"अल्बर्ट् ऐन्स्टैन्" इत्यस्य संस्करणे भेदः

(लघु) Suchetaav इति प्रयोक्त्रा अल्बर्ट आइन्स्टायिन् इत्येतत् अल्बर्ट ऐन्स्टायिन् इत्येतत् प्रति चाल...
No edit summary
पङ्क्तिः १:
[[चित्रम्:Einstein 1921 by F Schmutzer.jpg|thumb|200px|'''अल्बर्ट ऐन्स्टायिन्''']]
सः विख्यातः वैज्ञानिकः।
'''अल्बर्ट ऐन्स्टायिन्''' (Albert Einstein) [[जर्मनी]]देशस्य विश्वविख्यातः वैज्ञानिकः आसीत् । भौतविज्ञानस्य लोके स्वसंशोधनैः प्रसिद्धः । [[भौतशास्त्रम् |भौतशास्त्रस्य]] जनकः इति प्रसिद्धिः अस्य । द्युतिविद्युत्परिणामस्य नियमं निरूपितवान् । एषः सुप्रसिद्धः नियमः भवति । ’बनेश् हाफ्’ अस्य शिष्यः अस्य जीवनस्य साधनस्य च विषये 'दि स्ट्रेञ्ज् स्टोरि आफ् दि क्वाण्टम्' इत्यस्मिन् पुस्तके विस्तृततया लिखितवान् अस्ति ।
 
==जननम्, बाल्यञ्च==
ऐन्स्टायिन् मार्चमासस्य १४ दिनाङ्के [[१८७९]] तमे संवत्सरे [[जर्मनी]]देशस्य वुर्टेन् बर्गप्रान्तस्य उल्म्-नगरे अजायत । अस्य पिता 'हर्मन्' । मता 'पौलीन्' । हर्मन् एकस्य आपणस्य स्वामी आसीत् । पौलीन् [[सङ्गीतम्|सङ्गीतप्रिया]] आसीत् । बाल्ये अध्ययने अभिरुचिः न आसीत् । शालां गन्तुं मनः न आसीत् ।
 
==अध्ययनम् , उध्योगञ्च==
अस्य पिता कालान्तरे म्यूनिक् नगरे यन्त्रागारं स्थापितवान् । अस्मिन् समये पुत्रं क्याथोलिक् शालायाम् अध्ययनार्थं प्रेशितवान् । अत्रत्यनां कठिणनियमपालने अनासक्तः। अतः शालां गन्तुम् इच्छा एव न भवति स्म । पुत्राय विद्यायाः महत्वम् एवं अस्याः आवश्यकताञ्च बोधितवान् । पितृव्यस्य प्रोत्साहः अस्य अध्ययने बहुमुख्यम् आसीत् । एतेन अध्ययने अभिरुचिरागतः । अस्य माता ’पिटिलु’ वाद्यं पाठितवती । शालासु भाषाविषयेषु अनासक्तः, विज्ञाने, [[गणितम्|गणीते]] च आसक्तिः आसीत् । तत्रापि यूक्लिडस्य रेखागणीते अतीवासक्तिः आसीत् । अस्य प्रश्नाः शालासु अध्यापकान् पीडयन्ति स्म । अतीव सूक्ष्माः कठिणाश्च प्रश्नाः भवन्ति स्म । अस्मै अत्रत्य पाठनव्यवस्था न रोचते स्म । अतः [[स्विट्झर्ल्याण्ड्]]देशस्य [[आका]]नगरस्य प्रसिद्धां शालां प्रविष्टवान् । अत्रत्या पाठनशैली आकर्शिता । उत्तमशिक्षणं प्राप्य, जूरिच्नगरस्य पालिटेक्निक् कलाशालां प्रविष्टवान् । अस्मिन् समये भौतविज्ञानस्यैव अध्ययनं कर्तव्यमिति निर्धारं स्वीकृतवान् । अपेक्षितान् [[गणितम्|गणीतशास्त्र]]नियमान् अधीतवान् । अध्ययनानन्तरं उद्योगावकाशाः न प्राप्ताः । एषु दिनेषु बालेभ्यः पाठयति स्म । जूरच् विश्वविद्यालयस्य डाक्टरेट् पदवीं प्राप्तवान् । अस्मिन्नेव विश्वविद्यालये एव [[१९०९]] तमे संवत्सरे प्राध्यापकपदवीं प्राप्तवान् । [[१९१२]] तमे संवत्सरे जूरिच् पालिटेक्निक् विद्यालये सहप्राध्यापकत्वेन कार्यं कृतवान् । [[१९१३]] तमे संवत्सरे बर्लिन् विश्वविद्यालये प्राध्यापकत्वेन कार्यं कृतवान् । कैसर् विल् हेल्म् इन्स्टिट्यूट संस्थायाः विंशतिवर्षाणि यावत् निदेशकः आसीत् ।
 
