"मुण्डकोपनिषत्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १३:
द्वितीयखण्डे ईदृशमात्मानं ध्यातुं धनुषः कल्पना दीयते साधकाय, प्रणवो धनुः शरो हि आत्मा इत्यादिना । तस्य वाचकः भवति ओङ्कारः स एव धनुः । आत्माशरः । ब्रह्म एव तस्य लक्ष्यम् । अतः अप्रमत्तेन सावधानेन विवेकेन च ओङ्कारोपासनेन जीवात्मरूपशरेण ब्रह्मरूपलक्ष्यवेधनं कुरु इति गुरुः निर्दिशति शिष्यं प्रति ।
==तृतीयमुण्डकम्==
तृतीयखण्डस्य प्रथममुण्डके जीवपरमात्मनोः परस्परसम्बन्धः, अस्य संसारस्य स्वरूपञ्च विविधैः रूपकैः सुष्ठु निरूपितं वर्तते । ब्रह्मज्ञानिनः स्थितिः का, तस्याः स्थितेः प्राप्तिमार्गः कः, यैः सा स्थितिः प्राप्ता तेषां सामर्थ्यं कीदृशं, ब्रह्मज्ञानिषु श्रेष्ठाः के इत्यादयः अंशाः निरूपिताः ।
 
सर्वव्याप्तत्वं ब्रह्मणः दर्श्यते । उपरि वर्तते द्युलोकः । मध्ये अनन्तः आकाशः अधः पृथिवी । तत्र पुनः विद्यन्ते असंख्यकाः प्राणिनः । तदीयं व्यष्टिगतं समष्टिगतञ्च मनः प्राणः इन्द्रियाणि अन्तः करणंअन्तःकरणं च । ओतप्रोततया पुनः सकलप्राणिनां हृद्देशे सर्वाधारः आत्मा संश्रितः सन् तिलेषु तैलवत् अप्सु च विद्युदिव व्याप्तः । तस्य परमात्मनः प्रकाशमय्या भासा विश्वमिदं विभाति इति दर्शयितुं तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति इति कथितम् ।
 
द्वा सुपर्णा इत्यादिमन्त्रभागे तावत् जीवेश्वरयोः एकस्मिन् देहे सहभावित्वमुक्तम् । जीवः (जीवात्मा) यदा शरीरासक्तः सन् देहेन्द्रियैः उपार्जितं पापपुण्यरुपं कर्मफलं भुञ्जानः सुखं दुःखं च अनुभवति तदा एव ईश्वरः (परमात्मा ) शरीरतुल्ये वृक्षे वर्तमानः निर्लिप्तः साक्षीव केवलं सर्वं पश्यन् आस्ते । किन्तु पापपुण्यरुपं कर्मफलं नैव भुड्ले, तदुक्तम् –तयोरन्यः पिप्पलं स्वाद्वत्ति अनश्नन्नन्योऽभिचाकशीति इति ।
"https://sa.wikipedia.org/wiki/मुण्डकोपनिषत्" इत्यस्माद् प्रतिप्राप्तम्