"कठोपनिषत्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
[[File:Om symbol.png|thumb]]
कठोपनिषदः (Kathopanishat) काठकोपनिषदित्यपि नाम वर्तते । [[कृष्णयजुर्वेदः|कृष्णयजुर्वेदीया]] इयम् उपनिषत् । अस्याम् [[उपनिषदः|उपनिषदि]] अध्यायद्वयं वर्तते । प्रत्येकस्मिन् अपि अध्याये तिस्रः वल्ल्यः विद्यन्ते । [[यमः|यम]]-[[नचिकेताः|नचिकेतसोः]] संवादरूपेण इयम् उपनिषद् वर्तते ।
==उपनिषत्सारः==
इयमुपनिषत् आत्मविषयिण्या[[आत्मा|आत्म]]विषयिण्या आख्यायिकया आरभ्यते । प्रामुख्येन यमनचिकेतसोः प्रश्नप्रतिवचनरुपा अस्ति ।

[[वाजश्रवाः]] लौकिककीर्तेः आशया विश्वजिद्यागं कर्तुम् उद्यतः भवति । याजकः स्वीयसमग्रायाः सम्पत्तेः दानं कुर्यादित्येषा अस्य [[यज्ञम्|यज्ञस्य]] प्रमुखविधिः । इमं विधिम् अनुसरन् सः स्वस्य सर्वसम्पत्तेः दानं कृतवान् । सः निर्धनः आसीत् इत्यतः तत्समीपे विद्यमानाः काश्चन [[धेनुः|गाः]] पीतोदका जग्धतृणा दुग्धदोहा निरिन्द्रियाः सत्यः दुर्बला आसन् । पिता ताः गाः यदि ददाति तर्हि निश्चयेन पुण्यं न प्राप्स्यति, तेन क्रियमाणं यज्ञं विफलं न भवेत् तथा मया करणीयम् इति चिन्तयित्वा तदीयः कनीयान् पुत्रः नचिकेताः स्वपितरमुपसर्प्य मां कस्मै ददाति इति द्विकृत्वः त्रिकृत्वः पृच्छति । तदा कुपितः पिता यमाय दास्यामि इति वदति ।

किञ्चित् कालानन्तर आत्मना कृतं दोषम् अवगतवान् वाजश्रवाः पुत्रं यमसमीपं प्रेषणे उद्युक्तः न भवति । तदा मनुष्यस्य क्षणभङ्गुरत्वं दर्शयित्वा प्राचीनानाम् अधुना विद्यमानानां श्रेष्ठपुरुषाणाम् उदाहरणानि यच्छन् प्रतिज्ञावचनानुगुणं व्यवहर्तुं पितरम् अङ्गीकारितवान् नचिकेताः । ततः यमलोकं गतः नचिकेताः यमस्य अनुपस्थितेः कारणतः दिनत्रयम् आहारेण विना तस्य प्रतीक्षां करोति । दिनत्रयानन्तरम् आगतः यमः स्वस्य विलम्बकारणात् बालकः निराहारः आसीत् इति बहु खिन्नः जातः । तं वरत्रयं प्रष्टुं यमः सूचयति ।

पङ्क्तिः १२:
तृतीयेन वरेण आत्मज्ञानं प्रार्थयति नचिकेताः । आदौ इदं ज्ञानम् उपदेष्टुं यमः नाङ्गीकरोति । इदं ज्ञानम् अगम्यं दुर्ज्ञेयं वर्तते । तत् मास्तु । सकलैश्वर्यं, दीर्घायुष्यं, स्वर्गसुखसाधनं वा प्रार्थय, दास्यामि इति असकृत् अवदत् यमः । किन्तु नचिकेताः अवदत् - नान्यद् किञ्चिद् अहम् अपेक्षे, आत्मज्ञानमेव अपेक्षितं, कृपया अनुगृह्यताम् इति अवदत् । बालब्रह्मचारिणः सत्यनिष्ठया सन्तुष्टः यमः विस्तारेण ब्रह्मज्ञानम् अबोधयत् -
===आत्मस्वरूपम्===
अस्मिन् जगति [[श्रेयः]] [[प्रेयः]] आत्मसुखं विषयसुखम् इति द्विविधं सुखं वर्तते । एतयोः अन्यतरेण प्रेरितः सन् मानवः कस्मिंश्चित् कर्मणि प्रेरितः भवति । बुद्धिमन्तः आत्मसुखं मूढाः विषयसुखं च अपेक्षन्ते । भवान् श्रेयसः प्राप्त्यर्थम् उद्युक्तः अस्ति । आत्मसुखम् आत्मज्ञानेन आत्मनि एव प्राप्यमाणं वस्तु । आत्मा एव सत्यवस्तु । सः एव सर्वस्य आधारभूतः । सः मनुष्यस्य अन्तःकरणे एव गूढरूपेण स्थितः विद्यते । अध्यात्मयोगेन ध्यानेन च तस्य सम्पूर्णं ज्ञानं प्राप्तुं शक्यते । वेदानां विविधव्रतानां च लक्ष्यं भवति अयम् आत्मा । ओङ्कारमन्त्रः[[ ओङ्कारः|ओङ्कार]]मन्त्रः एव तस्य आत्मस्वरूपस्य निर्देशः ।

