"स्वातन्त्र्यदिनोत्सवः (भारतम्)" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ११:
}}
 
[[File:Red fort new delhi with indian flag.jpg|200px|thumb|'''देहल्यां रक्तदुर्गे ध्वजविकासःध्वजारोहणम्''']]
 
[[१९४७]] तमस्य वर्षस्य आगष्टमासस्य १५ दिनाङ्के [[भारतम्|भारतदेशः]] स्वतन्त्रः अभवत् । अतः एतद्दिनं भारतस्वातन्त्र्यदिनोत्सवत्वेन (Independence Day (India)) आचर्यते । तत्पूर्वम् आङ्लेयाः अत्र प्रशासनं कुर्वन्ति स्म । आगस्टमासस्य चतुर्दशदिनाङ्के रात्रौ द्वादशवादने आङ्ग्लेयाः प्रशासनाधिकारं भारतं प्रति हस्तान्तरितं कृतवन्तः । तस्य स्मरणार्थमेव '''१५ अगस्ट'''दिने स्वातन्त्र्योत्सवः आचर्यते । अस्मिन् दिने सार्वजनिकरूपेण राष्ट्रियपर्व आयोज्यते । भारतदेशे पूर्वं महम्मदीयाः विदेशात् आगत्य अत्र स्थित्वा प्रशासनं कृतवन्तः । अनन्तरम् [[इङ्ग्लेण्डदेशः|आङ्ग्लेयाः]], [[फ्रान्सदेशः|फ्रान्सदेशीयाः]], [[नेदरलैंड्स|नेदरर्लेण्डदेशीयाः]], पुर्तुगालदेशीयाः च आगतवन्तः । सर्वे अत्र शासनं कृतवन्तः । तेषु प्रबलाः आङ्ग्लाःआङ्लेयाः बहुकालपर्यन्तं प्रशासनाधिकारं प्राप्तवन्तः । भारतीयाः स्वातन्त्र्यप्रियाः । [[कर्णाटक]]राज्ये इदं प्रथमतया राज्ञी [[कित्तूरु चेन्नम्मा]] आङ्लानां विरुद्धम् अप्रतिमं युद्धं कृतवती । [[झान्सीराज्ञी लक्ष्मीबायी]] [[अश्वः|अश्व]]मारुह्य युद्धं कृत्वा जनानपि प्रचोदितवती । देशे स्वाभिमानिनः राष्ट्रभक्ताः आङ्गलानां विरुद्धम् अनेकरीत्या क्रान्तिकारिमार्गेणापि कार्यं कृतवन्तः । [[भगतसिंहः]] [[मदनलालाधिङ्ग्रा]], [[चन्द्रशेखरआजादः]] [[मैलारमहादेवः]] [[सङ्गोळ्ळीरायण्णः]] [[नानासाहेबः]] इत्यादयः आङ्ग्लान् विरुध्य कार्यं कृतवन्तः । केचन स्वप्राणार्पणमपि कृतवन्तः । तेषां अन्तिमसमयेऽपि मनसि वचने च “भारत माता कि जय” ‘वन्दे मातरम्’ ध्वनिः प्रतिध्वनति स्म । [[भारतम्|भारतदेशं]] स्वतन्त्रं कर्तुम् आन्दोलनं प्रवृत्तम् आसीत् । [[राजगुरुः]] [[सुखदेवः]] [[भगतसिंहः]] इत्येतेषां मरणदण्डनं [[१९३१]] तमे वर्षे अभवत् । यदा [[१८८५]] तमे वर्षे काङ्ग्रेस् संस्था स्थापिता तदा सामूहिकरुपेण आन्दोलनं कर्तुं व्यवस्था अभवत् । भारतीयाः सैनिकाः [[१८५७]] तमे वर्षे आङ्ग्लान् विरुध्य सेनायाम् आन्दोलनं कृतवन्तः । तस्य सैनिकक्रान्तिः इति कथयन्ति । तस्मिन समये झान्सीराज्ञी लक्ष्मीबायी श्रीनानासाहेबः इत्यादयः आङ्गलान् विरुध्य युद्धमपि कृतवन्तः । एवम् स्वातन्त्र्याज्योतिःस्वातन्त्र्यज्योतिः सततम् उद्दीपिता आसीत् । प्रथमंप्रथमम् आङ्गलाःआङ्ग्लेयाः [[भारतम्|भारतं]] व्यापारार्थम् आगतवन्तः । [[भारतम्|भारते]] लभ्यमानं कार्पासम् एलालवङ्गादि-उपस्करवस्तूनि क्रीत्वा [[इङ्ग्लेण्डदेशः|इङ्गलैण्डदेशं]] नयन्ति स्म । ततः उक्तमवस्त्रं निर्माय अत्र पुनः विक्रयणं कुर्वन्ति स्म । एवम् आङ्गलानाम् अतीवलाभः भवति स्म ।
