"प्रश्नोपनिषत्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १२:
पञ्चमेन प्रश्नेन सत्यकामः पृच्छति-यः आजीवनम् [[ओङ्कारः|ओङ्कार]]मुपास्ते सः कतरं लोकं प्राप्नोति ? कीदृशं फलं प्राप्नोति ? तस्य उत्तरं वदति - परमपावनस्य ओङ्कारस्य लक्ष्यभूतमस्ति परब्रह्म । यः निष्कामेन उपास्ते सः सकलैश्वर्यं प्राप्नोति । ओङ्कारः मात्रात्रयेण युक्तः । अकारः, उकारः, मकारः एव ताः मात्राः । प्रथममात्रस्य अकारस्य ध्यानं नाम [[ऋग्वेदः|ऋग्वेदो]]पासनम् । अस्य लोकस्य महिम्नः अनुभवः एव ध्यानस्य फलं भवति । द्वितीयमात्रस्य उकारस्य ध्यानं नाम [[यजुर्वेदः|यजुर्वेद]]विहितानां यज्ञयागादीनां पुण्यकर्मणाम् आचरणम् । पुण्यस्य समाप्तिपर्यन्तं [[स्वर्गलोकः|स्वर्गलोकस्य]] सुखानि अनुभूय प्रत्यागमनमेव उकारध्यानस्य फलम् । मात्रात्रयमपि संयुज्य यः ओङ्कारस्य ध्यानं कुर्यात् तेन पुनर्जन्मरहितः सूर्यलोकः ब्रह्मलोकः वा प्राप्यते । तदेव अमृतपदम् ।
==षष्ठः प्रश्नः==
षष्ठे प्रश्ने सुकेशाः [[भारद्वाजः]] पृच्छति यत् कोशलदेशस्य राजकुमारः हिरण्यनाभः एकदा षोडशकला-सम्पन्नस्य पुरुषस्य विषये मां पृष्टवान् । अहम् अनभिज्ञः इति ज्ञात्वा सः रथमारुह्य प्रतिगतवान् । अतः अहं त्वां पृच्छामि कोऽसौ षोडशकलायुक्तः पुरुषः – इति । उत्तरं पठति-पुरुषे एव एते [[षोडशकलाः]] संहताः यथा रथनाभौ अराः तथा । सः पुरुषः प्राणमसृजत । सृष्टेः श्रेयसे प्राणतः श्रद्धाम् असृजत । ततः [[पञ्चभूतानि]] । तत्र श्रूयते –स प्राणमसृजत, प्राणात् श्रद्धां खं वायुर्ज्योतिरापः पृथिवीन्द्रियं मनोऽन्नमन्नाद् वीर्यं तपो मन्त्राः कर्म लोका लोकेषु च नाम च । एते एव षोडशकलाः । एते सर्वे पुरुषे लीनाः सन्तः विनष्टाः भवन्ति । सर्वाः देवताः, [[प्राणाः]], भूतानि च परमपुरुषे प्रतिष्ठितानि सन्ति । अयमेव षोडशकलाभिः युक्तः पुरुषः । <br />
तदनन्तरं गुरुः ब्रूते-एतावदेवाहमेतत्परं वेद नातः परमस्तीति । तदा सर्वे शिष्याः सविनयं गुरुस्तवनं कुर्वन्ति –त्वं हि नः पिता यः अस्माकमविद्यायाः परं पारं तारयसि इति ।
==प्रमुखाः शब्दार्थाः==
पङ्क्तिः ३५:
इत्यर्थः ।
==प्रश्नोपनिषदः वैशिष्ट्यम्==
इयं संवादरूपा इत्यतः अन्वर्थनामा । विषयबोधनाय संवादपद्धतिः बहु परिणामयुक्ता । अस्याः पद्धतेः प्रमुखः गुणः नाम एकस्य प्रश्नस्य विषये चिन्तनावसरे विषयस्य तस्मिन् एव भागे मनः एकाग्रं भवति इत्यतः सः भागः स्पष्टं बुद्धिगोचरा[[बुद्धिः|बुद्धि]]गोचरः भवति । तस्मात् समग्रस्य विषयस्य आकलनभारः न भवति । पृथक्कृतः कश्चन भागः स्वीक्रियते इत्यतः विषयज्ञानं सुलभं भवति । <br />
अस्याम् उपनिषदि विद्यमानः षट् प्रश्नाः अपि आत्मज्ञानसम्बद्धान् सर्वान् अपि प्रमुखान् विषयान् बोधयतिबोधयन्ति । ओङ्कारस्य उपासनं तस्य विविधाः प्रकाराश्च आत्मज्ञानस्य साधनभूतानि इति निर्दिष्टानि ।<br />
अत्र उपस्थापिताः विषयाः तर्कबद्धाः विद्यन्ते । इयम् उपनिषद् सुलभावगमयोग्या वर्तते । [[स्वर्गः]] मोक्षश्च विभिन्नावस्थायुतौ, [[मोक्षः]] स्वर्गात् श्रेष्ठः, आत्यन्तिकावस्था च वर्तते इति स्पष्टं निर्दिष्टम् अस्ति । काम्यबुद्ध्या कृतानां पुण्यकर्मणां फलं भवति स्वर्गः । किन्तु पूर्णज्ञानिना निष्कामपुरुषेण प्राप्यमाणं फलं भवति मोक्षः । <br />
मोक्षस्य प्रमुखं लक्षणं पुनर्जन्मरहिता[[पुनर्जन्म]]रहिता आनन्दस्थितिः । अस्य आत्मज्ञानस्य सम्पादनाय [[तपः]], ब्रह्मचर्या, [[श्रद्धा]], [[विद्या]] च कारणीभूताः इति निर्दिशति इयम् उपनिषत् ।
 
{{दशोपनिषदः}}
"https://sa.wikipedia.org/wiki/प्रश्नोपनिषत्" इत्यस्माद् प्रतिप्राप्तम्