"मकरसङ्क्रमणम्" इत्यस्य संस्करणे भेदः

पङ्क्तिः १:
पोङ्गल्-पर्वणि हार्दिकाभिनन्दनम्।
[[File:Tilgul kha god god bola.jpg|thumb|'''मकरसङ्क्रमणपर्वणः विशिष्ठं तिलगुडभक्ष्यम्''']]एतत् पर्वत: आरभ्य परमपवित्रस्य उत्तरायणकालस्य आरम्भ: । सामान्याः जना: एतत् [[तिलः|तिलपर्व]] इति वदन्ति । [[तमिऴ्‌नाडु|तमिळुनाडुराज्ये]] पोङ्ग्ल इति वदन्ति । एतत् [[सूर्यः|सूर्यस्य]] चलनसम्बद्धं पर्व । सूर्यस्य एकराशित: अन्यराशिं प्रतिप्रवेशदिनं सङ्क्रमणम् इति उच्यते । सौरमानानुसारं सूर्यस्य मेषादिद्वादशराशिं प्रति प्रवेशदिनम् एव सङ्क्रमणदिनम् ।[[चित्रम्:Earth-lighting-winter-solstice EN.png|thumb|'''कर्कतः मकरं सूर्यसङ्क्रमणम्'''| 200px|left]]
 
*[[अभिनन्दन-वाक्यानि]]
:'''रवे: सङ्क्रमणं राशौ सङ्क्रान्तिरिति कथ्यते ।'''
:'''स्नानदानतप:श्राद्धहोमादिषु महाफला ॥'''
:'''मेषादिषु द्वादशराशिषु क्रमेण संसरत: सूर्यस्य ।'''
:'''पूर्वस्माद्राशे: उत्तरराशौ सङ्क्रमणं प्रवेश: सङ्क्रान्ति: ॥'''
 
[[वर्गः:अभिनन्दनवाक्यानि]]
एवंक्रमेण वर्षे १२ सङ्क्रमणानि भवन्ति । तत्र प्रमुखं सङ्क्रमणद्वयम् । कर्काटकसङ्क्रमणं (दक्षिणायनस्य आरम्भ:) मकरसङ्क्रमणं (उत्तरायनस्य आरम्भ:) चेति । कर्काटकमकरसङ्क्रमणे अयनसङ्क्रमणे, मेषतुलासङ्क्रमणे विषुवसङ्क्रमणे, कन्या-मिथुन-धनु-मीनसङ्क्रमणानि षडशीतिमुखसङ्क्रमणानि, वृषभ-सिंह-वृश्चिक-कुम्भसङ्क्रमणानि विष्णुपदसङ्क्रमणानि इति विभाग: कृत: अस्ति । मकरसङ्क्रमणदिनत: आरभ्य रात्रिकालस्य अवधि: न्यून: भवति । एतद्दिने एव स्वर्गः|स्वर्गस्य]] द्वारोद्घाटनं क्रियते इति । परमपवित्रे अस्मिन् सङ्क्रमणदिने क्रियमाणं स्नान-दान-जप-तप-हवन-पूजा-तर्पण-श्राद्धादिकम् अधिकं फलप्रदम् इति वदन्ति शास्त्रपुराणानि । तद्दिने य: पापाचरणं करोति, य: पवित्रकर्माणि न आचरति स: पापभाक् भवति इत्यपि वदन्ति ज्ञानिन: । अन्यानि सङ्क्रमणानि आचरितुम् अशक्त: एतदेकं सङ्क्रमणं वा आचरेत् इति वदति शास्त्रम् ।
[[वर्गः:विषयः वर्धनीयः]]
:'''सङ्कान्त्यां पक्षयोरन्ते ग्रहणे [[चन्द्रः|चन्द्र]]सूर्ययो: ।'''
:'''[[गङ्गा]]स्नानं नर: कामात् ब्रह्मा|ब्रह्मण:]] सदनं व्रजेत् ॥''' ([[भविष्यपुराणम्]])
 
:'''रविसङ्क्रमणे पुण्ये न स्नायाद्यस्तु मानव: ।'''
:'''सप्तजन्मन्यसौ रोगी निर्धनोपजायते ॥'''[[चित्रम्:CowHA.jpg|thumb|200px|right|गोपूजा]]
:'''सङ्क्रान्तौ यानि दत्तानि हव्यकव्यानि मनवै: ।'''
:'''तानि नित्यं ददात्यर्क: पुनर्जन्मनि जन्मनि ॥''' ([[देवीपुराणम्]])
 
:'''राहुदर्शनं सङ्क्रान्तिविवाहात्ययवृद्धिषु ।'''
:'''स्नानदानादिकं कुर्युर्निशि काम्यव्रतेषु च ॥''' (गोभिलम्)
 
