"भट्टनारायणः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
'वेणीसंहार'नामकस्य प्रसिद्धस्य नाटकस्य रचयिता भट्ट्नारायणः (Bhattanaraya) । एषः अष्टमे शतके आसीत् इति पण्डिताः अभिप्रयन्ति । एषः कान्यकुब्जप्रदेशे जातः इत्यत्र तु न कस्यापि विमतिः ।
 
स्वीयेन एकमात्रेण वेणीसंहारनाम्ना नाटकेन भट्टनारायणः संस्कृतसाहित्येऽतितरां प्रख्यातः । किंवदन्ती प्रसिध्दा यद् गौडदेशशासकेन आदिशूरेण ब्राह्मणधर्म्मुत्रेतुं कान्यकुब्जदेशादानीय निवासितेषु ब्राह्मणेष्वयमत्येक इति । आदिशूरः पालवंशोत्थानतः पूर्ववर्त्ती राजेति तस्य समयः सप्तमशताब्द्या उत्तरार्धमास्थातुं युक्तम् । दशमशतकोत्पन्नओ धनिको वेणीसंहारमुध्दरति, आनन्दवर्धनोऽपि ध्वन्यालोके ‘कर्त्ता द्यूतच्छलानामित्यादि पद्यमुद्धृतवान्, वामनोऽपि महताऽऽदरेण वेणीसंहारगतं पद्यम्- ‘पतितं वेत्स्यसि क्षितौ’ इति समुदधृत्य मीमांसा चक्रे । एतत्सर्वमालोच्यन्तो विद्वांसो भट्टनारायणस्य समयमष्टशतकमध्यभाग निर्णयन्ति ।
पङ्क्तिः ९:
 
[[वर्गः:संस्कृतलेखकाः]]
[[वर्गः:चित्रं योजनीयम्]]
[[वर्गः:विषयः वर्धनीयः]]
[[वर्गः:सारमञ्जूषा योजनीया]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
"https://sa.wikipedia.org/wiki/भट्टनारायणः" इत्यस्माद् प्रतिप्राप्तम्