"धर्मपुरीमण्डलम्" इत्यस्य संस्करणे भेदः

(लघु) Bot: Migrating 18 interwiki links, now provided by Wikidata on d:q15152 (translate me)
No edit summary
पङ्क्तिः ११५:
|autocat = <!-- yes/no -->
}}
 
धर्मपुरी मण्डलम् (Dharmapuri district) (तमिऴ् - தருமபுரி(தர்மபுரி) மாவட்டம்) दक्षिणभारतस्य तमिऴ्‌नाडुराज्यस्य मण्डलेषु अन्यतमम् । अस्य केन्द्रस्थानं धर्मपुरीपत्तनम् । ऐतिहासिकतया अस्य नगरस्य ’तगडूरु’ इति नाम आसीत् ।
 
==इतिहासः==
तगडुरुप्रदेशस्य (अद्यतनधर्मपुरी) विज्ञातः प्राचीनतमः प्रशासकः सङ्गमकालस्य आदियमान् नेडुमान् अञ्जिः । तस्य आश्रये एव प्रसिद्धा कवयित्री [[अव्वैयार्]] आसीत् । अग्रे अस्य प्रदेशस्य उल्लेखः क्रिस्तीये अष्टमशतके श्रूयते, यदा [[सेलं मण्डलम्|सेलं मण्डलस्य]] उत्तरभागाः [[पल्लवाः|पल्लवप्रशासने]] आसन् । ततः गङ्गपल्लवाः ’सेलं’सेलं’ ’मण्डलस्यमण्डलस्य पश्चिमभागान् अपि जितवन्तः । अष्टमशतकस्य अन्ते पश्चिमगङ्गाः बारामहलस्य अपि प्रशासकाः आसन् इति श्रूयते ।
 
नवमशतकस्य आरम्भे [[राष्ट्रकूटाः]] बलं प्राप्य अग्रिमयोः द्वयोः शतमानयोः अस्मिन् मण्डले प्रभावयुताः आसन् । ततः सेलम् मण्डलस्य पूर्णः भागः [[चोळाः|चोळैः]] जितः । तदा गङ्गवाडी चोळप्रशासनस्य भागः भूत्वा अडिगमान् तगडूरस्य अधीनतया स्थापितम् । द्वादशशतके चोळानाम् अवनतिः अभवत् । [[होय्सळवंशः|होय्सळाः]] प्रबलाः भूत्वा चोळान् गङ्गवाडीतः प्रभ्रष्टान् कृतवन्तः । तदा यद्यपि बारामहल् तथा तलघाट् प्रदेशौ चोळप्रशासने एव शिष्टौ, तथापि अडिगमान् प्रदेशः प्रायः स्वतन्त्रः अभवत् । नाममात्रेण तत्र चोळानां प्रभावः आसीत् ।
 
चतुर्दशे शतके [[विजयनगरसाम्राज्यम्|विजयनगरसाम्राज्यस्य]] उदयः अभवत् । [[१३६५-६६]] समये प्रथमः [[बुक्कराजः]] [[मधुरै]]प्रदेशस्य देहलीसुल्तानान् पराजितवान् । ततः सेलं प्रदेशः विजयनगरसाम्राज्यस्य अधीनः अभवत् । [[ताळीकोटे]] टसमरानन्तरं चेन्नपत्तनस्य जगदीशरायः मैसूरुप्रान्तेन सह बारामहलम् अपि शासितवान् । सप्तदशशतके तिरुमलनायकस्य आधिपत्ये मधुरैनायकाः एतं प्रदेशं स्वाधीनं कृतवन्तः । तिरुमलनायकं प्रति निष्ठानां पोलिगराणां शासने अयं प्रदेशः स्थापितः । पोलिगरेषु अन्यतमः रामचन्द्रनायकः नामक्कल् दुर्गं निर्मितवान् इति श्रूयते ।
 