[[भारतम्|भारते]] ५ शताधिकानि संस्थानानि आसन् । ते सस्थानिकाः वैरं साधयन्तिस्म । एतं आन्तरिकं वैरं उपयुज्य आङ्गलाः अत्र प्रशासनम् कर्तुं आरम्भं कृतवन्तः । [[१८५६]] वर्षसमये समग्रे [[भारतम्|भारते]] आङ्गलानां प्रबलता आसीत् ।
[[File:JRHU - Main Building.jpg|200px|left|thumb|'''सर्वकारीयकार्यालये ध्वजवन्दनम्''']]
 
[[महाराष्ट्रम्|महाराष्ट्रे]] श्री[[गोपालकृष्णगोखले]] [[बालगङ्गाधरतिलकः]] इत्यादयः जनेषु जागृतिः कृतवन्तः । तिलक महोदयेन केसरी, माराठा, इति पत्रिके अपि प्रकाशिते । सः ‘स्वातन्त्र्यम‘स्वातन्त्र्यं मम जन्मसिद्धः अधिकारः’ इति घोषितवान् । महाराष्ट्रे गणेशोत्सवं राष्ट्रियपर्वरुपेण वैभवेन आचर्य तत्रैव देशभिमानम् जागरितवान् । बङ्गालप्रान्ते आङ्गलानां विरुद्धं अनेकान्दोलनानि आयोजितानि । यतः तत्रैव आङ्गलानां व्यवहाराः इदं प्रथमतया आरब्धाः आसन् । [[मोहनदासकरमचन्दगान्धिः]] [[दक्षिणआफ्रिका]]देशे वर्णद्वेषं दासतां च विरुध्य अहिंसात्मकं सत्याग्रहं कृत्वा [[१९१५]] तमे वर्षे [[भारतम्]] आगतवान् । काङ्ग्रेससंस्थायां प्रविष्टः गान्धिः स्वातन्त्र्यान्दोलने नवीनतां आनीतवान् । ततः यदा आङ्गलाः विधिनियमान् कृत्वा शोषणं कृतवन्तः तदा आन्दोलनेन विरोधः प्रकटितः अभवत् । आङ्गलाः लवणोत्यादने निषेधं कृतवन्तः तदा दाण्डी स्थले लवणसत्याग्रहः सञ्चालितः । [[१९२०]] तमे वर्षे पञ्जाब प्रदेशे जलियनवालाबाग प्रदेशे सहस्रशः जनाः आङ्गलैः मारिताः अभवन् अस्य [[जालियन् वालाबाग् हत्याकाण्डः]] इति नाम प्रसिद्धं अभवत् । एतस्य कार्यस्य विरोधेन देशे सर्वत्र आन्दोलनानि चालितानि अभवन् । यदा आङ्गलाः भूमिकरवर्धनं कृतवन्तः तदा [[गुजरात्]][[कर्णाटक]]-इत्यादिप्रदेशेषु [[करनिराकरणान्दोलनम्]] अभवत् । गुजरातप्रदेशे [[सरदारवल्लभभायीपटेलः]] कृषिकाणां नेता आसीत् । [[कर्णाटक|कर्णाटके]] [[सदाशिवरावकार्नाडः]] आन्दोलनम् कृतवान् । [[भारतीयराष्ट्रियकाङ्ग्रेस्|काङ्ग्रेस]] संस्थायां गान्धिः [[जवाहरलालनेहरुः]] [[राजेन्द्रप्रसादः]] इत्यादिनायकाः शान्तिमार्गप्रियाः आसन् । [[बिपिनचन्द्रपालः]] [[लालालजपतरायः]] [[सुभाषचन्‍द्रबोसः|सुभाषचन्द्रबोस्]] इत्यादयः उग्रमार्गप्रियाः आसन् । सुभाषचन्द्रबोस् इत्यादयः उग्रमार्गप्रियाः आसन् । [[सुभाषचन्द्रबोसः]] विदेशे स्थित्वा [[अजाद हिन्द फौज]] इति सेनां कृत्वा स्वातन्त्र्यप्राप्तये प्रयत्नं कृतवान् । आङ्ग्लानां शासनं विरुद्ध्य [[असहकारान्दोलनम्]] अभवत् । तदा [[भारतम्|भारते]] प्रान्तीयसर्वकारस्य रचनाऽभवत् । भारतीयनायकाः अपि प्रान्तीयसर्वकारे भागं स्वीकृतवन्तः। [[१९३९]] तमे वर्षे द्वितीय- विश्वयुद्धानन्तरं [[भारतम्|भारते]] आङ्ग्लान् उच्चाटयितुं ‘भारतं त्यजत [[चलेजाव् आन्दोलनम्]] अभवत् । [[ध्वजसत्याग्रहः]], [[होमरुल् आन्दोलनम्]] [[वङ्गभङ्गान्दोलनम्]] [[खिलाफतान्दोलनम्]] इत्यादिषु सहस्रशः जनाः च कारागृहवासम् अनुभुतवन्तः । आङ्ग्लसर्वकारेण [[लण्डन्]] नगरेऽपि चर्चा कृता । अन्ततः [[१९४७]] तमे वर्षे आङ्गलाः [[भारतम्|भारतं]] त्यक्त्वा गतवन्तः । स्वातन्त्र्याप्राप्तेः अनन्तरं [[भारतम्|भारतदेशे]] अनेकाः समस्याः कष्टदायिकाः अभवन् । अभिवृद्धिकार्यार्थं पञ्चवार्षिकी योजना आरब्धा । कृषि-उद्योग-आरोग्य-शिक्षा-यन्त्रागारः इत्यादिषु क्षेत्रेषु कार्यम् आरब्धम । ग्रामोध्दारः महिलाशिक्षा निरुद्योगपरिहारः, आहारोत्पादनं विद्युदुत्पादनं जलबन्धानां निर्माणम् इत्यादीनि उत्तमकार्याणि कृतानि । [[भारतम्|भारतदेशे]] जनसख्या अधिका अस्ति अतः समस्याः अधिकाः भवन्ति । संविधानरीत्या सर्वेषां समानावसरः दत्तः अस्ति । तथापि जना दुर्बलाः दरिद्राः दुःखिताः सन्ति । सर्वेषां कृते उत्तमा योजना कर्तव्या अस्ति । स्वातन्त्र्योत्सवस्य प्रमुखः कर्यक्रमः [[देहली]]नगरे रक्तदुर्गे ([[लालकिला]]) प्रधानमन्त्रिद्वारा ध्वजारोहणेन आरब्धः भवति । अनन्तरं प्रधानमन्त्री सर्वकारस्य कार्याणां योजनां प्रकटयन् सर्वेभ्यः शुभाशयं यच्छति सर्वेषु राज्येषु राजधानीषु मुख्यमन्त्रिणः ध्वजारोहणं कृत्वा जनेभ्यः शुभाशयं यच्छन्ति । सर्वत्र संस्थासु विद्यालयेषु कार्यालयेषु ध्वजारोहणं राष्ट्रगीतं च भवति ।
विद्यालयेषु बालानां विविधस्पर्धाः आयोज्यन्ते। भाषणस्पर्धा, देशभक्तिगीतं समूहनृत्यं , नाटकम् नर्तनं पादयात्रा, पथसञ्चलनम्, प्रदर्शिनीयात्रा, इत्यादि कार्याणि कुर्वन्ति । सर्वत्र दिनेऽस्मिन् स्वातन्त्र्यवीराणां स्मरणं, आत्मार्पणं कृतवतां संस्मरणं वीरगाथाश्रावणं च प्रतिध्वनति ।
प्रातः काले एव सर्वत्र कार्यक्रमाः प्रचलन्ति । भारतीयत्रिवर्णध्वजः सर्वत्र विराजते । मध्याह्नेऽपि सांस्कृतिककार्यक्रमाः [[सङ्गीतम्|सङ्गीतं]] नाटकानि आयोज्यन्ते । स्वातन्त्र्योत्सवः कश्चन राष्ट्रियपर्व अस्ति । अस्मिन् सर्वे भारतीयाः सम्भूय भागं स्वीकुर्वन्ति। स्वातन्त्र्योत्सवसमारम्भेषु भारतस्य स्थितिविषये अभिवृद्धिकार्यविषये चर्चा भवति, चिन्तनं कुर्वन्ति । स्वातन्त्र्यप्राप्तिः अतिकष्टेन अभवत् । तस्याः संरक्षणं देशोध्दारकार्यद्वारा कर्तव्यम् अस्ति । राष्ट्रं विदेशीयैः तथा आन्तरिकैः भयोत्पादकैः रक्षितुं सर्वे सन्नध्दाः भवन्तु। स्व स्व कार्यं सम्यक् कृत्वा देशभक्त्या स्वार्थं त्यक्त्वा च तिष्ठन्तु । तत्कृते सङ्कल्पं कुर्वन्तु इति अस्मिन् समये गुरवः मार्गदर्शकाः जनेभ्यः उपदिशन्ति ।
"https://sa.wikipedia.org/wiki/स्वातन्त्र्यदिनोत्सवः_(भारतम्)" इत्यस्माद् प्रतिप्राप्तम्