==वैय्यक्तिकजीवनम्==
अस्य बहुसरलजीवनम् आसीत् । यहूदिसम्प्रदायस्थः आसीत् । [[१९०३]] तमे संवत्सरे विद्याभ्यासस्य कालीनां मिलेवा मारिस् सखीं परिणीतवान् । [[१९०४]] तमे संवत्सरे “ह्यान्स् अल्बर्ट्” नाम प्रथमः पुत्रः अजायत् । द्वितीयस्य पुत्रस्य नाम एड्वर्ड इति । [[१९१४]] तमे संवत्सरे परिवारेण सह बर्लिन्-प्रदेशम् आगतवान् । अत्र नूतन उद्योगं प्राप्तवान् । किञ्चित् कालानन्तरं दाम्पत्ये क्लेशाः उत्पन्नाः। [[१९१९]] तमे संवत्सरे विच्छेदनम् अपि प्राप्तवान् । पुत्राभ्यां गृहात् निर्गता मिलेवा । अनेन दुःखितः ऋग्णश्च सञ्जातः । अस्मिन् समये अस्य पालनम् ’एल्सा’ कृतवती । एनाम् एव अल्बर्ट परिणीतवान् । अस्य प्रसिद्धौ एषा अपि कारणीभूता । उपन्यासेन युरोपदेशेषु , अमेरिकादेशेषु च प्रसिद्धिः आसीत् । [[१९३३]] तमे संवत्सरे अडाल्फ् हिट्लर स्वशासनकाले अस्य गृहादिकं स्वायत्तीकृतवान् । अस्य पौरत्वमपि स्वीकृतवान् । अतः एषः [[अमेरिका]]देशे एव वासं कृतवान् । स्वान्त्यकालपर्यन्तं न्यूजेर्सिया प्रिन्स्-टन् विश्वविद्यालये कार्यं कृतवान् ।
 
==अल्बर्ट् सिद्धान्तः==
अस्य सापेक्षतासिद्धान्तः सुप्रसिद्धः भवति । एन्स्टैन् प्लाङ्कनस्य शकलसिद्धान्तस्य सारं स्वीकृत्य प्रकाशस्य गुणधर्मान् ज्ञातुं संशोधनं कृतवान् । अनेन स्वसिद्धान्तं निरूपितवान् । "यन्यू डेफिनिशन् आफ् मालिक्टूलर् डैमेन्षन्" इति प्रबन्धमेकं रचितवान् । एन्स्टैन् प्रकाशस्य सञ्चारस्य, वेगस्य च विषये स्व नूतनं सिद्धान्तं निरूपितवान् । "प्रकाशस्य सञ्चाराय माध्यमम् अनपेक्षितम्, सः प्रकाशः निर्वाते सञ्चारसामर्थ्यसहितः शक्तिरूपः भवति । प्रकाशस्य वेगस्य समानः वेगः कस्यापि न भवति। प्रकाशः स्वमूलात् बहिरागत्य समानवेगे प्रसरति ।" इति अस्य निरूपणं भवति। प्रकाशस्य वेगः गरिष्ठः भवति । अतः स्थिरवेगं 'C" इति आङ्ग्लाक्षरेण सूचितवान् । एन्स्टैन् निरूपितं समीकरणम् E = mc2 इति । जडवस्तु त्रिषु रूपेषु घन, द्रव, अनिलादि भेदेन विद्यते । वस्तुने द्रव्यराशिः अस्ति । द्रव्यराशिं m इति सङ्केतेन निरूपितवान् अस्ति । प्रकाशम् , उष्णञ्च भारपरिमाणेन मापयितुं न शक्यते । ईदृशां शक्तीं E इति सङ्केतितवान् । वैज्ञानिकाः शक्तिराशी पृथक् इति चिन्तयन्तः आसन् । उभयोर्मध्ये एन्स्टैन् सम्बन्धं कल्पयित्वा, उभयोः समत्वं च कल्पयित्वा E=mc2 इति सरलं समीकरणं निरूपितवान् । अनेन समीकरणेन परमाणुगोलस्य तत्वं निरूपितम् ।
 