तत्स्वरूपं जननमरणातीतं वर्तते । अनित्येषु नित्यम् अचेतनेषु चैतन्यरूपं वर्तते । तत् सूक्ष्मतमं बृहत्तमञ्च वर्तते । किन्तु इदम् आत्मज्ञानं तर्केण बुद्ध्या प्रवचनेन वेदश्रवणेन च न सिद्ध्यति ।
===आत्मज्ञानम्===
आत्मप्रसादेन तन्नाम परमात्मनः अनुग्रहेणैव आत्मज्ञानं भविष्यति । अस्मिन् [[शरीरम्|शरीरे]] जीवात्मपरमात्मानौ छायातपौ इव वसतः । परमात्मसाक्षात्कारं यः इच्छेत् सः मनः इन्द्रियाणि च संयम्य, बुद्धेः परिशुद्धतां सम्पाद्य, परमात्मनः ध्याने निमग्नः भवेत् । बाह्येन्द्रियेभ्यः बहिः बुद्धिः, ततः महदात्मा [[हिरण्यगर्भः|हिरण्यगर्भो]] वा, ततः अव्यक्तं, ततः बहिः परमपुरुषश्च विद्यते । सर्वान्तर्यामिणम् इमं गूढात्मानं ध्यानयोगेन, तीक्ष्णबुद्ध्या च जानीयात् । बाह्यशक्तीः ततः बहिः विद्यमानेषु तत्त्वेषु विलयीकुर्वन् ध्यानं कुर्यात् । चित्ते शान्तात्मनः परमात्मनः एव मननम् अविचलं यथा स्यात् तथा लयचिन्तनरूपः ध्यानविधिः अभ्यसितव्यः ।

विश्वस्य सृष्ट्यवसरे परमात्मा स्वीयशक्तीः बहिः विस्तारितवान् । अतः एव अस्माकम् [[इन्द्रियाणि]] सर्वदा बहिर्मुखाः भवन्ति । तानि अन्तर्मुखानि भवन्ति चेत् आत्मदर्शनं भविष्यति । तेन आत्मतत्त्वेन एव सृष्टेः उत्पत्तिः । सर्वस्य अपि उगमस्थानं भवति तत् । सर्वस्य विश्वस्य आधारभूतम् इदम् आत्मतत्त्वम् [[अङ्गुष्ठः|अङ्गुष्ठ]]परिमाणरूपेण सर्वस्य अपि अन्तःकरणे निवसति । इदम् आत्मतत्त्वं यः ज्ञास्यति सः आत्ममयः, पुनर्जन्मरहितः, अमृतश्च भविष्यति ।
====कदा====
अस्मिन् एव जन्मनि आत्मज्ञानं प्राप्तव्यम् । यतः इहलोके अस्मिन् एव जन्मनि आत्मज्ञानं स्पष्टतया पूर्णतया च प्राप्तुं शक्यम् । पितृलोके, गन्धर्वलोके, स्वर्गलोके च आत्मसाक्षात्कारः सुष्ठु न भवेत् ।
====कथम्====
पञ्चेन्द्रियाणि, मनः [[बुद्धिः|बुद्धिञ्च]] स्थिरीकृत्य [[योगः|योग]]स्थितिः प्राप्तव्या । निश्चले आत्मनि परमात्मनः दर्शनं भविष्यति । परमात्मनि दृढः विश्वासः यदि स्यात् तर्हि कार्यकारणयोः तत्त्वज्ञानं तीव्रं भविष्यति । तस्य ज्ञानस्य प्राप्त्या मिथ्याज्ञानं हिममिव विलयं याति, ततः आत्मज्योतिः सुष्ठु ज्वलति । [[हृदयम्|हृदयात्]] एकोत्तरशतं नाड्यः प्रतिष्ठन्ते । तेषु अन्यतमा [[सुषुम्नानाडी]] । सा [[ब्रह्मरन्ध्रम्|ब्रह्मरन्ध्रं]] प्रति सरति । तेन द्वारा प्राणानाम् आरोहणाय प्रयत्नः विधेयः । ततः अमृतत्त्वं प्राप्यते । अन्तरात्मनः सत्यज्ञानमेव प्रमुखम् । ततः सर्वाः आशाः, मूढभावाः, मिथ्याकल्पनाश्च विनश्यन्ति । तदनन्तरम् इदं नित्यसत्यम् आत्मतत्त्वम् अनित्येभ्यः शरीरादिभ्यः वियोजनीयम् । एवं निश्चयेन धैर्येण च वियोजितेन आत्मतत्त्वेन पूर्णं साक्षात्कारं प्राप्य मनुष्यः [[जीवन्मुक्तः]] भिविष्यति । सः निष्पापः, शोकरहितः, भयरहितश्च भविष्यति ।

