"मीराबाई" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १५:
|footnotes=
}}
कृष्णभक्ता[[कृष्णः|श्रीकृष्ण]]भक्ता मीराबाई (१४९५-१५४७) [[कृष्णः|श्रीकृष्णं]] भर्तृरूपेण स्वीकृतवती आसीत् । सा स्वभावान् भजनमाध्यमेन [[कृष्णः|श्रीकृष्णं]] प्रति प्रादर्शयत् । प्रायः तस्याः भजनानि सख्यभावं निरुपयन्ति । 'मेवाड'राज्यस्य राजमहिषी मीराबाई सुखं, साम्राज्यं च त्यक्त्वा कृष्णगीतं गायन्ती साध्वीरूपं धृत्वा ग्रामं-ग्रामं भ्रमति स्म । तस्याः अधिकानि पद्यानि मारवाडीभाषायां, व्रजभाषायां च सन्ति । परन्तु सा गुजरातीभाषायाम् अपि रचनां कृतवती आसीत् ।
 
== जन्म परिवारश्च ==
 
मीरायाः कालः कदा ? इत्यस्मिन् विषये भिन्नानि मतानि सन्ति । मीरा १४९५ तमे वर्षे [[जोधपुरम्|जोधपुरे]] 'मेडता'ग्रामात् समीपे 'कुडकी' ग्रामे अजायत इति केषाञ्चन मतम्। । तस्याः जनकः रतनसिंहः रावराठोडवंशे उद्भूतः । तस्याः जनन्याः नाम वीरकुवरी आसीत् । यदा सा १५-१६ वर्षीया आसीत्, तदा तस्याः विवाहः 'मेवाड'प्रदेशस्य राजपुत्रेण (भोजराज) सह अभवत् । तस्याः वैवाहिकजीवनं ५-६ वर्षपर्यन्तं सुखेन व्यतितम् आसीत् । पश्चाद् तस्याः पतेः आकस्मिकमृत्युः अभूत् । पतेः मृत्योः पश्चाद् राजपरिवारेण सह मीरायाः विवादः उद्भूतः । तेन मीरा राजप्रासादं त्यक्तवती ।
 
== जीवनम् ==
 
श्रूयते यत् मीरा भक्तशिरोमणेः जीवगोस्वामिनः दर्शनार्थं [[वृन्दावनम्|वृन्दवनं]] गता । गोस्वामी स्त्रीदर्शनं न करोति स्म । अतः सः न्यवेदयत् यत् अहं स्त्रीदर्शनं परित्यक्तवान् अस्मि’ इति । मीरा प्रत्यवदत् -"[[वृन्दावनम्|वृन्दावने]] [[कृष्णः|श्रीकृष्णः]] एव पुरुषः वर्तते" इति । मीरायाः एतत् मार्मिकं वचनं श्रुत्वा जीवगोस्वामी सस्नेहं मीराम् अमिलत् । एतस्याः कथायाः उल्लेखः प्रियदासस्य पद्ये लभ्यते -‘वृन्दावन आई जीव गुसाई जू सो मिले झिली, तिया मुख देखबे का पन लै छुटायो’।
 
मीरायाः ननान्दा 'अजब कुंवरबा' पुष्टिमार्गीय वैष्णवसम्प्रदायम् अङ्गीकृत्य 'ब्रह्मसम्बन्ध'दीक्षां नीतवती आसीत् । परन्तु मीरा सम्प्रदायादिभ्यः दूरैव आसीत् । मीरा यदा [[वृन्दावनम्|वृन्दावने]] आसीत् तदा [[चैतन्यमहाप्रभुः|चैतन्यमहाप्रभोः ]] शिष्याभ्यां सह तस्याः मतभेदः उद्भूतः आसीत् । ततः सा व्रजभूमिं त्यक्त्वा [[द्वारका|द्वारकां]] प्रति प्रयाणं कृतवती ।
 
मीरायाः सौराष्ट्रगमने बहुनि कारणानि भवेयुः । प्रथमं कारणं तु श्रीकृष्णः द्वापरयुगे व्रजभूमितः द्वारकां प्रति गतः आसीदिति । द्वितीयं तस्याः गुरुः रैदासः गिरनारपर्वतसमीपे 'सरसई'ग्रामे निवसति स्म । तृतीयं तस्याः मातृपक्षराठोडवंशस्य ओखामण्डले राज्यम् आसीत् । इतोऽपि बहुनि कारणानि भवेयुः ।
"https://sa.wikipedia.org/wiki/मीराबाई" इत्यस्माद् प्रतिप्राप्तम्