==कृतयः==
एन्स्टैन् न केवलं वैज्ञानिकः , किन्तु प्रसिद्धः लेखकोऽपि । अनेन बहवः ग्रन्थाः रचिताः । अस्य कृतयः [[जर्मनी]]भाषायां विद्यन्ते । कालन्तरे आङ्ग्लभाषायाम् अपि प्रकटिताः। “दि यवुल्यूषन् आफ् फिसिक्स्” इति लीफाल्ड् इन्फेल्डवर्येण सह लिखितः प्रसिद्धकृतिः ।
*दिफैट् एगेन्स्ट् वार्
*इन्वेस्टिगेषन्स् आफ् दि थियरि आफ् दि ब्रौनियन् मूव्मेण्ट्
*दि थियरि आफ् दि रिलेटिविटि
*दि वर्ल्ड् आस् ऐ सी इट्
 
==पुरस्काराः==
*[[१९२१]] तमे संवत्सरे नोबेल् पुरस्कारं प्राप्तवान् ।
*[[१९२९]] तमे संवत्सरे जर्मन् शारीरकसंस्थायाः ’म्याक्स् प्लाङ्क्’ पदकं प्राप्तवान् ।
*[[१९३६]] तमे संवत्सरे फ्राङ्क्लिन् संस्थायाः फ्राङ्क्लिन् पदकं प्राप्तवान् ।
 
==मरणम्==
एन्स्टैन् प्रिन्सटन् वैद्यालये एप्रिल्मासस्य १८ तम दिनाङ्कस्य [[१९५५]] तमे वर्षे मृतवान् । एन्स्टैनवर्यस्य मरणानन्तरम् अस्य मस्तिष्कं प्रिन्स्-टन् वैद्यालये स्थापितवन्तः । अस्य प्रतिभायाः रहस्यं ज्ञातुं अत्रत्य वैज्ञानिकाः कुतूहलीनः आसन् । एवम् अस्योपरि अध्ययनम् अपि कृतवन्तः
 
==बाह्यानुबन्धः==
* [http://www.scribd.com/doc/23220527/Ideas-and-Opinions-by-Albert-Einstein ''Ideas and Opinions'', Einstein's letters and speeches], Full text, ''Crown Publishers (1954) 384 pages
* [http://scholar.google.com.au/citations?user=qc6CJjYAAAAJ&hl=en Einstein's Scholar Google profile]
* [[wikilivres:Albert Einstein|Works by Albert Einstein]] (public domain in Canada)
* ''[http://www.monthlyreview.org/598einstein.php Why Socialism?]'' by Albert Einstein, ''[[Monthly Review]]'', May 1949
* [http://www.shapell.org/exhibitions.aspx?einstein-original-letters-in-aid-of-his-brethren Einstein's Personal Correspondence: Religion, Politics, The Holocaust, and Philosophy] Shapell Manuscript Foundation
* [http://vault.fbi.gov/Albert%20Einstein FBI file on Albert Einstein]
* [http://nobelprize.org/nobel_prizes/physics/laureates/1921/einstein-bio.html Nobelprize.org Biography:Albert Einstein]
* [http://life.tumblr.com/post/526230217/the-einstein-you-never-knew The Einstein You Never Knew] — slideshow by ''[[Life magazine]]''
* [http://www.history.com/topics/albert-einstein Albert Einstein] — videos
* [http://www.pbs.org/wgbh/aso/databank/entries/bpeins.html Science Odyssey People And Discoveries]
* [http://web.archive.org/web/20110608004818/http://ocw.mit.edu/courses/science-technology-and-society/sts-042j-einstein-oppenheimer-feynman-physics-in-the-20th-century-spring-2006/ MIT OpenCourseWare STS.042J/8.225J: Einstein, Oppenheimer, Feynman: Physics in the 20th century] — free study course that explores the changing roles of physics and physicists during the 20th century
* [http://www.alberteinstein.info/ Albert Einstein Archives Online (80,000+ Documents)] ([http://www.msnbc.msn.com/id/46785542/ns/technology_and_science-science/ MSNBC - 19 March 2012])
* [http://www.wdl.org/en/item/2745/ Einstein's declaration of intention for American citizenship] from the [[World Digital Library]]
* [http://archon.brandeis.edu/?p=collections/findingaid&id=41 Albert Einstein Collection at Brandeis University]
 
 
 
 
 
*[[जीवनी]]
 
"https://sa.wikipedia.org/wiki/अल्बर्ट्_ऐन्स्टैन्" इत्यस्माद् प्रतिप्राप्तम्