"मधुरैमण्डलम्" इत्यस्य संस्करणे भेदः

(लघु) Bot: Migrating 1 interwiki links, now provided by Wikidata on d:q15184 (translate me)
No edit summary
पङ्क्तिः ९१:
 
 
भारतस्य [[तमिऴ्नाडु]] राज्यस्य द्वात्रिंशतौ मण्डलेषु मधुरैमण्डलम् (Madurai district) अन्यतमम् । अस्य केन्द्रस्थानं मधुरैनगरम् । [[वेङ्गै|वेङ्गैनद्याः]] तीरे स्थिते अस्मिन् नगरे विश्वप्रसिद्धः मीनाक्षीसुन्दरेश्वरदेवालयः अस्ति । काज़िमर पेरिय पल्लिवासल्पेरियपल्लिवासल् तथा काज़िमरमार्गे विद्यमानं मदुरै मक्बारा अस्य नगरस्य पुरातने इस्लाम्इस्लां स्मारके । [[तिरुप्परङ्कुड्रम्]] अस्मिन् मण्डले अपरं प्रसिद्धं प्रवासिस्थानम् ।
 
==इतिहासः==
मधुरै ‘पूर्वदिशः अथेन्स् नगरी’ इति विख्याता अस्ति । तमिऴ्भाषयातमिऴ्भाषयां एतत् नगरम्नगरं ‘तूङ्गानगरम्’, अर्थात् ’निद्रारहिता नगरी’ इति वदन्ति । देवालयानां नगरम् इत्यपि मधुरैनगरं ख्यातम् ।
क्रिस्तपूर्वे तृतीयशतके अपि मधुरैप्रान्तस्य उल्लेखः दृश्यते । भारतं प्रति आगतेन ग्रीक् राजदूतेन [[मेगास्थनीसः|मेगास्थानीसेन]], [[चन्द्रगुप्तमौर्यः|चन्द्रगुप्तमौर्यस्य]] सचिवेन [[कौटिल्यः|कौटिल्येन]] च मधुरैनगरम् उल्लिखितम् अस्ति । इदं नगरं चतुर्दशशतकं यावत् [[तमिऴ्नाडु]]-, [[केरळम्|केरलराज्ययोः]] दक्षिणभागं प्रशासितवतां [[पाण्ड्याः|पाण्ड्यानां]] राजधानी आसीत् । १३११तमे[[१३११]] तमे वर्षे [[देहलीसुल्तानाः|देहलीसुल्तानैः]] पाण्ड्याः पराजिताः । तैः सुल्तानैः माबार् प्रान्तः स्थापितः । ततः तस्य प्रशासकाः माबार् सुल्तानाः इति स्वातन्त्र्यं प्राप्तवन्तः । ततः चतुर्दशशतकस्य अन्ते विजयनगरस्य राजभिः मधुरैमण्डलं जितम् । १५५९तः[[१५५९]] तः [[१७३६]] पर्यन्तं मधुरैनायकाः राज्यभारं कृतवन्तः । १८०१तमे[[१८०१]] तमे वर्षे मधुरैनगरं ब्रिटिश् [[ईस्ट् इण्डिया संस्था|ईस्ट् इण्डिया संस्थया]] वशीकृतम् ।
 
==भौगोलिकम्==
मधुरैमण्डलस्य विस्तारः ३,७४१ चतुरश्रकिलोमीटर् । अस्य मण्डलस्य उत्तरभागे दिण्डुक्कल् मण्डलम्, ईशान्ये [[तिरुचिराप्पळ्ळि -मण्डलम्|,तिरुकिरापळ्ळिमण्डलम्तिरुकिरापळ्ळिमण्डलं]] पूर्वत्र [[शिवगङ्गामण्डलम्|शिवगङ्गामण्डलं]], दक्षिणभागे [[विरुदुनगरमण्डलम्|विरुदुनगरमण्डलं]], पश्चिमे [[तेनिमण्डलम्|तेनिमण्डलं]] च अस्ति ।
 
==जनसंख्या==
[[२०११]] जनगणनानुगुणं मधुरैमण्डलस्य जनसंख्या ३,०४१,०३८ । भारतस्य ६४० मण्डलेषु जनसंख्यादृष्ट्या अस्य मण्डलस्य ११९तमं११९ तमं स्थानम् । जनसान्द्रता प्रतिचतुरश्रकिलोमीटर् ८२३ अस्ति । (२१३० प्रतिचतुरश्रमैल्) । [[२००१-२०११]] दशके जनसंख्यावॄद्धिः १७.९५% आसीत् । अस्मिन् मण्डले पुं-, स्त्री अनुपातः १०००:९९० अस्ति । साक्षरताप्रमाणं ८१.६६% ।
 
