"युधिष्ठिरः" इत्यस्य संस्करणे भेदः

(लघु) Bot: Migrating 1 interwiki links, now provided by Wikidata on d:q983067 (translate me)
पङ्क्तिः १:
[[File:Draupadi and Pandavas.jpg|thumb| सिंहासने पाण्डवैः आवृत्तः द्रौपद्या सह युधिष्ठिरः]]
'''युधिष्ठिरः''' पञ्चपाण्डवेषु ज्येष्ठः । [[पाण्डुः|पाण्डु]]महाराजस्य पुत्रः । [[कुन्ती]] अस्य माता । [[भीमः]], [[अर्जुनः]] च युधिष्ठिरस्य अनुजौ । [[नकुलः]] [[सहदेवः]] च युधिष्ठिरस्य विमातुः [[माद्री|माद्र्याः]] पुत्रौ । अयं युधिष्ठिरः [[यमः|यम]]धर्मराजस्य वरेण जन्म प्राप्नोत् । [[महाभारतम्|महाभारतस्य]] प्रमुखेषु पात्रेषु अन्यतमम् अस्ति युधिष्ठिरस्य पात्रम् । जीवने सर्वदा धर्माचरणं कुर्वन् युधिष्ठिरः "धर्मराजः" इत्येव प्रसिद्धः ।
महाराज: युधिष्ठिर: अपि भीष्म: इव अत्यन्तम् उच्चस्तरीय: महापुरुष: आसीत् । एष: साक्षात् धर्मस्य अंशत: जन्म प्राप्य मूर्तिमान् धर्मः इव आसीत् । अत: एव जना: एतं ‘धर्मराजः ’ इति आह्वयन्ति । एतस्मिन् धैर्यं, स्थिरता, सहिष्णुता, नम्रता, दयापरता अचलप्रीति: इत्यादय: अनेके अलौकिकगुणा: आसन् । एष: स्वस्य शीलस्य, सदाचारस्य, विचारशीलताया: च कारणत: बाल्ये एव अतीवलोकप्रिय: अभवत् । यदा एष: इतोऽपि लघुबाल: आसीत् तदा एव एतस्य पिता [[पाण्डु:]] स्वर्गस्थ: अभवत् । तदारभ्य एव एष: स्वस्य ज्येष्ठपितृव्यं धृतराष्ट्रं पिता इव बहु गौरवेण पश्यति स्म । तस्य कस्यापि आज्ञामपि न उल्लङ्घयति स्म । किन्तु [[धृतराष्ट्र:]] स्वस्य कुटिलस्वभावस्य कारणत: एतस्य गुणानां प्रशंसां श्रुत्वा श्रुत्वा मनसि एव करोति स्म । धृतराष्ट्रस्य पुत्र: [[दुर्योधन:]] एवं चिन्तितवान् ’ कथञ्चित् कतिपयदिनानि यावत् पाण्डवान् हस्तिनापुरत: दूरं प्रेषयाम: चेत् तेषाम् अनुपस्थितौ पित्रार्जित- अधिकारं स्वीकृत्य अहमेव राजा भविष्यामि’ इति । स: स्वस्य अन्धस्य, पितु: अङ्गीकारं प्राप्तवान् । धृतरष्ट्रः पाण्डवान् आहूय उत्सवदर्शनार्थं तान् वारणावताय प्रेषणस्य प्रस्तावं कृतवान् । एषा तस्य आज्ञा इति मत्वा आक्षेपं विना मात्रा कुन्त्या सह पञ्चसहोदरा: अपि वारणावतं गतवन्त: । तत्र एतेषां दहनं कर्तुं दुर्योधन: एकस्य लाक्षागृहस्य निर्माणं कृतवान् आसीत् । तस्मिन् एव गृहे ते निवसन्तु इति आग्रहः अपि कृतः । कनिष्ठपितृव्यस्य [[विदुरः|विदुरस्य]] साहाय्येन एते कथञ्चित् प्राणान् रक्षयित्वा तत: पलायितवन्तः । एते मृता: इति मत्वा कौरवा: हस्तिनापुरे अधिकारं गृहीतवन्तः । कतिपय- दिनानन्तरं [[द्रौपदी|द्रौपद्या:]] स्वयंवरे पाण्डवानां रहस्यस्य स्फोटनमभवत् । कौरवा: ज्ञातवन्तः यत् पाण्डवा: इतोऽपि जीवन्ति इति । तदा धृतराष्टः विदुरं प्रेषयित्वा पाण्डवान् हस्तिनापुरं प्रति आहूतवान् । स्वपुत्रै: सह तेषां कलहस्य निर्मूलनाय अर्धं राज्यं स्वीकृत्य खाण्डवप्रस्थे पाण्डवा: तिष्ठन्तु इत्येतं प्रस्तावं तेषां पुरत: उपस्थापितवान् । युधिष्ठिर: एतं प्रस्तावम् अपि अङ्गीकृतवान् । स: स्वसहोदरै: सह खाण्डवप्रस्थं गतवान् । तत्र ते इब्द्रप्रस्थनामिकां एकां पृथक् राजधानीं कृत्वा शासनम् आरब्धवन्तः । तत्रैव राजसूययज्ञमपि कृतवन्त: । ज्येष्ठा: राजान: आगत्य यज्ञे भागं गृहीत्वा अमूल्यानि उपायनानि दत्तवन्त: । युधिष्ठिरमेव चक्रवर्ति: इति अङ्गीकृतवन्त:।
==बाल्यम्==
महाराज: युधिष्ठिर: अपि भीष्म: इव अत्यन्तम् उच्चस्तरीय: महापुरुष: आसीत् । एष: साक्षात् धर्मस्य अंशत: जन्म प्राप्य मूर्तिमान् धर्मः इव आसीत् । अत: एव जना: एतं ‘धर्मराजः ’ इति आह्वयन्ति । एतस्मिन् धैर्यं, स्थिरता, सहिष्णुता, नम्रता, दयापरता अचलप्रीति: इत्यादय: अनेके अलौकिकगुणा: आसन् । एष: स्वस्य शीलस्य, सदाचारस्य, विचारशीलताया: च कारणत: बाल्ये एव अतीवलोकप्रिय: अभवत् । यदा एष: इतोऽपि लघुबाल: आसीत् तदा एव एतस्य पिता [[पाण्डु:]] स्वर्गस्थ: अभवत् । तदारभ्य एव एष: स्वस्य ज्येष्ठपितृव्यं धृतराष्ट्रं पिता इव बहु गौरवेण पश्यति स्म । तस्य कस्यापि आज्ञामपि न उल्लङ्घयति स्म ।
==लाक्षागृहप्रसङ्गः==
किन्तु [[धृतराष्ट्र:]] स्वस्य कुटिलस्वभावस्य कारणत: एतस्य गुणानां प्रशंसां श्रुत्वा श्रुत्वा मनसि एव करोति स्म । धृतराष्ट्रस्य पुत्र: [[दुर्योधन:]] एवं चिन्तितवान् ’ कथञ्चित् कतिपयदिनानि यावत् पाण्डवान् हस्तिनापुरत: दूरं प्रेषयाम: चेत् तेषाम् अनुपस्थितौ पित्रार्जित- अधिकारं स्वीकृत्य अहमेव राजा भविष्यामि’ इति । स: स्वस्य अन्धस्य, पितु: अङ्गीकारं प्राप्तवान् । धृतरष्ट्रः पाण्डवान् आहूय उत्सवदर्शनार्थं तान् वारणावताय प्रेषणस्य प्रस्तावं कृतवान् । एषा तस्य आज्ञा इति मत्वा आक्षेपं विना मात्रा कुन्त्या सह पञ्चसहोदरा: अपि वारणावतं गतवन्त: । तत्र एतेषां दहनं कर्तुं दुर्योधन: एकस्य लाक्षागृहस्य निर्माणं कृतवान् आसीत् । तस्मिन् एव गृहे ते निवसन्तु इति आग्रहः अपि कृतः । कनिष्ठपितृव्यस्य [[विदुरः|विदुरस्य]] साहाय्येन एते कथञ्चित् प्राणान् रक्षयित्वा तत: पलायितवन्तः । एते मृता: इति मत्वा कौरवा: हस्तिनापुरे अधिकारं गृहीतवन्तः । कतिपय- दिनानन्तरं [[द्रौपदी|द्रौपद्या:]] स्वयंवरे पाण्डवानां रहस्यस्य स्फोटनमभवत् । कौरवा: ज्ञातवन्तः यत् पाण्डवा: इतोऽपि जीवन्ति इति । तदा धृतराष्टः विदुरं प्रेषयित्वा पाण्डवान् हस्तिनापुरं प्रति आहूतवान् । स्वपुत्रै: सह तेषां कलहस्य निर्मूलनाय अर्धं राज्यं स्वीकृत्य खाण्डवप्रस्थे पाण्डवा: तिष्ठन्तु इत्येतं प्रस्तावं तेषां पुरत: उपस्थापितवान् । युधिष्ठिर: एतं प्रस्तावम् अपि अङ्गीकृतवान् । स: स्वसहोदरै: सह खाण्डवप्रस्थं गतवान् । तत्र ते इब्द्रप्रस्थनामिकां एकां पृथक् राजधानीं कृत्वा शासनम् आरब्धवन्तः । तत्रैव राजसूययज्ञमपि कृतवन्त: । ज्येष्ठा: राजान: आगत्य यज्ञे भागं गृहीत्वा अमूल्यानि उपायनानि दत्तवन्त: । युधिष्ठिरमेव चक्रवर्ति: इति अङ्गीकृतवन्त:।
==वनवासहः==
किन्तु कौरवा: अत्रापि एतान् आनन्देन स्थातुं न त्यक्तवन्त: । एतेषां वैभवं दृष्ट्वा दुर्योधन: असूयया ग्रस्तः अभवत् । स: एकं विशालं सभाभवनं निर्माय पाण्डवान् द्यूतक्रीडार्थम् आहूतवान् । द्यूतक्रीडा अनुत्तमा इति ज्ञात्वा अपि ’धृतराष्ट्रस्य आज्ञा’ इति निमन्त्रणं स्वीकृतवान् । क्रीडायां दुर्योधनस्य मातुल: [[शकुनिः|शकुने:]] कुतन्त्रकारणतः युधिष्ठिर: पूर्णं पराजयं प्राप्तवान् । पूर्णसभायां राज्ञ्याः द्रौपद्या: अपमाननं कृतवन्त:। तथापि धृतराष्ट्रस्य विषये एतस्य मनसि गौरवभावः एव आसीत् । धृतराष्ट्र: अपि तेभ्य: ऐश्वर्यं, सर्वं राज्यं च दत्त्वा पुन: इन्द्रप्रस्थय प्रेषितवान् । किन्तु एतत् दुर्योधन: न सोढवान् । स: कथञ्चित् धृतराष्ट्रम् अङ्गीकार्य दूतं प्रेषयित्वा पुन: पाण्डवान् आहूतवान् । वनवासस्य निबन्धनं स्थापयित्वा पुन: द्यूतं क्रीडितवन्त: । एतस्य दुष्परिणामः पुनरेकवारम् अनुभूत: । युधिष्ठिर: कौरवाणां नीतिं ज्ञात्वा अपि ज्येष्टपितृव्यस्य आज्ञां न तिरस्कृतवान् । अस्मिन् समयेऽपि पराजयः एव प्राप्तः । तेन कारणेन स्वस्य सर्वस्वमपि त्यक्त्वा सहोदरैः, राज्ञ्या द्रौपद्या सह द्वादशवर्षाणां वनवासम् , एकवर्षस्य अज्ञातवासं च करणीयम् आपतितम् । पितृव्यस्य आज्ञापालक: धर्मस्य आचरणाय सर्वं तूष्णीं सोढवान् । धन्या तस्य पितृभक्ति: ।
 
एषःधर्मिष्ठ:, सहनशील: युधिष्ठिर: सर्वविधम् अवमाननं सोढुं शक्नोति स्म । किन्तु धर्मस्य अपमाननं सोढुं न शक्नोति स्म । प्रथमवारं क्रीडायां चतुरः अनुजान्, द्रौपदीं, आत्मानं च विनष्टवान् । द्रौपद्या: अपमाननं जातं चेदपि धर्मपाशेन बद्ध: एष: सर्वं मौनेन सोढवान् ।