"एला" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४:
इयम् एला [[भारतम्|भारते]] अपि वर्धमानः कश्चन सस्यविशेषः । एला अपि सस्यजन्यः [[आहारः|आहार]]पदार्थः । इयम् एला आहारत्वेन यथा उपयुज्यते तथैव [[औषधम्|औषधत्वेन]] अपि उपयुज्यते । एषा एला आङ्ग्लभाषायां Cardamom इति उच्यते । एषा एला वाणिज्यसस्यम् अपि । काफीवाटिकायाम् उपफलोदयरूपेण एलायाः वर्धनं क्रियते । एलासस्यं गुल्मवर्गस्य वृक्षकः भवति । अयं वृक्षकः आहाराणां गन्धस्य रुचेः च वर्धनार्थम् आवश्यकानि फलानि उत्पादयति । भारतीयपाकशालासु सर्वत्र एला भवति एव प्रायः । सर्वत्र अपि एला मधुरभक्ष्याणां निर्माणे अधिकतया उपयुज्यते । तद्विना [[वमनम्|वमनस्य]] निरोधकरूपेण, पित्तशामकरूपेण अपि एला उपयुज्यते ।
 
प्रसोद्धेषुप्रसिद्धेषु उपकरद्वव्येषु अन्यतमः एला । जलप्रदेशे अयं सम्यक् वर्धते । अस्य रुचिः कटुमिश्रितमधुरः ।
 
==एलायां विधमानाः अंशाः==
"https://sa.wikipedia.org/wiki/एला" इत्यस्माद् प्रतिप्राप्तम्