[[श्रीरङ्गपट्टणम्|श्रीरङ्गपत्तणस्य]] [[कण्ठीरवनरसराजः]] १६५४तमे[[१६५४]] तमे वर्षे बारामहल्, पेण्णगरम्पेण्णगरं, डेङ्कनिकोट्ट तथा धर्मपुरीप्रदेशान् जितवान् । ततः किञ्चनकालं बारामहलप्रदेशः [[मराठाः|मराठैः]] शासितः । पुनः [[१६८८-८९]] वर्षे मैसूरुराजः [[चिक्कदेवरायः]] सम्पूर्णं सेलम्सेलं मण्डलं स्वायत्तीकृतवान् । १७०४तमे[[१७०४]] तमे वर्षे तस्य निधनानन्तरं [[१७१४]] तमे वर्षे कडपानवाबः अब्दुलअब्दुल् नबि खानः बारामहलस्य अधिपतिः अभवत् ।
[[१७५०]] समये [[हैदर् आलि]] एतं प्रदेशं जितवान् । ततः [[१७६७]] तमे वर्षे अयं प्रदेशः ब्रिटिशैःब्रिटिषैः जितः । पुनः शीघ्रमेव हैदर् आलि ब्रिटिशान्ब्रिटिषान् पराजित्य एतान् प्रदेशान् प्राप्तवान् । तस्य पुत्रस्य [[टिप्पु सुल्तानः|टिप्पू सुल्तानस्य]] काले सम्भूतस्य शान्तिसन्धानस्य फलत्वेन बालघाट् तथा होसूरुप्रदेशम् अतिरिच्य प्रायेण पूर्णं सेलं मण्डलं ब्रिटिशानाम्ब्रिटिषानाम् अधीनम् अभवत् । प्रथमः ब्रिटिश्ब्रिटिष् समाहर्ता कृष्णगिरिं स्वस्य केन्द्रस्थानम् अकरोत् । [[१७९९]] तमे वर्षे सम्भूतस्य अन्तिममैसूरुसमरस्य अनन्तरं होसूरुप्रदेशस्य शिष्टाः भागाः अपि ब्रिटिशानाम्ब्रिटिषानाम् अधीनाः अभवन् ।
अद्यतनधर्मपुरीप्रदेशः तदा सेलंमण्डलस्य एव भागः आसीत् । [[१९४७]] पर्यन्तम् अपि धर्मपुरी सेलं मण्डलस्य उपमण्डलम् आसीत् । [[१९६५]] तमे वर्षे अक्टोबर् मासस्य द्वितीये दिनाङ्के धर्मपुरीमण्डलं निर्मितम् । अस्य केन्द्रस्थानम् अभवत् धर्मपुरीपत्तनम् ।
 
[[२००४]] तमवर्षस्य सेप्टम्बर् मासस्य द्वितीयेद्वितीय दिनाङ्के धर्मपुरीमण्डलं धर्मपुरी तथा कृष्णगिरिः इति द्वेधा विभक्तम् ।
 
==भौगोलिकम्==
धर्मपुरीमण्डलस्य विस्तारः ४४९७.७७ चतुरश्रकिलोमीटर् । अस्य उत्तरदिशिउत्तरदिशे कृष्णगिरिमण्डलमं, पूर्वत्र तिरुवण्णामलै-विलुप्पुरमण्डले, विलुप्पुरमण्डलं, दक्षिणे सेलं मण्डलं, पश्चिमभागे [[कर्णाटकम्|कर्णाटकराज्यस्य]] [[चामराजनगरमण्डलम्]] अस्ति । पूर्णं मण्डलं पर्वतैः अरण्यैः च आवृतम् अस्ति ।
अत्रत्यः वायुगुणः प्रायेण उष्णः भवति । मार्च्‌मासतःमार्च्‌ मासतः मेमासपर्यन्तम् औष्ण्यम् अत्यधिकं भवति । एप्रिल्‌मासे अधिकतमः ३८.० सी उष्णांशः भवति । डिसेम्बर्मासतः फ़ेब्रवरीमासपर्यन्तं उष्णता मन्दीभवति । जनवरीमासे न्यूनतमः ११० सी उष्णांशः भवति ।
 
==जनसंख्या==
[[२०११]] जनगणनानुगुणं धर्मपुरीमण्डले १,५०२,९०० जनाः वसन्ति । भारतस्य ६४० मण्डलेषु जनसंख्यादृष्ट्या धर्मपुर्याः ३३४तमं३३४ तमं स्थानम् । अत्र जनसान्द्रता प्रतिचतुरस्रकिलोमीटर् ३३२ निवासिनः (प्रतिचतुरश्रमैल् ८६० जनाः) । [[२००१-२०११]] दशके जनसंख्यावृद्धिः १६.०४% आसीत् । धर्मपुर्यां पुं-, स्त्री अनुपातः १०००:९४६ अस्ति, साक्षरताप्रमाणं च ६४.७१% ।
 
