"रामनाथपुरमण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १४९:
==वीक्षणीयस्थलानि==
===रामनाथस्वामिदेवालयः===
[[File:Ramanathar-temple.jpg|thumb|300px250px|right|रामेश्वरदेवालयः]]
अयं रामेश्वरद्वीपे विद्यमानः प्रसिद्धः देवालयः । द्वादशज्योतिर्लिङ्गक्षेत्रेषु इदम् अन्यतमम् । २७५ पादल् पेट्र स्थलेषु अपि इदम् अन्यतमम् । अत्रत्यः परमेश्वरस्य देवालयः क्रिस्तीये द्वादशशतके पाण्ड्यराजेन निर्मितः । भारतस्य हिन्दूदेवालयेषु अस्मिन् देवालये एव अतिदीर्घः उपकक्षः अस्ति । अस्मिन् द्वीपे ६४ पवित्रतीर्थानि सन्ति ।
 
===[[धनुष्कोटिः]]===
अयं ग्रामः रामेश्वरद्वीपस्य दक्षिणाग्रे तमिऴ्नाडुराज्यस्य पूर्वसमुद्रतीरे अस्ति । अत्र बङ्गालसमुद्रस्य हिन्दूमहासमुद्रस्य च सङ्गमः भवति । श्रीरामः लङ्कां प्रति सेतुनिर्माणस्य स्थलम् अत्रैव स्वस्य धनुषः कोटिना (अग्रभागेन) चिह्नितवान् । अतः अस्य क्षेत्रस्य धनुष्कोटिः इति नाम इति वदन्ति । रामेश्वरं प्रति गमनात् प्राक् अत्र समुद्रसङ्गमे स्नानं कुर्वन्ति भक्ताः ।
 
===एरवाडिः===
अयं कडलाडि उपमण्डले विद्यमानः ग्रामः । अत्र कुतबस् सुल्तान् सय्यद् इब्राहिम् शहीद् बादशाहस्य समाधिः अस्ति । एषः मुहम्मदस्य वंशस्थः क्रिस्तीये द्वादशशतके [[मदिना|मदिनायाः]] राजा आसीत् । सः इस्लामधर्मस्य प्रचारार्थं भारतम् आगतवान् ।
समुद्रजीविसंरक्षणवलयः, मन्नारकुक्षिः – अयं दक्षिण आग्नेयएषियाखण्डे एव बृहत्तमः समुद्रजीविसंरक्षणवलयः । अत्र ३६०० प्रभेदानां प्राणिनः सस्यानि च अभिज्ञातानि सन्ति ।
 
===[[पाम्बन्सेतुः]]===
[[File:PambanBridge.jpg|thumb|300px250px|leftright|[[पाम्बन्सेतुः]]]]
अयं सेतुः रामेश्वरद्वीपस्य भारतभूभागेन सम्पर्कं कल्पयति । अयं भारतस्य प्रथमः समुद्रसेतुः । अयं प्रायः २.३ किलोमीटर् दीर्घः अस्ति । दैर्घ्ये भारतस्य समुद्रसेतुषु अस्य द्वितीयं स्थानम् । अयं सेतुः [[१९१४]] तमे वर्षे निर्मितः ।
 
पङ्क्तिः १८०:
|Northwest =
}}
 
<references/>
 
{{तमिळनाडु मण्डलाः}}
[[वर्गः: तमिळ्नाडुराज्यस्य मण्डलानि]]
"https://sa.wikipedia.org/wiki/रामनाथपुरमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्