"मीराबाई" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः २७:
मीरायाः ननान्दा 'अजब कुंवरबा' पुष्टिमार्गीय वैष्णवसम्प्रदायम् अङ्गीकृत्य 'ब्रह्मसम्बन्ध'दीक्षां नीतवती आसीत् । परन्तु मीरा सम्प्रदायादिभ्यः दूरैव आसीत् । मीरा यदा वृन्दावने आसीत् तदा चैतन्यमहाप्रभोः शिष्याभ्यां सह तस्याः मतभेदः उद्भूतः आसीत् । ततः सा व्रजभूमिं त्यक्त्वा द्वारकां प्रति प्रयाणं कृतवती ।
 
मीरायाः सौराष्ट्रगमने बहुनि कारणानि आसन् । प्रथमं कारणं तु श्रीकृष्णः द्वापरयुगे व्रजभूमितः द्वारकां प्रति गतः आसीदिति । द्वितीयं तस्याः गुरुः रैदासः गिरनारपर्वतसमीपे 'सरसई'ग्रामे निवसति स्म । तृतीयं तस्याः मातृपक्षराठोडवंशस्य ओखामण्डले राज्यम् आसीत् । इतोऽपि बहुनि कारणानि भवेयुः ।
 
सा [[जुनागढ]]-[[गिरनारपर्वतः|गिरनारपर्वत]]-माधवपुर-[[पोरबन्दर|सुदामापुरी]]-[[सोमनाथः|सोमनाथा]]दि सन् 'आरम्भडा' प्राप्तवती । तदा तत्र 'शिवा साँगा' नामक वाढेरवंशीयराज्ञः राज्यमासीत् । सोऽपि रणछोडरायभक्तः आसीत् । मीरा अधीकसमयम् अत्रैव निवसितवती । मीरया प्रेरितः 'शिवा साँगा' द्वारकाद्वीपे द्वाराकधीशमन्दिरं निर्मापितवान् आसीत् । तस्मिन् मन्दिरैव मीरा स्वस्य शेषजीवहनम् व्यतीत् देहत्यागञ्च कृतवती ।
"https://sa.wikipedia.org/wiki/मीराबाई" इत्यस्माद् प्रतिप्राप्तम्