==उपमण्डलानि==
Line १४८ ⟶ १४९:
==कृषिः वाणिज्यं च==
राज्यस्य प्रमुखेषु फलशाकोत्पादकेषु प्रदेशेषु धर्मपुरीमण्डलम् अपि अन्यतमम् । अत्र अनावृष्टिः काले काले भवति । अतः वृष्टिं विना रोढुं समर्थानां फलानां कृषिः अधिकतया दृश्यते । अत्रत्यं प्रमुखम् उत्पादनम् आम्रफलानाम् । मण्डलस्य प्रायः १/३ प्रदेशे आम्रकृषिः दृश्यते । राज्यस्य ५०% आम्रफलानि अत्रैव रुह्यन्ते । पालक्कोडुप्रदेशे टोमेटोकृषिः भवति । पेण्णगरप्रदेशे मरीचिकाकृषिः दृश्यते ।
पेण्णगरे हरूरु-, पालक्कोडुप्रदेशयोः च उत्तमविधः कृष्णवर्णीयः ग्रानैट् खनिजः अपि लभ्यते । क्वार्ट्ज़् खनिजः पेण्णगर- उपमण्डलस्य केण्डिगनपळ्ळिग्रामे, हरूरुतालुकायाः वेलम्पट्टिग्रामे, पाप्पिरेड्डिपट्टितालुकायाः पेद्दम्पट्टिग्रामे च लभ्यते । हरूरुप्रदेशे अमूल्यः मालिब्डिनम्मालिब्डिनं खनिजः अपि लभ्यते । अयं खनिजः उत्तमः संवाहकः ।
 
==वीक्षणीयस्थलानि==
Line १५८ ⟶ १५९:
 
===आदियमान्कोट्टै===
इयं तगडूरुप्रदेशस्य प्राचीनप्रशासकानां आदियमान्- वंशस्थानां राजधानी आसीत् । सेलम्-, धर्मपुरीमार्गे धर्मपुर्याः ७ किलोमीटर् दूरे अस्ति इदम् । अण्डाकारस्य दुर्गस्य अवशेषाः अद्यापि द्रष्टुं शक्याः । अत्रत्येषु देवालयेषु चेन्नराय पेरुमाळ् देवालयः बृहत्तमः । कृष्णदेवरायेन, [[होय्सळवंशः|होय्सळराजैः]] वा निर्मितः अयं देवालयः इति श्रूयते । इदं संरक्षितं स्मारकम् । देवालयस्य अन्तच्छदे महाभारतस्य, विश्वरूपदर्शनस्य, रामायणस्य च चित्राणि चित्रितानि सन्ति । सर्वाणि चित्राणि त्रयोदशशतकस्य सन्ति ।
 
===सुब्रह्मण्यशिवस्मारकम्===
Line १६४ ⟶ १६५:
 
===सर् थामस् मन्रो स्तम्भः===
सर् थामस् मन्रो एप्रिल् १७९२तः[[१७९२]] तः मार्च् [[१७९९]] पर्यन्तं बारामहले आयाधिकारिणः सहायकः आसीत् । धर्मपुर्याः कृते तस्य सहयोगस्य स्मरणार्थं मद्रास् सर्वकारेण अयं स्तम्भः निर्मितः । समीपे एव तस्य गृहम्, उद्यानं च अस्ति ।
 
==बाह्यसम्पर्कतंतुः==
Line १७१ ⟶ १७२:
 
<references/>
{{Geographic location
|Centre = धर्मपुरीमण्डलम्t
|North = [[कृष्णगिरिमण्डलम्]]
|Northeast = [[तिरुवण्णामलै मण्डलम्]]
|East =
|Southeast = [[विल्लूपुरमण्डलम्]]
|South = [[सेलं मण्डलम्]]
|Southwest = एरोड् मण्डलम्
|West = [[चामराजनगरमण्डलम्]], [[कर्णाटक]]
|Northwest =
}}
 
{{तमिळनाडुराज्यस्य मण्डलानि}}
"https://sa.wikipedia.org/wiki/धर्मपुरीमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्