"कन्याकुमारीमण्डलम्" इत्यस्य संस्करणे भेदः

(लघु) Bot: Migrating 18 interwiki links, now provided by Wikidata on d:q15158 (translate me)
No edit summary
पङ्क्तिः १११:
|autocat = <!-- yes/no -->
}}
कन्याकुमारीमण्डलम् (Kanyakumari district) (तमिऴ् – கன்னியாகுமரி மாவட்டம்) दक्षिणभारतस्य [[तमिऴ्नाडु|तमिऴ्नाडुराज्यस्य]] मण्डलेषु अन्यतमम् । अयं भूभागः भारतदेशस्य दक्षिणसीमायाम् अस्ति । [[चेन्नै]] नगरम् अतिरिच्य तमिऴ्नाडुराज्यस्य अत्यन्तं नगरीकृतं मण्डलं कन्याकुमारी । राज्यस्य लघुमण्डलेषु अस्य द्वितीयं स्थानम् । कन्याकुमारीमण्डले कन्याकुमारी इति पत्तनम् अपि अस्ति, यत् भारतभूप्रदेशस्य दक्षिणाग्रम् अस्ति । किन्तु अस्य मण्डलस्य केन्द्रस्थानं [[नागरकोयिल्]] पत्तनम् । इदं मण्डलं सरसां मण्डलम् इति, भूमेः अन्तः इति च प्रसिद्धम् अस्ति ।
 
==इतिहासः==
स्वातन्त्र्यात् प्राक् कन्याकुमारीमण्डलं तिरुविताङ्कूरु (ट्रावङ्कूर्) राज्यस्य भागः आसीत् । ततः केरलराज्यस्य निर्माणात् पूर्वं तिरुविताङ्कूरु- कोच्चिन् राज्ये आसीत् । तदनन्तरकाले केरलस्य [[तिरुवनन्तपुरमण्डलम्|तिरुवनन्तपुरमण्डलस्य]] अष्ट उपमण्डलानि पृथक्कृत्य कन्याकुमारीमण्डलं रचितम् । १९५६तमवर्षस्य[[१९५६]] तमवर्षस्य राज्य-पुनर्विभाग-समितेःराज्यपुनर्विभागसमितेः सूचनानुगुणम् इदं मण्डलं मद्रास्रा्ज्यस्यमद्रास् राज्यस्य भागः अभवत् । मद्रास्- राज्यस्य एव तदनन्तरकाले तमिऴ्नाडु इति नामकरणम् अभवत् ।
 
==भौगोलिकम्==
कन्याकुमारीमण्डलस्य तिसृषु दिशासु समुद्रम् अस्ति । उत्तरसीमायां [[पश्चिमघट्टपर्वतश्रेणिः अस्ति । पश्चिमसीमायां केरलराज्यस्य तिरुवनन्तपुरमण्डलम्, उत्तरे पूर्वत्र च तमिऴ्नाडुराज्यस्य तिरुनेल्वेलीमण्डलम् अस्ति । आग्नेयदिशि बङ्गालसमुद्रस्य मन्नार् समुद्रकुक्षिः (गल्फ़् आफ़् मन्नार्) अस्ति । दक्षिणसीमायां हिन्दूमहासमुद्रम्हिन्दूमहासमुद्रं, नैर्ऋत्यदिशायां अरब्बीसमुद्रं च अस्ति ।
 
==जनसंख्या==
[[२०११]] जनगणनानुगुणं कन्याकुमारीमण्डले १,८६३,१७४ जनाः सन्ति । इदं मण्डलं ८२.४७% नगरीकृतम् अस्ति । चेन्नैमण्डलम् अतिरिच्य तमिऴ्नाडुराज्ये कन्याकुमारीमण्डले एव जनसान्द्रता अत्यधिका ११०६ प्रतिचतुरश्रकिलोमीटर् । अत्रत्यं साक्षरताप्रमाणं ९०.२५% अस्ति । इदम् अस्मिन् राज्ये अत्यधिकम् । अत्र स्त्रीलिङ्गानुपातः अपि अधिकः अस्ति । पुं-, स्त्री अनुपातः १०००:१०१० अस्ति ।
 
