"मीराबाई" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १९:
== जन्म परिवारश्च ==
 
मीरायाः कालः कदा ? इत्यस्मिन् विषये भिन्नानि मतानि सन्ति । मीरा १४९५ तमे वर्षे जोधपुरे 'मेडता'ग्रामात् समीपे 'कुडकी' ग्रामे अजायत इति केषाञ्चिन्मतम्केषाञ्चन मतम्। । तस्याः जनकः रतनसिंहः रावराठोडवंशे उद्भूतः । तस्याः जनन्याः नाम वीरकुवरी आसीत् । यदा सा १५-१६ वर्षीया आसीत्, तदा तस्याः विवाहः 'मेवाड'प्रदेशस्य राजपुत्रेण (भोजराज) सह अभवत् । तस्याः वैवाहिकजीवनं ५-६ वर्षपर्यन्तं सुखेन व्यतितम् आसीत् । पश्चाद् तस्याः पतेः आकस्मिकमृत्युः अभूत् । पतेः मृत्योः पश्चाद् राजपरिवारेण सह मीरायाः विवादः उद्भूतः । तेन मीरा राजप्रासादं त्यक्तवती ।
 
== जीवनम् ==
पङ्क्तिः २९:
मीरायाः सौराष्ट्रगमने बहुनि कारणानि भवेयुः । प्रथमं कारणं तु श्रीकृष्णः द्वापरयुगे व्रजभूमितः द्वारकां प्रति गतः आसीदिति । द्वितीयं तस्याः गुरुः रैदासः गिरनारपर्वतसमीपे 'सरसई'ग्रामे निवसति स्म । तृतीयं तस्याः मातृपक्षराठोडवंशस्य ओखामण्डले राज्यम् आसीत् । इतोऽपि बहुनि कारणानि भवेयुः ।
 
सा [[जुनागढ]]-[[गिरनारपर्वतः|गिरनारपर्वत]]-माधवपुर-[[पोरबन्दर|सुदामापुरी]]-[[सोमनाथः|सोमनाथा]]दि सन् 'आरम्भडा'राज्यं प्राप्तवती । तदा तत्र 'शिवा साँगा' नामकनामकस्य वाढेरवंशीयराज्ञः राज्यमासीत् । सोऽपि रणछोडरायभक्तः आसीत् । मीरा अधीकसमयं तत्रैव निवसितवती । मीरया प्रेरितः 'शिवा साँगा' द्वारकाद्वीपे द्वाराकधीशमन्दिरंद्वारकाधीशमन्दिरं निर्मापितवान् आसीत् । यदा मीरा द्वारकाद्वीपे निवसति स्म, तदा तस्याः आयुः ६० वर्षस्य आसीत् इति केषाञ्चन मतम्।। तस्मिन् मन्दिरैव मीरा स्वस्य शेषजीवनम् व्यतीतं कृतवती ।
"https://sa.wikipedia.org/wiki/मीराबाई" इत्यस्माद् प्रतिप्राप्तम्