"तेलुगु" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
तेलुगुभाषा (Telugu) द्राविडभाषा परिवारस्‍य एका भाषा अस्ति । एषा दक्षिणभारते विद्यमानस्य आन्ध्रप्रदेशराज्यस्य अधिकारभाषा वर्तते । इयं भाषा भारतस्य प्रान्तीयभाषासु प्रथमे स्थाने, तथा च विश्वस्तरे लोकैः भाष्यमाणासु भाषासु त्रयोदशे स्थाने च तिष्ठति । अपि च भारते राष्ट्रभाषायाः हिन्द्याः अनन्तरं द्वितीयं स्थानम् आवहति । अस्मिन् जगति उपसार्धनवकोटि (९.३२ कोटिः ) जनाः ( प्रमाणम् अपेक्ष्यते ) इमां तेलुगुभाषां भाषन्ते । ३१-१०-२००८ तमे दिनाङ्के भारतीयसर्वकारेण अतिप्राचीनासु राष्ट्रियभाषासुराष्ट्रीयभाषासु संस्कृततमिलभाषाभ्यां सहैव तेलुगुभाषा अपि अन्तर्भाविता ।अन्तर्भाविता।
 
==तेलुगु तदवलोकनं च==
पङ्क्तिः १०:
यथा संस्कृतभाषा तेलुगुसाहित्यप्रपञ्चे किञ्चन शाश्वतं स्थानम् आक्रान्तवती, तथैव पारशीक (पर्षिया) – उर्दूपदानि अपि कार्यनिर्वाहकपदबन्धेषु विलसन्ति । ब्रिटिषाणां परिपालनप्रभावात्, साङ्केतिकान्दोलनवशात् च अद्य यौ कावपि द्वौ तेलुगुजनौ परस्परम् एकनिमेषकालात् अधिकम् आङ्ग्लपदरहितां वार्तां कर्तुं न शक्नुतः इति नास्ति सत्यदूरम् । भारते निवासेन स्थिरतां गतः प्रमुखः जन्यु (genetic) शास्त्रज्ञः जे.बि.एस्. हाल्डेन् महाशयः कस्मिंश्चित् सन्दर्भे अवदत् – “भारतस्य राष्ट्रियभाषास्थानम् अलङ्कर्तुं तेलुगुभाषायाः अपेक्षिताः सर्वाः अर्हताः सन्ति” इति । अस्य कथने न वर्तते आश्चर्यस्य किमपि स्थानम् ।
 
यद्यपि आन्ध्रीयाणाम् आङ्ग्लभाषायां रुचिः अधिका वर्तते तथापि भाषाशास्त्रपरतया, संस्कृतिपरतया, व्याकरणपरतया च द्वयोः भाषयोः मध्ये महदन्तरं विद्यते । तेलुगुवाक्यनिर्माणं कर्ता, कर्म, क्रिया इत्येतेन क्रमेण प्रचलति । आङ्ग्लवाक्येषु तु कार्ताकर्ता, क्रिया, कर्म इति क्रमशः आयान्ति । अतः आङ्ग्लभाषिणः तेलुगुपदपङ्क्तिषु व्युत्क्रमताम् अनुभवन्ति । भावाभिव्यक्तीकरणविषये तेलुगुभाषा विश्वभाषाभिः सह स्पर्धतेतराम् । अत्युत्कृष्टक्रमेण सुव्यवस्थीकृतासु अत्यल्पसङ्ख्याकासु च विश्वभाषासु तेलुगुभाषा अन्यतमा अस्ति । तेलुगुव्याकरणम् अत्यन्तं सरलं, निर्माणपरतया अतीव शुद्धं च भवति । अत्रत्यः सर्वोऽपि विषयः स्वरेण एव परिसमाप्तिं(अजन्त भाषा) याति इत्यतः इयं भाषा सङ्गीतपरतया सङ्गीतकाराणां प्रियतमा वर्तते । विशिष्य कर्णाटकसङ्गीतस्य नैकाः कृतयः तेलुगुभाषायाम् एव सन्ति । त्यागराजः, भद्राचलरामदासः, क्षेत्रय्यः, अन्नमाचार्यः च इत्यादयः स्वकीयकृतिरचनया सङ्गीतक्षेत्रे तेलुगुभाषां सुसम्पन्नताम् अगमयन् । नवदशशताब्दीयाः यूरोपीयाः तेलुगुभाषाम् इटालियन् आफ् दि ईस्ट् ( Italian of the East ) इति आख्यातवन्तः । तेलुगुभाषायाः ( अन्यभारतीयभाषाणां च ) प्रमुखः विषयः नाम सन्धिः । तत्र द्वयोः पदयोः अत्यन्तं संनिहिततया उच्चारणात् नवीनं तृतीयं पदम् आविर्भवति ।
 
==इतिहासः==
"https://sa.wikipedia.org/wiki/तेलुगु" इत्यस्माद् प्रतिप्राप्तम्