==उपमण्डलानि==
पङ्क्तिः ११८:
[[File:Temple de Mînâkshî01.jpg|thumb|400px|मधुरैमीनाक्षीमन्दिरम्]]
[[File:Goddess Meenakshi.JPG|thumb|300px|मीनाक्षीदेवी]]
‘तिरु आलवाय्’ इति ख्यातः मीनाक्षीदेवालयः मधुरैनगरे वेङ्गैनद्याः दक्षिणभागे अस्ति । अत्रत्या आराध्यदेवी मीनाक्षीनाम्ना ख्याता पार्वतीदेवी, तस्याः पतिः सुन्दरेश्वरः च । ४५-५० मीटर् उन्नतानि चतुर्दशगोपुराणि देवालये सन्ति । मीनाक्षीसुन्दरेश्वरयोः गर्भगृहस्य उपरि द्वे सुवर्णविमाने च स्तः । तमिऴितिहासे बहुप्राचीनकाले अपि अस्य मन्दिरस्य उल्लेखः दृश्यते । किन्तु अद्य विद्यमानं मन्दिरं क्रिस्तीय [[१६२३]] तः [[१६५५]] तमवर्षयोः मध्ये निर्मितम् । अस्मिन् मन्दिरे प्रायः ३३००० शिल्पाः सन्ति । अत्र प्रतिदिनं १५००० जनाः, शुक्रवासरेषु २५००० जनाः च आगच्छन्ति । प्रतिवर्षम् एप्रिल्-, मे मासयोः आचर्यमाणे मीनाक्षीकल्याणमहोत्सवे दशलक्षभक्ताः भागं वहन्ति ।
[[File: Goddess Meenakshi Wedding.JPG |thumb|220px|भगिन्याः मीनाक्ष्याः [[शिवः|शिवाय]] कन्यादानं कुर्वाणः [[विष्णुः]]]]
 
पङ्क्तिः १३३:
 
===कूडल् अळगर् कोयिल्===
विष्णोः अयं देवालयः मधुरैपत्तनस्य मध्ये अस्ति । ‘कूडल्’ इति मधुरैनगरस्य एव अपरं नाम । ‘अऴगर्’ इत्यस्य तमिऴ्भाषायां ‘सुन्दरः’ इति अर्थः । अयं देवालयः अत्यन्तं प्राचीनः, मीनाक्षीदेवालयस्य समीपे एव अस्ति । श्रीवैष्णवानां पवित्रेषु १०८ दिव्यदेशेषु इदम् अपिइदमपि अन्यतमम् ।
 
===तेप्पक्कुळम्===
पङ्क्तिः १३९:
 
===तिरुप्परकुण्ड्रं मुरुगदेवालयः===
अयं कार्तिकेयस्य ‘[[आरुपडैवीडु]]’क्षेत्रेषु अन्यतमम् । अत्रैव कार्तिकेयः इन्द्रस्य पुत्रीं देवयानीम् ऊढवान् इति पुराणकथा । अयं देवालयः मधुरैनगरात् ८ किलोमीटर् दूरे अस्ति । मुख्यदेवालये न केवलं सुब्रह्मण्यस्य, अपि तु शिव-विष्णु-विनायक-शिवः, विष्णुः, विनायकः, दुर्गाणाम् आलयाः सन्ति ।
 
===तिरुमलनायकभवनम्===
इदं राजभवनं मधुरैमण्डलस्य राज्ञा तिरुमलनायकेन १६३६तमे[[१६३६]] तमे वर्षे निर्मितम् । अस्मिन् राजभवने द्राविड-इस्लामीयशिल्पशैल्योः संमिश्रणं दृश्यते । इदं राष्ट्रियं स्मारकम्स्मारकं, तमिऴ्नाडुराज्यस्य पुरातत्त्वशास्त्रविभागेन निरुह्यमानम् अस्ति ।
 
===गान्धीवस्तुसङ्ग्रहालयः===
मधुरैनगरे क्रिस्तीये १९५९तमे[[१९५९]] वर्षेतमे महात्मनःवर्षे गान्धेःमहात्मागान्धेः स्मरणार्थम् अयं वस्तुसङ्ग्रहालयः स्थापितः । भारतस्य पञ्चसु गान्धिसङ्ग्रहालयेषु अयम् अन्यतमः । अत्र भारतस्य स्वातन्त्र्यसङ्ग्रामविषये २६५ चित्राणां प्रदर्शिनी अस्ति । ततः गान्धेः ‘दृश्यजीवनगाथा’ दृश्यते, यत्र गान्धेः जीवनसम्बद्धानि छायाचित्राणि, चित्राणि, शिल्पाः, ताडपत्राणि, गान्धिना लिखितानां पत्राणां प्रतिकृतयः च सन्ति । अवशेषाणां विभागे गान्धिना उपयुक्तानि १४ वस्तूनि दृश्यन्ते । अत्र नाथूरामगोडसेद्वारा हननसमये गान्धिना धृतस्य रक्तसिक्तस्य वस्त्रस्य भागः अपि अस्ति ।
 
==आधाराः==
पङ्क्तिः १५२:
*[http://www.madurai.tn.nic.in/ Madurai District]
*[http://www.maduraitimes.com/ Madurai Blog - for Madurai improvement]
 
{{Geographic location
|Centre = मधुरैमण्डलम्
|North = दिण्डिगल् मण्डलम्
|Northeast = तिरुचिरापल्लिमण्डलम्
|East = शिवगंगा मण्डलम्
|Southeast =
|South = विरुधुनगरमण्डलम्
|Southwest =
|West = तेनिमण्ड्लम्
|Northwest =
}}
 
{{तमिळनाडु मण्डलाः}}
"https://sa.wikipedia.org/wiki/मधुरैमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्