"मुण्डकोपनिषत्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १३:
द्वितीयखण्डे ईदृशमात्मानं ध्यातुं धनुषः कल्पना दीयते साधकाय, प्रणवो धनुः शरो हि आत्मा इत्यादिना । तस्य वाचकः भवति ओङ्कारः स एव धनुः । आत्माशरः । ब्रह्म एव तस्य लक्ष्यम् । अतः अप्रमत्तेन सावधानेन विवेकेन च ओङ्कारोपासनेन जीवात्मरूपशरेण ब्रह्मरूपलक्ष्यवेधनं कुरु इति गुरुः निर्दिशति शिष्यं प्रति ।
==तृतीयमुण्डकम्==
तृतीयखण्डस्य प्रथममुण्डके जीवपरमात्मनोः परस्परसम्बन्धः, अस्य संसारस्य स्वरूपञ्च विविधैः रूपकैः सुष्ठु निरूपितं वर्तते । ब्रह्मज्ञानिनः स्थितिः का, तस्याः स्थितेः प्राप्तिमार्गः कः, यैः सा स्थितिः प्राप्ता तेषां सामर्थ्यं कीदृशं, ब्रह्मज्ञानिषु श्रेष्ठाः के, ब्रह्मज्ञानिनां सामर्थ्यं कीदृशम् इत्यादयः अंशाः निरूपिताः ।<br />
सर्वव्याप्तत्वं ब्रह्मणः दर्श्यते । उपरि वर्तते द्युलोकः । मध्ये अनन्तः आकाशः अधः पृथिवी । तत्र पुनः विद्यन्ते असंख्यकाः प्राणिनः । तदीयं व्यष्टिगतं समष्टिगतञ्च मनः प्राणः इन्द्रियाणि अन्तःकरणं च । ओतप्रोततया पुनः सकलप्राणिनां हृद्देशे सर्वाधारः आत्मा संश्रितः सन् तिलेषु तैलवत् अप्सु च विद्युदिव व्याप्तः । तस्य परमात्मनः प्रकाशमय्या भासा विश्वमिदं विभाति इति दर्शयितुं तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति इति कथितम् ।<br />
तृतीयमुण्डकस्य द्वितीयखण्डे आत्मज्ञानं केन प्राप्यते, केन न प्राप्यते इत्येषः विषयः चर्चितः । आत्मप्रसादं विना तत् न प्राप्यते इति निर्णीतम् अस्ति अत्र । ब्रह्मज्ञानिनः पुनर्जन्मरहितम् अमृतत्त्वं प्राप्नुवन्ति, ब्रह्मणि समस्तमपि एकीभवन्ति इति विषयः निरूपितः ।<br />
 
द्वा सुपर्णा इत्यादिमन्त्रभागे तावत् जीवेश्वरयोः एकस्मिन् देहे सहभावित्वमुक्तम् । जीवः (जीवात्मा) यदा शरीरासक्तः सन् देहेन्द्रियैः उपार्जितं पापपुण्यरुपंपापपुण्यरूपं कर्मफलं भुञ्जानः सुखं दुःखं च अनुभवति तदा एव ईश्वरः (परमात्मा ) शरीरतुल्ये वृक्षे वर्तमानः निर्लिप्तः साक्षीव केवलं सर्वं पश्यन् आस्ते । किन्तु पापपुण्यरुपंपापपुण्यरूपं कर्मफलं नैव भुड्लेभुड्क्ते, तदुक्तम् –तयोरन्यः पिप्पलं स्वाद्वत्ति अनश्नन्नन्योऽभिचाकशीति इति ।
==प्रमुखाः शब्दार्थाः==
<poem>
साध्य - देवविशेषः
अपरा - हीनम्, न्यूनस्तरीयम्
परा - श्रेष्ठम्
शिक्षा - वणोच्चारविद्या
कल्प - यज्ञयागादीनां क्रमः, विधिः
निरुक्त - शब्दानां व्युत्पत्तिशास्त्रम्
अन्न - अखिलं जडं विश्वम्
अग्रफल - प्रथमफलम्
वैश्वदेव - अग्निद्वारा सकलदेवताभ्यः आहुतिप्रदानविधिः
सोम्य - शिष्यसम्बोधनाय शब्दविशेषः
अविद्या - कर्मविषयकं ज्ञानम्
इष्टापूर्ति - श्रौतस्मार्तयज्ञानि लौकिकपरोपकाराश्च
सूर्यद्वारा - देवयानमार्गः (अर्चिरादि) - अनेन गमनेन पुनर्जन्म न विद्यते
भाव - सृष्टपदार्थः वस्तु वा
सोम - देवतानां पेयम्
१५ कलाः - पञ्चभूतानि, पञ्चेन्द्रियाणि, पञ्चप्राणाश्च
गुहाग्रन्थि - हृदयस्थाः संशयग्रन्थयः
शिरोव्रतम् - श्रेष्ठव्रतम्, ब्रह्मचर्या
==मुण्डकोपनिषदः वैशिष्ट्यम्==
इयम् उपनिषत् सर्वाङ्गसुन्दरी सम्पूर्णा च वर्तते । भाषा न क्लिष्टा न वा कठिना । अत्रत्या शैली उपमारूपकादिभिः अलङ्कृता इत्यतः पठनम् आनन्ददायकं भवति । आत्मस्वरूपस्य वर्णनं - 'प्रणवो धनुः', 'द्वासुपर्णा', 'यथा सुदीप्तात्', 'यथा नद्यः' इत्यादिभिः रूपकैः मनोज्ञरूपेण कृतमस्ति ।
 
==External links==
"https://sa.wikipedia.org/wiki/मुण्डकोपनिषत्" इत्यस्माद् प्रतिप्राप्तम्