"भारतीयजनतापक्षः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २४:
'''भारतीयजनतापक्षः'''(भ.ज.पा) इति भारतवर्षस्य एकः राजनीतिकपक्षः। अस्य पक्षस्य अध्यक्षः [[राजनाथसिङ्गः]]। १९८० वर्षे भारतीयजनतापक्षस्य डिसेम्बर्-मासे प्रतिष्ठा अभूत्। वर्तमानकाले भारतीयजनतापक्षः भारतवर्षस्य द्वितीयबृहत्तमपक्षः। भारतीय-राजनीतेः पटभूमौ दक्षिणपन्थिरूपेण अस्य ख्यातिः अस्ति।<br>
[[चित्रम्:Shyamaprosad.jpg|Thumb|200px|डा. श्यामा-प्रसाद-मुखर्जी|left]]
[[चित्रम्:Ab vajpayee2.jpg|Thumb|200px|right|अटल-बिहारी-वाजपेयी]]
==इतिहासः==
डा. श्यामा-प्रसाद-मुखर्जी १९५१ तमे वर्षे राष्ट्रवादं समर्थनं कृत्वा भारतीय-जन-संघस्य स्थापना कृतवान्। भारतीय-जन-संघः राष्ट्रियकाग्रेंसपक्षस्य तुष्टीकरणनीतेः विरोध-प्रदर्शनं अकरोत्। तथा राष्ट्रीय-एकता-अखंडता एवं सांस्कृतिकविषयेषु काग्रेंसपक्षस्य निन्दां अकरोत्। १९५३ तमे वर्षे कारागारे डा. श्यामा प्रसाद-मुखर्जीमहोदयस्य अकाल-मृत्युः अभवत्। परवर्तीकाले पण्डित-दीनदयाल-उपाध्यायस्य नेतृत्वे भारतीय-जन-संघस्य आन्दोलनं अग्रसरम् आसीत्। तस्य नेतृत्वाधीने एव १५ वर्षाणि यावत् संघस्य पुनर्निर्माणम् अभवत्। पण्डित-दीनदयाल-उपाध्यायः केचन सक्षम-कार्यकर्तृणां कृते विचारधारायाः प्रशिक्षणं दत्तवान्। अटल-बिहारी-वाजपेयी तथा लालकृष्ण-आडवाणी तेषां अन्यतमौ। १९६८ तमे वर्षे पं.दीनदयाल-उपाध्यायस्य हत्या अभवत्। तस्य मरणादनन्तरं अटल-बिहारी-वाजपेयी जनसंघस्य अध्यक्षः अभवत्।<br />
"https://sa.wikipedia.org/wiki/भारतीयजनतापक्षः" इत्यस्माद् प्रतिप्राप्तम्