:'''धेनुं तिलमयीं राजन्दद्याद्योत्तरायणे ।'''
:'''सर्वान्कमानवाप्नोति विन्दते परमं सुखम् ॥'''
:'''उत्तरे त्वयने विप्रा वस्तुदानं महाफलम् ।'''
:'''तिलपूर्वमनड्वाहं दत्वा रोगै: प्रमुच्यते ॥'''
:'''तस्मत्तस्यां तिलै: स्नानं कार्यं चोद्वर्तनं बुधै: ।'''
:'''देवतानां पितॄणां च सोदकैस्तर्पणं तिलै: ॥'''
:'''पुरा मकरसङ्क्रान्तौ शङ्करो गोसवे कृते ।'''
:'''तिलानुत्पदयामास तृप्तये सर्वदेहिनाम् ॥''' (विष्णुधर्मोत्तरं, शिवरहस्यं च)
 
सूर्य: अस्मिन् दिने दक्षिणत: उत्तरदिशि सञ्चारस्य आरम्भं करोति । अत: एव उत्तरायणस्य आरम्भ: अस्मात् दिनात् इति उच्यते । सूर्यस्य एकस्मात् राशित: अन्यराशिं प्रति प्रवेशकाल: अत्यन्तं सूक्ष्म: । सामान्यै: स: काल: क: इति न ज्ञायते । तदर्थं तत्पूर्वं परं चेति कश्चन काल: पुण्यकाल: इति निर्णीत: अस्ति । मेषतुलासङ्क्रान्तौ राशिप्रवेशात् पूर्वं प्रवेशानन्तरं च १५ घटिका: यावत् पुण्यकाल: । वृषभ-सिंह-वृश्चिक-कुम्भसङ्क्रान्तिषु प्रवेशपूर्वं १६ घटिका: यावत्, मिथुन-कन्या-धनु-मीनसङ्क्रान्तिषु प्रवेशात् परं १६ घटिका: यावत्, कर्काटकसङ्क्रमणे प्रवेशपूर्वं ३० घटिका: यावत्, मकरसङ्क्रमणे च प्रवेशानन्तरं ४० घटिका: यावत् पुण्यकाल: इति उच्यते । अस्मिन् पुण्यकाले स्नान-जप-तप-ध्यान-श्राद्ध-तर्पणादिकं कुर्वन्ति । तद्दिने पुण्यतीर्थस्नानेन पुण्यपुरुषार्था: सिध्यन्ति इति । गङ्गास्नानेन ब्रह्मलोक: प्राप्यते । विशेषतया मकरसङ्क्रमणदिने शीतल[[जलम्|जलेन]] एव स्नानं कुर्वन्ति । अशक्ता: केवलम् उष्णजलेन स्नानं कुर्वन्ति । तिलपर्व इत्येव प्रसिद्धे अस्मिन् पर्वणि विभिन्नै: प्रकारकै: तिलस्य उपयोगं कुर्वन्ति । तिल[[तैलम्|तैलं]] लेपयित्वा स्नानं कुर्वन्ति । तिलेन तर्पणं यच्छन्ति । तिलनिर्मैत[[धेनुः|धेनो:]] दानं कुर्वन्ति । तिलस्य, [[गुडः|गुड]]-[[नारिकेलम्|नारिकेल]]-[[कलायः|कलाय]]मिश्रितस्य तिलस्य दानं कुर्वन्ति । पीडापरिहरार्थं बालानां तिलाभिषेकं कुर्वन्ति । देवानां पूजां कृत्वा विशेषतया [[मुद्गः|मुद्ग]]मिश्रितस्य अन्नस्य (पोङ्ग्ल) नैवेद्यं कुर्वन्ति ।
 
[[चित्रम्:Kite lko.jpg|thumb|150px|left|उत्तरप्रदेशस्य लखनऊनगरस्य कस्मिंश्चित् आपणे विक्रियमाणाः विभिन्नवर्णानां वाताटाः]]
 
एतद्दिने एव [[वाताटः|वाताटानाम्]] उड्डयनम् अपि कुर्वन्ति महता प्रमाणेन [[भारतम्|भारतस्य]] केषुचित् राज्येषु । एतद्दिने गोपूजामपि कुर्वन्ति । ता: स्नापयित्वा श्रृङ्गे विविधवर्णै: अलङ्कुर्वन्ति । तासां प्रियं [[तृणम्|तृणं]], [[धान्यम्|धान्यं]], गुडं, नारिकेलं च ताभ्य: यच्छन्ति । पीडापरिहारार्थं ता: ज्वलत: [[अग्निः|अग्ने:]] उपरिष्टात् गमयन्ति । गोमाता अष्टमङ्गलेषु एका इति परिगण्यते । तस्या: दर्शनं, नमस्कार:, पूजा, प्रदक्षिणं च अनिष्टपरिहारकम् इति मन्यते । तस्या: अवयवेषु १४ लोका: सन्ति । समस्तदेवता: तस्या: अङ्गेषु निवसन्ति इति वदन्ति शास्त्राणि ।
 