==उपमण्डलानि==
पङ्क्तिः १३२:
==वीक्षणीयस्थलानि==
===कन्याकुमारी===
अत्रत्यं प्रमुखं वीक्षणीयस्थानं समुद्रतीरे स्थितं कुमारी अम्मन् (कन्याकुमारी)) मन्दिरम् । अयं देव्याः पार्वत्याः शक्तिपीठेषु अन्यतमः । अत्र पार्वती परमेश्वरं प्राप्तुं तपः कृतवती इति श्रूयते । कन्याकुमारीमन्दिरस्य आग्नेयदिशि समुद्रमध्ये १९७०तमे[[१९७०]] तमे वर्षे निर्मितं विवेकानन्दशिलास्मारकम् अस्ति । अस्यां शिलायां स्वामी विवेकानन्दः दिनत्रयं यावत् ध्यानं कृतवान् । अत्र ध्यानमण्डपः अपि अस्ति, यत्र ध्यानार्थं शान्तं स्थानं लभ्यते । अत्रैव तमिऴ्सन्तकवेः तिरुवळ्ळुवरस्य १३३ पादोन्नता मूर्तिः अस्ति । इयं मूर्तिः २००० तमे वर्षे शिल्पिना गणपति स्थपतिना निर्मिता एषियादेशस्य अत्युन्नतासु मूर्तिषु अन्यतमा । महात्मनः गान्धेः अस्थिभस्म सागरे निमज्जनात् पूर्वं कन्याकुमार्याम् एव स्थापितम् आसीत् । तस्मिन् स्थले अद्य गान्धीस्मारकं तिष्ठति । अस्य स्मारकस्य निर्माणवैशिष्ट्यं यत् तस्य जन्मदिने अक्टोबर् मासस्य द्वितीये दिनाङ्के प्रथमे सूर्यकिरणाः अस्तिभस्मस्थापनस्थले एव पतन्ति ।
 
===हिन्दूमहासमुद्रे सुनामी===
२००४तम[[२००४]] तम वर्षस्य डिसेम्बर् मासे २६ दिनाङ्के दक्षिण- आग्नेयएषियादिशोः बहवः देशाः सुनामीनामकेन समुद्रचण्डमारुतेन आक्रान्ताः । भारते सुनामीकारणेन पीडितेषु मण्डलेषु कन्याकुमारी अपि अन्यतमम् । अत्र नवशतेभ्यः अधिकाः जनाः मृताः, सहस्रशः जनाः तिरोभूताः, व्रणिताः वा । तदारभ्य सर्वकारीयाः तदितराः च समाजसेवासङ्घाः पीडितानां जनानां पुनर्वसतिं कल्पयितुं प्रयतमानाः सन्ति ।
 
===पद्मनाभपुरराजभवनम्===
पङ्क्तिः १४४:
 
===शुचीन्द्रम्===
अत्र स्तनुमलयदेवालयः अस्ति, यत्र विविधराजवंशानां कलाकृतयः लभ्यन्ते । नवमशतमानस्य शिलालेखाः, सङ्गीतस्तम्भाः, हनूमतः ६ मीटर् उन्नता मूर्तिः इत्यादयः अत्र बहु प्रसिद्धाः । अत्रत्यः मुख्यः आराध्यः देवः शिवलिङ्गरूपेण त्रिमूर्तीनां ब्रह्म-, विष्णु-, शिवानाम् ऐक्यं द्योतयति ।
 
===पञ्चपदीक्षेत्राणि===
पङ्क्तिः १६०:
===चितारल् जैनचैत्यानि===
मार्ताण्डतः ३५ किलोमीटर् दूरे स्थितानि इमानि चैत्यानि । अत्र नवमशतकस्य एकादशशतकस्य च जैनगुहाः मूर्तयः च सन्ति ।
तिरुनन्दिक्करदेवालयः अयं पल्लवशैल्याः शिलाच्छेदनेन निर्मितः गुहादेवालयः, क्रिस्तीये सप्तमे, अष्टमे वा शतके निर्मितः ।
 
===उल्लगरुविजलपातः===
नागरकोयिलात् २० किलोमीटर् दूरे अयं जलपातः अस्ति । पश्चिमघट्टप्रदेशे पर्वतमध्ये स्थितः एषः ।
===बाह्यसम्पर्कतन्तुः===
* [http://www.kanyakumari.tn.nic.in Official Website of Kanyakumari district]
* [http://www.hindu.com/mp/2004/05/01/stories/2004050100210100.htm Vattakottai]
 
{{Geographic location
|Centre = कन्याकुमारीमण्डलम्
|North =
|Northeast = तिरुनेल्वेली मण्डलम्
|East =
|Southeast = ''गल्फ् आफ् मानर्''
|South = ''भारतदेशीय महासागरः''
|Southwest = ''लक्षाद्वीपसमुद्रः''
|West =
|Northwest = तिरुवनन्तपुरमण्डलम्, केरला
}}
 
 
 
{{तमिळनाडु मण्डलाः}}
"https://sa.wikipedia.org/wiki/कन्याकुमारीमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्