"स्वातन्त्र्यदिनोत्सवः (भारतम्)" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १४:
 
[[१९४७]]तमवर्षस्य आगष्टमासस्य १५ तमे दिनाङ्के [[भारतम्|भारतदेशः]] स्वतन्त्रः अभवत् । तत्पूर्वम् आङ्गलाः अत्र प्रशासनं कुर्वन्ति स्म । आगस्टमासस्य चतुर्दशदिनानन्तरं रात्रौ द्वादशवादने आङ्ग्लाः प्रशासनाधिकारं [[भारतम्|भारतं]] प्रति हस्तान्तरितं कृतवन्तः । तस्य स्मरणार्थमेव ”’१५ अगस्ट”’ स्वातन्त्र्योत्सवः इति आचर्यते । अस्मिन् दिने सार्वजनिकरुपेण राष्ट्रियपर्व आयोज्यते । [[भारतम्|भारतदेशे]] पूर्वं महम्मदीयाः विदेशात् आगत्य अत्र स्थित्वा प्रशासनं कृतवन्तः । अनन्तरम् आङ्गलाः(ब्रिटिषाः), फ्रान्सदेशीयाः(फ्रेञ्चाः) नेदरर्लेण्डदेशीयाः(डच्चाः) पुर्तुगालदेशीयाः (पोर्चगीसाः) च आगतवन्तः । सर्वे अत्र शासनं कृतवन्तः । तेषु प्रबलाः आङ्ग्लाः बहुकालपर्यन्तं प्रशासनाधिकारं प्राप्तवन्तः ।
भारतीयाः स्वातन्त्र्यप्रियाः । [[कर्णाटक]]राज्ये इदं प्रथमतया राज्ञी [[कित्तूरुचेन्नम्माकित्तूरु चेन्नम्मा]] आङ्लानां विरुद्धम् अप्रतिमं युद्धं कृतवती । [[झान्सीराज्ञी लक्ष्मीबायी]] [[अश्वः|अश्व]]मारुह्य युद्धं कृत्वा जनानपि प्रचोदितवती । देशे स्वाभिमानिनः राष्ट्रभक्ताः आङ्गलानां विरुद्धम् अनेकरीत्या क्रान्तिकारिमार्गेणापि कार्यं कृतवन्तः । [[भगतसिंहः]] [[मदनलालाधिङ्ग्रा]], [[चन्द्रशेखरआजादः]] [[मैलारमहादेवः]] [[सङ्गोळ्ळीरायण्णः]] [[नानासाहेबः]] इत्यादयः आङ्ग्लान् विरुध्य कार्यं कृतवन्तः । केचन स्वप्राणार्पणमपि कृतवन्तः । तेषां अन्तिमसमयेऽपि मनसि वचने च “भारत माता कि जय” ‘वन्दे मातरम्’ ध्वनिः प्रतिध्वनति स्म । [[भारतम्|भारतदेशं]] स्वतन्त्रं कर्तुम् आन्दोलनं प्रवृत्तम् आसीत् । [[राजगुरुः]] [[सुखदेवः]] [[भगतसिंहः]] इत्येतेषां मरणदण्डनं [[१९३१]] तमे वर्षे अभवत् । यदा [[१८८५]] तमे वर्षे काङ्ग्रेस् संस्था स्थापिता तदा सामूहिकरुपेण आन्दोलनं कर्तुं व्यवस्था अभवत् । भारतीयाः सैनिकाः [[१८५७]] तमे वर्षे आङ्ग्लान् विरुध्य सेनायाम् आन्दोलनं कृतवन्तः । तस्य सैनिकक्रान्तिः इति कथयन्ति । तस्मिन समये झान्सीराज्ञी लक्ष्मीबायी श्रीनानासाहेबः इत्यादयः आङ्गलान् विरुध्य युद्धमपि कृतवन्तः । एवम् स्वातन्त्र्याज्योतिः सततम् उद्दीपिता आसीत् । प्रथमं आङ्गलाः [[भारतम्|भारतं]] व्यापारार्थम् आगतवन्तः । [[भारतम्|भारते]] लभ्यमानं कार्पासम् एलालवङ्गादि-उपस्करवस्तूनि क्रीत्वा इङ्गलैण्डदेशं नयन्ति स्म । ततः उक्तमवस्त्रं निर्माय अत्र पुनः विक्रयणं कुर्वन्ति स्म । एवम् आङ्गलानाम् अतीवलाभः भवति स्म ।
[[भारतम्|भारते]] ५ शताधिकानि संस्थानानि आसन् । ते सस्थानिकाः वैरं साधयन्तिस्म । एतं आन्तरिकं वैरं उपयुज्य आङ्गलाः अत्र प्रशासनम् कर्तुं आरम्भं कृतवन्तः । १८५६ वर्षसमये समग्रे [[भारतम्|भारते]] आङ्गलानां प्रबलता आसीत् ।
[[File:JRHU - Main Building.jpg|200px|left|thumb|'''सर्वकारीयकार्यालये ध्वजवन्दनम्''']]
"https://sa.wikipedia.org/wiki/स्वातन्त्र्यदिनोत्सवः_(भारतम्)" इत्यस्माद् प्रतिप्राप्तम्