"रामपाणिवादः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
केरलीयः [[महाकविः]] आसीत् '''रामपाणिवादः''' (Ramapanivada) । तस्य जन्म माकिं क्रि. श. १७०७ तमे संवत्सरे आभवत् । महोदयस्यास्य कृतयः [[संस्कृतम्]], [[प्राकृतम्]], [[मलयालम्]] इत्येताभिः त्रिसृभिः भाषाभिः विरचिताः सन्ति । प्रथमतया संस्कृतेन चत्वारि रूपकाणि अनेन लिखितानि । १. [[चन्द्रिका]] नाम वीथी २. [[लीलावती]] नाम वीथी ३.[[मदनकेतुचरितम्]] नाम [[प्रहसनम्]] ४. [[सीताराघवम्|सीताराघवं]] नाम [[नाटकम्|नाटकं]] च । एतानि काव्यान्यपि अनेन लिखितानि - १. [[विष्णुविलासकाव्यम्]] २. [[राघवीयम्]] ३. [[भागवतचम्पू]] ४. [[मुकुन्दशतकम्]] ५. [[शिवशतकम्]] ६. [[पञ्चपदी]] अथवा [[शिवागीतिः]] ७. [[अम्बरनदीशस्तवः]] ८. [[सूर्यशतकम्]] ९. [[अक्षरमालास्तोत्रम्]] १०. [[उत्तररामचरितकाव्यम्]] च। अन्यासु साहित्यशाखास्वपि बहवः ग्रन्थाः अनेन विरचिताः दृश्यन्ते - १. [[रासक्रीडा]] २. [[तालप्रस्तरः]] ३. [[शारिकासन्देशः]] ४. [[आख्यायिकापद्धतिः]] ५. श्रीकृष्णविलासस्य [[विलासिनी]] नाम व्याख्या ६. [[मेल्पुत्तूर् नारायणभट्टपाद]]स्य [[धातुकाव्य]]स्य [[विवरणम्|विवरणं]] नाम व्याख्यानम् ७. स्वस्य विष्णुविलासकाव्यस्य [[विष्णुप्रिया]] नाम व्याख्यानं च।
 
प्राकृतभाषया अनेन त्रयः ग्रन्थाः रचिताः १. [[प्राकृतवृत्तिः]] २. [[उषानिरुद्धम्]] ३. [[कंसवहो]] च । अनेन विरचितेषु काव्यरूपकादिष्वपि बहवः श्लोकाः प्राकृतभाषया एव विरचिताः ।
पङ्क्तिः ६:
 
[[वर्गः:संस्कृतकवयः]]
[[वर्गः:चित्रं योजनीयम्]]
[[वर्गः:विषयः वर्धनीयः]]
[[वर्गः:सारमञ्जूषा योजनीया]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
"https://sa.wikipedia.org/wiki/रामपाणिवादः" इत्यस्माद् प्रतिप्राप्तम्