====निरूपणश्लोकाः====
तृतीयेन च आत्मविद्यां यस्मिन्निदं विचिकित्सन्ति इति मृत्युं प्रार्थयते । नचिकेतसः ग्रहणसामर्थ्यं दृष्ट्वा सः स्वयं अन्यमेकं वरं प्रदास्यति यत् अग्निविद्यायाम् अग्निः नाचिकेताग्निः इति नाम्ना ख्यायते । अन्ते च नचिकेताः प्रश्नमेकं पृच्छति –अन्यत्रधर्मात् अन्यत्राधर्मात् इत्यादिना ब्रह्मतत्त्वम् । तदा यमः सविस्तरं निरूपयति, न जायते म्रियते वा विपश्चित्, अणोरणीयान् महतो महीयान् इत्यादिद्वारा ।

आत्मनः निरूपणं रथादिकल्पनया स्पष्टं भवति तृतीयवल्याम् । तत्र रथी आत्मा, रथं शरीरं, सारथिः बुद्धिः, प्रग्रहं मनः, हयाः इन्द्रियाणि, मार्गाः विषयाः भवन्ति । परञ्चि खानि व्यतृणत् इत्यादिना धीरस्य वर्णनं श्रूयते । मनसैवेदमाप्तव्यं नेह नानास्ति किञ्चन इत्यादिना धीरस्य वर्णनं श्रूयते । मनसैवेदमाप्तव्यं नेह नानास्ति किञ्चन इत्यादिना च साधनानि कथितानि । ऊर्ध्वमूलोऽवाक्शाख इत्यनेन सर्वसंसारमूलत्वेन ब्रह्मणः निर्देशः च कृतः ।
इयमुपनिषत् आत्मविषयिण्या आख्यायिकया आरभ्यते । प्रामुख्येन यमनचिकेतसोः प्रश्नप्रतिवचनरूपा अस्ति ।

==अविस्मरणीयाः मन्त्राः==
Line २८ ⟶ ३३:
तौ सम्परीत्य विविनक्ति धीरः ।
श्रेयो हि धीरोऽभि प्रेयसो वृणीते
प्रेयो मन्दो योगक्षेमाद्वृणीते ॥ ॥ कठोपनिषद् – 1.2२.२.2
</poem>
<poem>
Line ३५ ⟶ ४०:
क्षुरस्य धारा निशिता दुरत्यया
दुर्गं पथस्तत्कवयो वदन्ति ॥ कठो
पनिषद् – 1.3.14१४
</poem>

==आख्यायिका==
==प्रथमाध्यायस्य सारः==
==द्वितीयाध्यायस्य सारः==
==प्रधानमन्त्राः==
== आधाराः ==

==बाह्यसम्पर्कतन्तुः==
"https://sa.wikipedia.org/wiki/कठोपनिषत्" इत्यस्माद् प्रतिप्राप्तम्