"प्रश्नोपनिषत्" इत्यस्य संस्करणे भेदः

सम्पादनसारांशरहितः
No edit summary
No edit summary
चतुर्थे प्रश्ने सौर्यायणी गार्ग्यः पुरुषे सुप्ते कानि स्वपन्ति कानि च जागृतानि भवन्ति, कः देवः स्वप्नान् पश्यति, कः सुखमनुभवति, कस्मिन् सर्वाः शक्तयः सम्प्रतिष्ठिता भवन्ति इति पृच्छति । तदा उत्तरं ब्रवीति गुरुः- सर्वाः शक्तयः मनसि सम्मिल्य स्वपन्ति । प्राणाग्नयः जागरिताः सन्तः सततं कार्यरताः भवन्ति । स्वप्नान् पश्यति देवः मनः एव । विविधानि शक्याशक्यानि दृष्टादृष्टानि वस्तूनि मनसि गोचराः भवन्ति । पूर्णज्ञानस्य प्राप्त्या आत्मा सुखी भवति, मनः अपि सुखमनुभवति । सुषुप्तस्थितौ सर्वाणि भूतानि, तेषां तन्मात्राणि, सर्वाणि इन्द्रियाणि, इन्द्रियविषयाश्च आत्मनि लीनाः भवन्ति । आत्मा एव द्रष्टा, श्रोता, वक्ता च । सः परमश्रेष्ठे अक्षरब्रह्मणि प्रतिष्ठितः । परब्रह्म एव सर्वेषां प्रतिष्ठारूपम् ।
==पञ्चमप्रश्नः==
पञ्चमेन प्रश्नेन सत्यकामः पृच्छति-यः आजीवनम् ओङ्कारमुपास्ते सः कतरं लोकं प्राप्नोति ? कीदृशं फलं प्राप्नोति ? तस्य उत्तरं पठतिवदति -परमपावनस्य ओङ्कारस्य लक्ष्यभूतमस्ति परब्रह्म । यः निष्कामेन उपास्ते सः सकलैश्वर्यं प्राप्नोति । तत्रापि यः एकमात्रां ध्यायति तं यजुः सोमलोकं प्रति अन्नयति तत्र सः विभूतिमनुभवति । यश्च त्रिमात्रेण उपास्ते सः तेजसि अर्थात् द्युलोके सम्पन्नो सर्वपाप्मविनिर्मुक्तः भावति । अतः एतद्रहस्यं ज्ञात्वा उपास्ते यः स परं पदं प्राप्नोति न पुनरावर्तते
परमपावनस्य ओङ्कारस्य लक्ष्यभूतमस्ति परब्रह्म । यः निष्कामेन उपास्ते सः सकलैश्वर्यं प्राप्नोति । ओङ्कारः मात्रात्रयेण युक्तः । अकारः, उकारः, मकारः एव ताः मात्राः । प्रथममात्रस्य अकारस्य ध्यानं नाम ऋग्वेदोपासनम् । अस्य लोकस्य महिम्नः अनुभवः एव ध्यानस्य फलं भवति । द्वितीयमात्रस्य उकारस्य ध्यानं नाम यजुर्वेदविहितानां यज्ञयागादीनां पुण्यकर्मणाम् आचरणम् । पुण्यस्य समाप्तिपर्यन्तं स्वर्गलोकस्य सुखानि अनुभूय प्रत्यागमनमेव उकारध्यानस्य फलम् । मात्रात्रयमपि संयुज्य यः ओङ्कारस्य ध्यानं कुर्यात् तेन पुनर्जन्मरहितः सूर्यलोकः ब्रह्मलोकः वा प्राप्यते । तदेव अमृतपदम् ।
==षष्ठः प्रश्नः==
षष्ठे प्रश्ने सुकेशाः भारद्वाजः प्रश्नं पृच्छति यत् कोशलदेशस्य राजकुमारः हिरण्यनाभः एकदा षोडशकला-सम्पन्नस्य पुरुषस्य विषये मां पृष्टवान् । अहम् अनभिज्ञः इति ज्ञात्वा सः सथमारुह्यरथमारुह्य प्रतिगतवान् । अतः अहं त्वां पृच्छामि कोऽसौ षोडशकलायुक्तः पुरुषः – इति । उत्तरं पठति-पुरुषे एव एते षोडशकलाः संहताः यथा रथनाभौ अराः तथा । सः पुरुषः प्राणमसृजत । सृष्टेः श्रेयसे प्राणात्प्राणतः श्रध्दाम्श्रद्धाम् असृजत । ततः पञ्चभूतानि । तत्र श्रूयते –स प्राणमसृजत, प्राणात् श्रध्दांश्रद्धां खं वायुर्ज्योतिरापः