कोऽपि सामान्य: चेदपि स्वस्य पुरत: पत्न्या: एतादृशिं दुर्गतिं द्रष्टुं न अशक्ष्यत् । अग्रजस्य भयेन अनुजा: अपि किमपि न उक्तवन्त: । मनसि ज्वालाग्नि: दहति स्म । इच्छन्ति चेत् तादृशस्य अत्याचारस्य स्थगनं कर्तुम् एते शक्नुवन्ति स्म । अग्रजं दृष्ट्वा सर्वे तूष्णीम् उपविष्टवन्त: । धर्मराजः एतद् सर्वं कापट्यम् एव इति ज्ञात्वा अपि धर्मस्य रक्षणार्थं सोढवान् । धर्म:, प्रीति:, सहनशीलताया: इतोऽपि श्रेष्ठ-उदाहरणानि जगति अन्यानि न स्युः ।
==धर्मिष्ठ:, सहनशील: युधिष्ठिर:==
एषः सर्वविधम् अवमाननं सोढुं शक्नोति स्म । किन्तु धर्मस्य अपमाननं सोढुं न शक्नोति स्म । प्रथमवारं क्रीडायां चतुरः अनुजान्, द्रौपदीं, आत्मानं च विनष्टवान् । द्रौपद्या: अपमाननं जातं चेदपि धर्मपाशेन बद्ध: एष: सर्वं मौनेन सोढवान् ।कोऽपि सामान्य: चेदपि स्वस्य पुरत: पत्न्या: एतादृशिं दुर्गतिं द्रष्टुं न अशक्ष्यत् । अग्रजस्य भयेन अनुजा: अपि किमपि न उक्तवन्त: । मनसि ज्वालाग्नि: दहति स्म । इच्छन्ति चेत् तादृशस्य अत्याचारस्य स्थगनं कर्तुम् एते शक्नुवन्ति स्म । अग्रजं दृष्ट्वा सर्वे तूष्णीम् उपविष्टवन्त: । धर्मराजः एतद् सर्वं कापट्यम् एव इति ज्ञात्वा अपि धर्मस्य रक्षणार्थं सोढवान् । धर्म:, प्रीति:, सहनशीलताया: इतोऽपि श्रेष्ठ-उदाहरणानि जगति अन्यानि न स्युः ।
 
यदा पाण्डवा: वनं प्रस्थितवन्त: तदा हस्तिनापुरस्य प्रजा: सर्वाः दु:खेन कौरवान् दूषयन्त्यः स्वगृहाणि त्यक्त्वा एतै: सह प्रस्थितवत्यः । तदापि युधिष्ठिर: कौरवाणां विषये एकशब्देनापि दूषणं न कृतवान् । जनानां समाधाननं कारयित्वा प्रतिप्रेषितवान् । तथापि केचन ब्राह्मणा: पाण्डवै: सह गतवन्त: । तदा धर्मराजस्य चिन्ता आरब्धा । एतेषां भोजनस्य व्यवस्था का ? इति । स्वकष्टानां विषये चिन्ता नास्ति चेदपि इतरेषां कष्टं द्रष्टुं न शक्नोति स्म । अन्ते एष: [[सूर्यदेवः|सूर्यदेवस्य]] आराधनां कृत्वा एकम् अपूर्वं पात्रं प्राप्तवान् । तस्मिन् कृतः किञ्चित् पाकः अपि अक्षय: भवति स्म । एतेन ते वने सन्ति चेदपि अतिथिजनानां ब्राह्मणानां च भोजनं दत्त्वा अनन्तरम् एते भोजनं कुर्वन्ति स्म । वनवासे अपि आतिथ्यधर्मस्य पालनं कृतवन्त: । एतेन धर्मप्रेम्णा आकृष्टाः श्रेष्टाः महर्षिण: वनवाससमयेऽपि तेषां समीपे आगत्य तिष्ठन्ति स्म । यज्ञानां विविधप्रकारस्य धर्मानुष्ठानं कुर्वन्ति स्म ।
Line २० ⟶ १४:
 
 
[[वर्गः: महाभारतस्य पात्राणि]]
{{महाभारतम्}}
 
[[ta:தர்மன்]]
[[वर्गः: महाभारतस्य पात्राणि]]
<small>Small text</small>
"https://sa.wikipedia.org/wiki/युधिष्ठिरः" इत्यस्माद् प्रतिप्राप्तम्