"सोमदेवः" इत्यस्य संस्करणे भेदः

(लघु) Robot: Removing hi,bn,cs,mr,fr,ru,ko,en,es,th,sv (strongly connected to sa:कथासरित्सागरः)
No edit summary
पङ्क्तिः १:
'''सोमदेवः''' (Somadeva)
बृहत्कथा क्षेमेन्द्रेण यथा बृहत्कथामञ्जर्यां सङ्गृहीता तथैव सोमदेवेन अपि कथासरित्सागरे सङ्गृहीता । सोमदेवः अपि क्षेमेन्द्रः इव काश्मीरराजस्य अनन्तस्य आस्थाने, एकादशो शतके च आसीत् । अनन्तराजस्य खिन्नायाः पत्न्याः सूर्यवत्याः मनोविनोदार्थं सः कथासरित्सागरं रचितवान् इति श्रूयते । सोमदेवस्य पिता रामदेवः ।
सोमदेवस्य कथासरित्सागरे दीर्धाः समासाः कठिनानि पदानि च न्यूनानि । अतः कथासु सरलता विशेषतः दृश्यते । बृहत्कथामञ्जर्याम् अदृश्यमानाः बह्व्यः बृहत्कथाग्रन्थस्थाः कथाः कथासरित्सागरे दृश्यन्ते । कथासरित्सागरे स्थिताः कथाः काश्चन लध्व्यः, पुनः काश्चन दीर्धाः । विविधजनसम्बद्धाः विभिन्नदेशसम्बद्धाः च कथाः भवन्ति अत्र । कथानिरूपणे सोमदेवस्य अनुपमं सामर्थ्यम् । भारतीयं साहित्यं यथा रामायणं महाभारतं च अवलम्बते तथैव कथासरित्सागरम् अपि अवलम्बते । कथासरित्सागरः विविधाभिः भाषाभिः अनूदितः अपि ।
 
[[वर्गः:संस्कृतकवयः]]
[[वर्गः:चित्रं योजनीयम्]]
[[वर्गः:विषयः वर्धनीयः]]
[[वर्गः:सारमञ्जूषा योजनीया]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
"https://sa.wikipedia.org/wiki/सोमदेवः" इत्यस्माद् प्रतिप्राप्तम्