पृथिवीन्द्रियं मनोऽन्नमन्नाद् वीर्यं तपो मन्त्राः कर्म लोका लोकेषु च नाम च । तदनन्तरंएते गुरुःएव ब्रूते-एतावदेवाहमेतत्परंषोडशकलाः वेद नातःएते परमस्तीतिसर्वे पुरुषे तदालीनाः सर्वेसन्तः शिष्याःविनष्टाः सविनयंभवन्ति गुरुस्तवनं कुर्वन्तिसर्वाः –त्वंदेवताः, हिप्राणाः, नःभूतानि पिता यःपरमपुरुषे अस्माकमविद्यायाःप्रतिष्ठितानि परंसन्ति पारं तारयसिअयमेव इतिषोडशकलाभिः युक्तः पुरुषः <br />
तदनन्तरं गुरुः ब्रूते-एतावदेवाहमेतत्परं वेद नातः परमस्तीति । तदा सर्वे शिष्याः सविनयं गुरुस्तवनं कुर्वन्ति –त्वं हि नः पिता यः अस्माकमविद्यायाः परं पारं तारयसि इति ।
==प्रमुखाः शब्दार्थाः==
* समित्पाणि - हस्ते समिधः (अग्नेः ज्वालनाय आवश्यकाः काष्ठखण्डाः) गृहीत्वा (गुरोः समीपे गमनावसरे एषा पद्धतिः अनुस्रियते)
* रयि - अन्नम् अथवा जडम्
* मिथुन - स्त्रीपुरुषयोः युगलम्
* इष्टापूर्तकर्म - यज्ञयागादीनाम् आचरणं, कूपसरसां निर्माणञ्च
* निरोध - नियमः
* द्वादशाकृतिः - सूर्यस्य द्वादश रूपाणि
* पञ्चप्राण - प्राण-अपान-व्यान-समान-उदान
* एकर्षि - एकाकी सञ्चारी
* आद्य - खादनाय योग्यम् (आहुतिः) प्रथमः वा
* अध्यात्म - देहसम्बद्धम्
* गार्हपत्य - अग्निहोत्रिणः गृहे पश्चिमघटे स्थाप्यमानः अग्निः । गृहपतिनां (गृहस्थानां) गृहे भवति इत्यतः इदं नाम ।
* अनाहार्य - अग्निहोत्रिणां दक्षिणाग्निः, अमावास्यायां क्रियमाणे पितृश्राद्धे अग्नये इतः एव आहुतयः अर्प्यन्ते ।
* आहवनीय - पूर्वाग्निः हवनाय योग्यम् इत्यतः आहवनीयम् इति कथ्यते । प्रतिनित्यं गार्हपत्याग्नितः अस्य ज्वालनं भवति ।
* तन्मात्रा - तत्त्वानाम् अत्यन्तं शुद्धं सूक्ष्मञ्च स्वरूपम् । व्यक्तस्य सृष्टेः पूर्वं विद्यमाना तत्त्वस्थितिः ।
* कला - अंशाः अवयवाः वा
* कलारहितः - एकरूपयुक्तः, अखण्डः
* प्रजा - प्राणिनः, जीवाः, भूतानि
* व्रात्य - उपनयनादिसंस्काररहितः । अत्र प्राणः सर्वप्रथमः इत्यतः तस्मै कः संस्कारं यच्छति ? अतः अत्र 'व्रात्यः' नाम संस्कारातीतः
इत्यर्थः ।
==प्रश्नोपनिषदः वैशिष्ट्यम्==
इयं संवादरूपा इत्यतः अन्वर्थनामा । विषयबोधनाय संवादपद्धतिः बहु परिणामयुक्ता । अस्याः पद्धतेः प्रमुखः गुणः नाम एकस्य प्रश्नस्य विषये चिन्तनावसरे विषयस्य तस्मिन् एव भागे मनः एकाग्रं भवति इत्यतः सः भागः स्पष्टं बुद्धिगोचरा भवति । तस्मात् समग्रस्य विषयस्य आकलनभारः न भवति । पृथक्कृतः कश्चन भागः स्वीक्रियते इत्यतः विषयज्ञानं सुलभं भवति ।
अस्याम् उपनिषदि विद्यमानः षट् प्रश्नाः अपि आत्मज्ञानसम्बद्धान् सर्वान् अपि प्रमुखान् विषयान् बोधयति । ओङ्कारस्य उपासनं तस्य विविधाः प्रकाराश्च आत्मज्ञानस्य साधनभूतानि इति निर्दिष्टानि ।
 
{{दशोपनिषदः}}
"https://sa.wikipedia.org/wiki/विशेषः:MobileDiff/246367" इत्यस्माद् प्रतिप्राप्तम्