"वेङ्कटाध्वरिः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
==वेङ्कटाध्वरिः(Venkatadwari)==
'''वेङ्कटाध्वरिः'''(Venkatadwari) प्रसिद्धस्य विश्वगुणादर्शनामकस्य चम्पूग्रन्थस्य रचयिता । हस्तिगिरिचम्पूः, लक्ष्मीसहस्त्रं, यादवपाण्डवीयं, सुभाषितकौस्तुभः इत्यादयः ग्रन्थाः अपि एतेन रचिताः सन्ति । एषः रघुनाथदीक्षितस्य पुत्रः । एतस्य माता सीताम्बा । एषः नीलकण्ठदीक्षितस्य समकालीनः । अतः एषः अपि सप्तदशे शतके आसीत् इति निर्णीतम् अस्ति । वेङ्कटाध्वरिः श्रीवैषणवमतानुयायी ।
विश्वगुणादर्शे स्वतन्त्रकल्पनायाः प्राधान्यम् । कृशानुः विश्वावसुः इत्येतौ गन्धर्वौ एतस्मिन् ग्रन्थे विश्ववैचित्र्याणि निरुपयतः । विमानेन देशपर्यटनं कुर्वन्तौ तौ देश- नगर-नदी-पुण्यस्थलादीनि जनव्यवहारान् च वर्णयतः । एतस्मिन् ग्रन्थे स्तबकादिभागाः न सन्ति । एकैकः विषयः एकैकविभागायते । एतस्मिन् ग्रन्थे पद्यभागस्य एव आधिक्यम् । अनुस्यूता कथा अत्र नास्ति चेदपि मनोज्ञा अभिव्यक्तिः चित्तं रञ्जयति ।
 
[[वर्गः:संस्कृतकवयः]]
[[वर्गः:चित्रं योजनीयम्]]
[[वर्गः:विषयः वर्धनीयः]]
[[वर्गः:सारमञ्जूषा योजनीया]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
"https://sa.wikipedia.org/wiki/वेङ्कटाध्वरिः" इत्यस्माद् प्रतिप्राप्तम्