"ज्ञानपीठप्रशस्तिः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ४:
 
==साहुशान्तिप्रसादजैन:==
साहुशान्तिप्रसादजैनवर्य: क्रि.श.१९११ तमे वर्षे उत्तरप्रदेशे नजीबाबादनगरे जन्म प्राप्नोत् । बनारसहिन्दुविश्वविद्यालये आगराविश्वविद्यालये च तेन विज्ञानविषयिणी स्नातकपदवी प्राप्ता । वाराणस्याम् अखिलभारतीयं प्राच्यविद्यासम्मेलनं यत् प्रवृत्तं तत्र विद्वद्भि: सूचितं यत् साहित्यक्षेत्रस्य प्रोत्साहनाय राष्ट्रस्तरीया गौरववर्धिका काचित् विशिष्टा प्रशस्ति: प्रदातव्या, तदर्थं कश्चन न्यास: प्रतिष्ठापनीय: इति । तत: १९४४ तमे वर्षे फेब्रवरीमासस्य १८ दिनाङ्के ‘ज्ञानपीठप्रशस्ति’न्यास: प्रतिष्ठापित: जात: । शान्तिप्रसादजैनवर्य: अस्ति न्यासस्यास्य संस्थापकन्यासी । तस्य पत्नी रमाजैनवर्या न्यासाध्यक्षा जाता । २७.१०.१९७७ तमे वर्षे शान्तिप्रसादवर्य: दिवं गत: । क्रि.श.१९६५ तमात् वर्षात् ज्ञानपीठप्रशस्तिप्रदानप्रथा आरब्धा । आदौ प्रशस्तिमूल्यं सार्धैकलक्षरूप्यकात्मकम् आसीत् । इदानीं तु प्रशस्तिमूल्यम् अस्ति पञ्चलक्षरूप्यकात्मकम् । प्रशस्तिमेतां भारतसर्वकारः ददाति इति भ्रान्तिः अस्ति जनेषु । वस्तुतः टैंस् आफ् इण्डियास्वामिनः जैन्कुटुम्बसदस्याः एतस्याः प्रशस्त्याः स्थापकाः ।अधुनापि न्यासे सदस्येषु ते एव अधिकाः सन्ति । [[क्रि.श.१९८२]] तः ,एतां प्रशस्तिं [[भारतीयसाहित्यस्य]] कृते यः समग्रं योगदानं करोति तादृशाय लेखकाय दीयते । एतावत् पर्यन्तम् कन्नडभाषायाः अष्टौ लेखकाः एतां प्रशस्तिं प्राप्तवन्तः ।कन्नडभाषा अधिकज्ञानपीठप्रशस्त्या पुरस्कृता अस्ति ।.हिन्दी भाषायां षट् जनाः एतां प्राशस्तिं प्राप्तवन्तः । एषा भाषा द्वितीये स्थाने अस्ति ।
 
==प्रशस्तिभूषिताः विविधभाषाः==
"https://sa.wikipedia.org/wiki/ज्ञानपीठप्रशस्तिः" इत्यस्माद् प्रतिप्राप्तम्