:'''”गवामङ्गेषु तिष्ठन्ति भुवनानि चतुर्दश ।'''
:'''[[दन्ताः|दन्तेषु]] मरुतो देवा [[जिह्वा|जिह्वायां]] तु [[सरस्वती]] ॥'''
:'''खुरमध्येषु [[गन्धर्वाः|गन्धर्वा:]] खुराग्रेषु च [[सर्पः|पन्नगा:]] ॥'''
:'''सर्वसन्धिषु साध्या चन्द्रादित्यौ तु [[नेत्रम्|लोचने]] ।'''
:'''ककुदि सर्वनक्षत्रं लाङूले धर्म आश्रित: ॥'''
:'''अपाने सर्वतीर्थानि प्रस्रावे जावीनदी ।'''
:'''नानाद्वीपसमाकीर्णा चत्वार: सागरास्तथा ॥'''
:'''ऋषयो रोमकूपेषु गोमये पद्मधारिणी ।'''
:'''सन्ति रोमसु विद्या श्रृङ्गयोरयनद्वयम् ॥'''
:'''धैर्यं धृति क्षान्ति पुष्टिर्वृद्धिस्तथैव च ।'''
:'''[[स्मृतिः|स्मृति]]र्मेधा तथा लज्जा वपु: कीर्तिस्तथैव च ॥'''
:'''विद्या शान्तिर्मतिवा सन्तति: परमा तथा ।'''
:'''गच्छन्तीमनुगच्छन्ति एता गां वै न संशय: ॥'''
:'''यत्र गावो जगत्तत्र देवदेवीपुरोगमा: ।'''
:'''यत्र गावस्तत्र लक्ष्मी: सांख्यधर्मा शाश्वत: ॥'''
:'''गाव: पवित्रा माङ्गल्या देवानामपि देवता: ।'''
:'''यस्ता: शुश्रूषते भक्त्या स पापेभ्य: प्रमुच्यते ॥“'''
 
एतदृशी गोमाता प्रतिदिनम् अपि पूजनीया । य: प्रतिदिनं न श्क्नोति स: सङ्क्रमणदिने वा गोपूजां कुर्यात् । शुभकर्मणि, अपरकर्मणि, श्राद्धकर्मणि एवं सर्वत्रापि गोपूजा श्रेयस्करी । गोमातु: श्रृङ्गद्वये अयनद्वयस्य अधिदेवता: निवसन्ति । अयनद्वयस्य सन्धिकाले मकरसङ्क्रमणदिने गोपूजा अत्यन्तं श्रेयस्करी ।
 
तद्दिने मध्याह्नभोजनानन्तरं नारिकेल-गुड-कलायमिश्रितं तिलम्, [[इक्षुः|इक्षुदण्डं]], [[शर्करा]]निर्मितं विग्रहं च प्रतिगृहं गत्वा वितरन्ति । रात्रौ देवतापूजाया: अनन्तरं ज्योतिष्कान् सगौरवम् आह्वयन्ति । ज्योतिष्का: सङ्कान्तिमूर्ते: स्वरूपं, तस्य वर्षस्य सङ्क्रमणफलं प्ञ्चाङ्घानुसारं वदन्ति ।
 
[[तमिऴ्‌नाडु|तमिळुनाडुराज्ये]], [[आन्ध्रप्रदेशः|आन्ध्रपदेशे]], [[उत्तरप्रदेश:|उत्तरप्रदेशे]], [[कर्णाटकम्|कर्णटके]] एवं कुत्रचित् सङ्क्रमणस्य आचरणे प्रादेशिकानि वैशिष्ट्यानि सन्ति ।
 
==='''वैद्यकीयमहत्त्वम् :'''===
 
:शैत्यकाले अस्माकं शरीरे विद्यमान: तैलांश: शाखार्थं व्ययित: भवति । तेन शरीरे तैलांशस्य अभाव: भवति । तस्मात् शीतसम्बद्धा: रोगा: जायन्ते । नारिकेल-गुड-कलायमिश्रितस्य तिलस्य, इक्षुदण्डस्य, शर्कराभक्ष्यस्य च भक्षणेन अभाव: निवार्यते ।
 
[[वर्गः:हिन्दु-उत्सवाः]]
"https://sa.wikipedia.org/wiki/मकरसङ्क्रमणम्" इत्यस्माद् प्रतिप्राप्तम्