"महाभारतम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ५१:
 
पाण्डवानाम् अभ्युदयम् असहमानः दुर्योधनः छलेन तेषां राज्यम् अपहर्तुं बहुकृतप्रयत्नोऽपि विफलोऽभवत्। तदा स्वमातुलशकुनिसाहाय्येन घूतक्रीडायां कपटेन पाण्डवान् पराजित्य द्रौपदीञ्च स्वानुजेन दुःशासनेन सभामानाय्य अपमाननं कर्तुं प्रायतत । श्रीकृष्णेन रक्षिता द्रौपदी। पराजिताः पाण्डवाः कृतसमयानुसारं द्वादशवर्षपर्यन्तं वनवासस्य, एकवर्ष-अज्ञातवासस्य च कठिनाम् अवस्थाम् असहन्। ततोऽरण्यात् निवृत्य स्वराज्यम् अयाचन्त । दौत्यार्थं पाण्डवप्रतिनिधिः भूत्वा स्वयं श्रीकृष्णः गतः। परन्तु स्वार्थपरायणः दुर्योधनस्तु - ’केशव ! युद्धं विना सुच्याग्रपरिमितं भूमिमपि न दास्यामि’ इति दृढचित्तः सन् अवदत् ।<br />
 
फलतः कौरव-पाण्डवानां मध्ये भयङ्करं युद्धं सञ्जातम्। कौरवाः पराजिताः, पाण्डवेषु ज्येष्ठः युधिष्ठिरः राजसिंहासनम् आरोहत् । कालक्रमेण अभिमन्योः पुत्रं परीक्षितं हस्तिनापुरस्य अधिपतिनं विधाय सर्वे पाण्डवाः द्रौपदी च हिमालयं प्रति अगच्छन् -तत्रैव कालकवलतां गताश्च।
 
Line ७१ ⟶ ७२:
:धर्मे चार्थे च कामे च मोक्षे च भरतर्षभम्।
:यदिहास्ति तदन्यत्र यन्नेहास्ति न तत् क्वचित्॥
महनीयोऽयं ग्रन्थः यथा वपुषा विशालः तथैव भावगाम्भीर्येण अर्थगौरवेण च। अतैव उच्यते -<br />
'''महत्वाद् भारवत्वाच्च महाभारतमुच्यते।'''
महाभारतं विरच्यविरचय्य - ’श्रीव्यासः शिष्येभ्यः कथम् अध्यापयामि’ इति यथा चिन्तामञ्नःचिन्तामग्नः आसीत् - तथा तस्य व्यथां ज्ञात्वा - स्वयं लोकगुरुः भगवान् ब्रह्मा तस्य प्रीत्यर्थं लोकानां हितकाम्यया च तत्र आगच्छत्। यथाविधि तस्योपचारं कृत्वा स्वयं श्रीव्यासः स्वग्रन्थविषयेऽवदत् -
’भगवान् ! मया इदं परमपूज्यं काव्यं कृतम् - अस्मिन् काव्ये - वेदरहस्यं - साङ्गोपनिषदां विषयं च विस्तारेण वर्णितम्। - इतिहासाः - पुराणानि - भुतं -भव्यं - भविष्यञ्च, जरा-मृत्यु-भय-व्याधि-भावाभावः, चातुर्वर्ण्यविधानं वर्ण्यधर्माः, पृथिवी - चन्द्रः - सूर्यः - तारागणः ग्रहप्रमाणाः, सत्य-त्रेता-द्वापर-कलियुगाः, ऋग्-यजुस्-सामानि सर्वमपि वर्णितम्।
तीर्थानां पुण्य क्षेत्राणां च कीर्तनं, नदी-वन-पर्वत-सागरादीनां वर्णनं, सर्वमपि प्रतिपादितं - परन्तु एतस्य ग्रन्थस्य कोऽपि लेखकः भुवि न विद्यते।
"https://sa.wikipedia.org/wiki/महाभारतम्" इत्यस्माद् प्रतिप्राप्तम्