथैव [[औषधम्|औषधत्वेन]] अपि उपयुज्यते । एषा एला आङ्ग्लभाषायां Cardamom इति उच्यते । एषा एला वाणिज्यसस्यम् अपि । काफीवाटिकायाम् उपफलोदयरूपेण एलायाः वर्धनं क्रियते । एलासस्यं गुल्मवर्गस्य वृक्षकः भवति । अयं वृक्षकः आहाराणां गन्धस्य रुचेः च वर्धनार्थम् आवश्यकानि फलानि उत्पादयति । भारतीयपाकशालासु सर्वत्र एला भवति एव प्रायः । सर्वत्र अपि एला मधुरभक्ष्याणां निर्माणे अधिकतया उपयुज्यते । तद्विना [[वमनम्|वमनस्य]] निरोधकरूपेण, पित्तशामकरूपेण अपि एला उपयुज्यते ।
 
प्रसोद्धेषु उपकरद्वव्येषु अन्यतमः एला । जलप्रदेशे अयं सम्यक् वर्धते । अस्य रुचिः कटुमिश्रितमधुरः ।
 
==एलायां विधमानाः अंशाः==
अस्मिन् पोटासियं लवणः २%, पिष्टं ३% पीतर‘झ्जकद्रव्यं, म्य़ाङ्गनीसयुक्तं भस्म उडनशीलं तैलं च भवति । तैले cineol, Terpineol, Terpinene, Limonene, sabinene च भवति ।
 
==आयुर्वेदीयरीत्या उपयोगाः==
===मूत्रसम्बन्धीरोगशामकः===
एलाअनेकेषां मूत्रसम्बन्धिरोगाणां शामकः । एलायाः चूर्णस्य सेवनेन मूत्रविसर्जनसमये क्लेषः अस्ति चेत् अपगच्छति । अस्य चूर्णस्य सेवनेन मूत्रोत्पत्तौ समस्या विद्यते चेत् परिहता भवति ।
 
===मुखवासकः===
एलायाः हितकरः गन्धः विद्यते । अतः अस्य सेवनं मुखवासनरोगं निवारयति ।
 
===हृदयरोगे परिणामकारी===
एलाहदयस्य उपरि अपि सत्परिणामं जनयति । घृतेन सह एलायाः सेवनेन हृदयरोगा? शाम्यन्ति इति प्राचीनग्रन्थेषु उल्लेखः लभ्यते । अस्य सेवनं हृदयदौर्भल्यमपि दूरीकरोति ।
===जीर्णकरः===
अधिककदलीफलभक्षणेन अजीर्णता अनुभूयते चेत् एलायाः द्वित्रान् बीजान् सम्यक् चर्वित्वा गिलेत् । अनुक्षणं परिहारः लभ्यते
 
===इतरे उपयोगाः===
एलायाः वस्रगालितचूर्णं कृत्वा नस्यवत् सेवनेन शिरोवेदना शाम्यति ।
एलायाः चूर्णं बादामि खण्डशर्कशयोः च मिश्रीकृत्य नियमितरुपेण सेव्यते चेत् मस्तिष्कस्य बलवर्धनं भवति स्मरशक्तिः च वर्धते । पित्तकारणेन शिरोभ्रमणम् अनुभूयते चेत् गुडेन सह एलचूर्णं योजयित्वा पानकं निर्मीय पातव्यम् । अयं वमने, विरेचने अपि हितकरः ।
 
जागरूकता
एलायां रुक्षगुणः अपि वर्तते । अतः गर्भिव्यः स्त्रियः दीर्घकालम् अस्य सेवनं न कुर्युः ।
कफजन्यरोगेषु एलायाः प्रयोगः हानिकरः ।
एलायाः दुष्परिणामनिवारणार्थं ज्येष्ठमधोः चूर्णः सेवनीयः ।
एला०.५-१ ग्रां प्रमाणेन चिकित्सायां, प्रयुज्यते, एलायां बृहत् , लघु इति विधद्वयं भवति । औषधार्थं लघुः एलाएव उपयुन्यते ।
 
==एलनिर्मितानि औषधानि==
:१. एलादिचूर्णः
:२. एलाद्यरिष्टः
:३. एलादिगुटिका
:४. एलाद्यमोदकः
:५. एलादिक्वाथः
 
 
===अधिकानि चित्राणि===
"https://sa.wikipedia.org/wiki/एला" इत्यस्माद् प्रतिप्राप्तम्