"नामक्कलमण्डलम्" इत्यस्य संस्करणे भेदः

(लघु) Bot: Migrating 17 interwiki links, now provided by Wikidata on d:q15187 (translate me)
No edit summary
पङ्क्तिः ११२:
|autocat = <!-- yes/no -->
}}
नामक्कल् मण्डलमं (Namakkal district) (तमिऴ्: நாமக்கல் மாவட்டம் आङ्ग्लम्: Namakkal District) भारतस्य तमिऴ्नाडुराज्यस्य मण्डलेषु अन्यतमम् । इदं मण्डलं १९९६तमवर्षस्य[[१९९६]] तमवर्षस्य जुलैमासस्य २५तमे२५ दिने सेलंमण्डलात् पृथक्कृतम् । १९९७तमवर्षस्य[[१९९७]] तमवर्षस्य जनवरीमासस्य प्रथमदिनात् स्वतन्त्रतया कार्यारम्भं कृतवत् । अस्य मण्डलस्य केन्द्रस्थानं नामक्कलपत्तनम् ।
 
==इतिहासः==
चेर-चोळ-पाण्ड्यानां, चोळपाण्ड्यानां मध्ये प्रवृत्तस्य कलहस्य अनन्तरम् अस्मिन् मण्डले [[होय्सळवंशः|होय्सळवंशीयाः]] बलं प्राप्य चतुर्दशशतकपर्यन्तं शासनं कृतवन्तः । ततः [[१५६५]] पर्यन्तं विजयनगरसाम्राज्यस्य प्रशासनम् आसीत् । १६२३तमे[[१६२३]] तमे वर्षे मधुरैनायकाः स्वीयं प्रशासनम् आरब्धवन्तः । तिरुमलनायकस्य द्वौ पोलिगरौ, रामचन्द्रनायकः गट्टि मुदलियारः च, सेलंप्रदेशं शासितवन्तौ । नामक्कलदुर्गः रामचन्द्रनायकेन निर्मितः । १६३५तमवर्षस्य[[१६३५]] तमवर्षस्य अनन्तरं अस्मिन् प्रदेशे क्रमशः बिजापुरस्य गोल्कोण्डायाः च मुस्लिमसुल्तानानाम्मुस्लिमसुल्तानानां, मैसूरुराजानाम्मैसूरुराजानां, मराठानाम्मराठानां, हैदरालेः च प्रशासनम् आसीत् । ततः टिप्पूसुल्तानस्य पराजयानन्तरम् अयं प्रदेशः ब्रिटिशैः आक्रान्तः अभवत् ।
 
==भौगोलिकम्==
नामक्कलमण्डलस्य उत्तरे [[सेलंमण्डलम्]], पूर्वस्मिन् सेलंमण्डलस्य अत्तूरु उपमण्डलं तथा [[पेरम्बलूरुमण्डलम्|पेरम्बलूरु]]-, [[तिरुच्चिराप्पळ्ळिमण्डलम्|तिरुच्चिराप्पळ्ळिमण्डले]], दक्षिणे [[करूरुमण्डलम्]], पश्चिमे [[ईरोडुमण्डलम्|ईरोडुमण्डलं]] च अस्ति ।
नामक्कलः तमिऴ्नाडोः वायव्यकृषिवायुगुणप्रदेशस्य भागः । [[कावेरी]]-, वेल्लारुनद्योः मध्यभागे इदं मण्डलम् अस्ति ।
 
==जनसंख्या==
[[२०११]] जनगणनानुगुणं नामक्कलस्य जनसंख्या १,७२१,१७९ । भारतस्य ६४० मण्डलेषु जनसंख्यादृष्ट्या अस्य मण्डलस्य २८२तमं२८२ तमं स्थानम् । अत्र जनसान्द्रता प्रतिचतुरश्रकिलोमीटर् ५०६ (१३१० प्रतिचतुरश्रमैल्) अस्ति । [[२००१-२०११]] दशके जनसंख्यावृद्धिः १५.२५% आसीत् । नामक्कले पुं-, स्त्री अनुपातः १०००:९८६, तथा साक्षरताप्रमाणं ७४.९२ अस्ति ।
 
