"भारतीयजनतापक्षः" इत्यस्य संस्करणे भेदः

सम्पादनसारांशरहितः
* १९९२ तमे वर्षे ६ दिसम्बरमासे, बाबरीमस्जिद विद्ध्वंसः जातः। आभारतं परवर्तीसमये हिन्दु-मुस्लिमजनगणयोर्मध्ये हिंसा प्रचलिता आसीत्। फलस्वरूपं सहस्रा़धिकजनानां मृत्युः अभवत्। एतदनन्तरं विश्वहिन्दूपरिषदः उपरि प्रतिबन्धं सर्वकारेण आरोपितासीत्। लालकृष्णः आडवाणी तथा केचन भा.ज.पा. कार्यकर्तारः अपि कारागाराबद्धाः आसन्।
सम्पूर्णदेशे हिंसायाः भर्त्सना अभवत्। परन्तु भा.ज.पा. हिन्दुजनानां समर्थनम् अलभत्। <br />
[[चित्रम्:Lal Krishna Advani 2008-12-4.jpg|Thumb|right|200px| लालकृष्णः आडवाणी ]]
*१९९३ तमे वर्षे दिल्ली निर्वाचने भारतीयजनतापक्षः विजयी अभूत्। तथा १९९५ तमे वर्षे गुजरात-महाराष्ट्रः उभयत्राऽपि निर्वाचने भा.ज.प. विजयं अलभत्। १९९५ तमे वर्षे नवम्बर् मासे भा.ज.पा-महाअधिवेशने लालकृष्णः आडवाणीमहोदयेन उत्घोषितासीत् यत् - परवर्तीनिर्वाचने भारतीयजनतापक्षः विजयं प्राप्ष्यति चेत् अटलबिहारीवाजपेयी प्रधानमन्त्री भविष्यति इति। १९९६ तमे वर्षे सामान्यनिर्वाचने भा.ज.प. विजयी अभूत्। अटलबिहारीवाजपेयी प्रथमवारं प्रधानमन्त्री अभूत्। परन्तु संख्यागरिष्ठताऽभावात् १३ दिनानि अनन्तरम् एव तेषां सर्वकारस्य पतनम् अभवत्। <br />
*१९९८ तमे वर्षे लोकसभानिर्वाचने भारतीयजनतापक्षः इतरक्षेत्रीयपक्षैः सह मैत्रीकुटः (राष्ट्रियजनतान्त्रिकमैत्रीकुटः) अकरोत्। निर्वाचने मैत्रीकुटस्य विजयः अभूत्। पुनः अटलबिहारीवाजपेयी प्रधानमन्त्रीपदवीं लब्धवान् । परन्तु १९९९ तमे वर्षे मैत्रीकुटान्तर्वर्ती एकस्य पक्षस्य समर्थनप्रत्याहारकारणात् सर्वकारस्य पतनम् अभवत्।<br />
५,५६१

सम्पादन

"https://sa.wikipedia.org/wiki/विशेषः:MobileDiff/245826" इत्यस्माद् पुनः प्राप्तिः