"सि डि देशमुख" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २९:
 
==वृत्तिजीवनम्==
*१९३९तमे वर्षे देशमुखवर्यः रिसर्व्-बेङ्क् मध्ये लयसन्-अधिकरिरूपेण तदनन्तरम् कार्यदर्शीरूपेण कार्यँआरब्दवान् । १९४३- १९५०तम वर्षपर्यन्तं सः वित्तकोशस्य मुख्याधिकारिपदे कार्यं निरूढवान् ।
*१९४४तमे वर्षे ब्रेटनवुड्स् सम्मेलने भारतस्य प्रतिनिधित्वं स्वीकृतवान् । सम्मेलनस्य परिणामतः अन्तारष्ट्रिय-आर्थिकनिधिः (IMF) (इन्टर्नाषनल् बेङ्क् फ़ार् रिकन्ट्रक्ष्न् आण्ड् डेवेलप्मेण्ट्)(IBRD) नाम संस्थाद्वयं स्थापितम् । तदनन्तरं देशमुखवर्यः एकवर्षपर्यन्तम् एतयोः संस्थयोः सदस्यः आसीत् । १९५१तमे वर्षे प्यारिस्-नगरे एतयोः संयुक्ताश्रयेन वार्षिकसम्मेलनम् सञ्जातम् । तत्र देशमुखवर्यः अध्यक्षः आसीत् ।
*आङ्ग्लसर्वकारतः भारतं यदा विभजितः तदा देशमुखवर्यः विभजितराष्ट्रद्वयस्य वित्तकोशीय व्यवहाराधिकं सर्वं आमूलाग्रं परिशीलितवान् । १९४९तमे वर्षे जनवरी मासे देशमुखवर्यस्य मार्गदर्शने रिसर्व् बेङ्क् संस्थायाः राष्ट्रीकरणं जातम् ।
*१९५०तः १९५६तमवर्षपर्यन्तं देशमुखवर्यः भारतसर्वकारस्य अर्थसचिवत्वेन कार्यं कृतवान् । आर्थिकप्रवृत्तीनां अध्ययनार्थं संशोधनविभागमेकं स्थापितवान् । सचिवपदस्य कृते त्यागपत्रं दत्वा सः विश्वविद्यालयानां अनुदानायोगस्य पूर्णावधि अध्यक्षरूपेण नियुक्तः । तदनन्तरं देहलीविश्वविद्यालयस्य कुलपतिः अभवन् ।
 
 
==वैयक्तिकजीवनम्==
देशमुखवर्यः एकां आङ्ग्लकन्यां ऊढ्वान् । एतयोः एका पुत्री अपि जाता । किन्तु भारतस्य स्वातन्त्रानन्तरम् सा इङ्लेण्ड्देशं प्रति गतवती । अनन्तरं देशमुखवर्यः दुर्गाबाई इत्याख्यां कन्यां परिणीतवान् । सा काङ्ग्रेस्पक्षस्य सदस्या स्वातन्त्रयोधा च ।
 
१९८२ तमे वर्षे अक्टोबर् मासस्य २ दिनाङ्के देशमुखवर्यः दिवन्गतः ।
==पुरस्काराः==
*१९३७तमे संवत्सरे CIE (Companion of the Order of the Indian Empire)-संस्थायां देशमुखवर्यः नियुक्तः ।
"https://sa.wikipedia.org/wiki/सि_डि_देशमुख" इत्यस्माद् प्रतिप्राप्तम्