==उपमण्डलानि==
पङ्क्तिः १३२:
 
==कृषिः वाणिज्यं च==
कृषिः नामक्कलमण्डलस्य प्रमुखम् अङ्गम् । कृषिकार्यं प्रावृषम्प्रावृषं, कूपान्, तडागान् च आधारीकृत्य प्रवर्तते । कृषिभूमेः ९०% भागः आहारसस्यानां कृष्यर्थम् उपयुज्यते । तण्डुलः, जोळः, रागी, हरितः, माषः, मुद्गः, कलायः, एरण्डः, तिलः, इक्षुखण्डः, कार्पासः इत्यादीनि अत्रत्यानि प्रमुखानि कृष्युत्पन्नानि ।
नामक्कले १९५६तः[[१९५६]] तः ट्रक्यान-, लारीयानानां कायनिर्माणोद्यमः प्रचलति । तिरुच्चेङ्गोडे बृहद्वाहनानां कार्यनिर्माणकार्यागारैः भारते एव सुप्रसिद्धः । नामक्कले निर्मिताः ट्रक्-, कायाः विदेशेभ्यः अपि विक्रीयन्ते । नामक्कले प्रायः ३०० तथा तिरुच्चेङ्गोडेप्रदेशे १०० कार्यागाराः कायनिर्माणरताः सन्ति । अनेन २५००० जनानाम् उद्योगः लभ्यते । नामक्कले कुक्कुटपालनोद्यमः अपि बृहदाकारः अस्ति । तमिऴ्नाडुनः ६५% कुक्कुटाण्डाः नामक्कले एव उत्पाद्यन्ते
नामक्कले कुक्कुटपालनोद्यमः अपि बृहदाकारः अस्ति । तमिऴ्नाडुनः ६५% कुक्कुटाण्डाः नामक्कले एव उत्पाद्यन्ते ।
 
==वीक्षणीयस्थलानि==
नामक्कलशिलादुर्गः अयं दुर्गः रामचन्द्रनायकेन षोडशशतके निर्मितः । ६५ मीटर् उन्नतस्य नामगिरेः उपरि अयं दुर्गः अस्ति । अस्य विस्तारः १.५ एकर् अस्ति । नामगिरेः उभयोः पार्श्वयोः देवालयौ स्तः, नरसिंहस्वामिदेवालयः, रङ्गनाथस्वामिदेवालयः च । अत्र विद्यमाने हनूमद्देवालये १८ पादोन्नता हनूमतः एकशिलामूर्तिः अस्ति ।
तिरुच्चेङ्गोडे – इदं पत्तनं नामक्कलपत्तनात् ३५ किलोमीटर् दूरे अस्ति । कोङ्गुनाडोः सप्तसु शिवस्थलेषु इदम् अन्यतमम् । अत्र गिरेः उपरि अर्धनारीश्वरस्य देवालयः अस्ति । अयं देवालयः अस्य प्रान्तस्य प्राचीनतममन्दिरेषु अन्यतमः ।
 
कोळ्ळिमलै पर्वताः – नामक्कलपत्तनात् ४५ किलोमीटर् दूरे पूर्वघट्टप्रदेशे इमे पर्वताः सन्ति । एषाम् औन्नत्यं प्रायः १२०० मीटर् । अत्र बहूनि औषधीयसस्यानि वनस्पतयः च रोहन्ति । अरपालेश्वरदेवालयः, फलशाककृषिक्षेत्रम्, औषधीयसस्यकृषिक्षेत्रम्, अगयगङ्गाजलपातः, नौकागृहम्नौकागृहं, पेरियस्वामिदेवालयः, वीक्षणाट्टः, दूरदर्शकगृहं च अत्रत्यानि वीक्षणीयस्थलानि । अत्र प्रतिवर्षम् आगस्ट् मासे वल्विल् ओरि पर्व आचर्यते ।
 
==बाह्यसम्पर्कतन्तुः==
"https://sa.wikipedia.org/wiki/नामक्कलमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्