"सोमनाथः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४९:
 
पुरा मुख्यमन्दिरस्य पुरोभागे २०० किलोभारयुता स्वर्णशृङ्खलायुता महाघण्टा आसीत् । कर्मकराणां कार्यसमयस्य परिवर्तनावसरे एतां घण्टां वादयन्ति स्म । मन्दिरस्य पूजादिकार्यनिर्वहणाय १००० ब्राह्मणाः नियुक्ताः आसन् । यात्रिकाणां क्षौरकार्यार्थम् एव ३०० नापिताः नियुक्ताः आसन् । देवालयस्य नित्यनैमित्तिक-गायनवादननिमित्तं ३०० गायकानां, ५०० कलाविदां च नियुक्तिः कृता आसीत् । मन्दिरस्य निर्वहणार्थं १०,०००ग्रामेभ्यः ३० कोटिमितानां रूप्यकाणां निधिः सङ्गृहीतः भवति स्म ।
[[चित्रम्:Somnath Temple 1869.jpg|thumb|right|200px|१८६९ तमे वर्षे सोमनाथः]]
चन्द्रस्थापितम् एतन्मन्दिरं बहुवारं ध्वस्तं जातमस्ति । परन्तु सर्वदा शिवभक्ताः एतस्य पुनर्निर्माणं कृतवन्तः । सर्वप्रथमं [[चन्द्रः]] इदं मन्दिरं स्वर्णेन निर्मापितवान् आसीत्, यस्य ध्वंसानन्तरं [[रावणः]] रजतेन मन्दिरस्य पुनर्निर्माणं कारितवान् आसीत्, अस्यापि ध्वंसानन्तरं [[विष्णुः]] चन्दनकाष्ठैः अस्य मन्दिरस्य पुनर्निर्माणं कारितवान् आसीत् । तदनन्तरमपि अस्य मन्दिरस्य ध्वंसः, पुनर्निर्माणश्च बहुवारं अभूत् ।
[[चित्रम्:OldSom.jpg|thumb|right|200px|ध्वस्तं सोमनाथमन्दिरम्]]
ई.स. ७२५ तमे वर्षे 'आरब'शासकः 'जूनायद' मन्दिरम् अलुण्ठत् अध्वंसत च । ततः ई.स. ८१५ तमे वर्षे नागभट्टनामकः कश्चन राजा पुनर्निर्माणं कारितवान् । पुनः ई.स. १०२६ तमे वर्षे 'महमद गजनी' नामकः यवनराजा मन्दिरम् अलुण्ठत् । एषोऽपि मन्दिरं ध्वस्तं कृतवान् परन्तु कथं चेद् असख्यकानां यात्रिकानां वधं कृत्य, अन्ते मन्दिरं अग्निसादकरोत् । पश्चाद् ई.स. १०२६-१०४२ मध्ये राजा भीमदेवः पुनर्निर्माणं कारितवान् । ई.स. १७०६ तमे वर्षे मोगल राजा औरङ्गजेब सोमनाथं अलुण्ठत् अध्वंसत च ।
 
आहत्य, सप्तदशवारम् अस्य मन्दिरस्य ध्वंसः कृत: आसीत् इति उल्लेखोऽस्ति । अधुना यद् मन्दिरमस्ति तत् महान् नेता लोहपुरुषश्च [[सरदार् वल्लभभाई पटेलः]] १९४७ तमे वर्षे नवम्बरमासस्य ३० दिनाङ्के सङ्कल्पितमवान् आसीत् । १९५१ तमे वर्षे मेमासस्य ११ दिनाङ्के राष्ट्रपतिः श्री[[राजेन्द्रप्रसादः]] अत्र प्राणप्रतिष्ठाम् अकरोत् । मूलस्थाने पुनः वैभवयुतं मन्दिरं शिरः उन्नीय स्थितम् । एतत् मन्दिरम् अद्य अत्यन्तं सुन्दरम् अपूर्वशिल्पकलामन्दिरं सञ्जातम् । प्राचीनस्य सोमनाथमन्दिरस्य अवशेषाः अट्टोपरि सङ्गृहीताः सन्ति । [[पालिताणा]]पत्तनस्य प्रसिद्धस्य शिल्पिनः प्रभुशङ्करसोमपुरस्य मार्गदर्शनेन एतत् मन्दिरं निर्मितम् आसीत् । [[महाराष्ट्रराज्यम्|महाराष्ट्रस्य]] सुप्रसिद्धवैदिकपण्डितस्य लक्षमणशास्त्रिजोशी इत्येतस्य पौरोहित्ये अत्र प्राणप्रतिष्ठा जाता । तस्य गुरुः श्रीकेवलानन्दसरस्वती अपि अस्मिन् कार्यक्रमे भागम् गृहीतवान् ।
[[चित्रम्:Charan.jpg|thumb|right|200px|श्रीप्रभासतीर्थः ]]
 
== समीपस्थानि मन्दिराणि ==
[[चित्रम्:Triveni-ghat.jpg|thumb|right|200px|त्रिवेणीसङ्गमः ]]
 
=== श्रीप्रभासतीर्थः ===
 
Line ६७ ⟶ ६८:
 
=== त्रिवेणीसङ्गमः ===
 
[[चित्रम्:Triveni-ghat.jpg|thumb|right|200px|]]
अत्रैव [[कपिलानदी]]-[[सरस्वतीनदी]]-[[हिरण्यानदी]] सङ्गमो भवति । एतत् स्नानं करणाय योग्यस्थलम् अस्ति । गुजरातसर्वकारः अस्य स्थलस्य जीर्णोद्धारं कृतवान् । ततः अस्याकर्षणं बहुवर्धितमस्ति ।
 
=== भालकातीर्थः ===
 
[[चित्रम्:Charan.jpg|thumb|right|200px|]]
एतदेव भगवतः [[कृष्णः|श्रीकृष्णस्य]] देहोत्सर्गस्थानम् । जरा नामकः कश्चन व्याधः हरिणोपरि शरेण प्रहारम् अकरोत् । परन्तु भ्रमेण ध्यानस्थस्य श्रीकृष्णस्य चरणे घातः अभवत् । व्याधः क्षमां अयाचत,[[कृष्णः|श्रीकृष्णः]] तं अक्षाम्यत् च । एषा लीली पिप्पलवृक्षाधः अभूत् । सः पिप्पलवृक्षः अधुनापि तत्रास्ति । तथा [[कृष्णः|श्रीकृष्णस्य]] हृदयशान्तिदायकं मन्दिरमप्यस्ति ।
 
"https://sa.wikipedia.org/wiki/सोमनाथः" इत्यस्माद् प्रतिप्राप्तम्