"मास्कोनगरम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
'''मास्कोनगरं'''(आंग्ल-Moscow, रूश-Москва́ ) [[रशिया|रशियादेशस्य]] राजधानी तथा यूरोपखण्डस्य सर्वबृहन्नगरम् ।
 
{{Infobox settlement
पङ्क्तिः ६७:
| footnotes =
}}
==वैशिष्ट्यम्==
'''मास्को''' [[रशिया]] देशस्य राजनैतिक-धार्मिक-आर्थिककेन्द्रम् अस्ति । नगरमिदं [[यूरोपखण्डः|यूरोपखण्डस्य]] सर्वबृहन्नगरम् । प्राचीनरशियासाम्राज्यस्य अर्थात् संयुक्त-सोवियेत् राष्ट्रपुञ्जस्य अपि मास्को राजधानी आसीत् । 'मोस्कवा'नदीतटे नगरमिदम् अवस्थितम् । २००७ तमे वर्षे मास्को पृथिव्याः आढ्यनगरेषु प्रथममिति घोषितम् आसीत् ।
 
==इतिहासः==
*'''मास्को''' इति अविधा 'मोस्कवा'नद्याः नामनुसृत्य आगता । १२३७ तमे वर्षे 'मंगोल'जनाः मास्कोनगरम् आक्रमणं कृतवन्तः । तदा समग्रनगरम् अग्निदग्धासीत् बहुप्राणहानिरपि सङ्घटितासीत् । अनन्तरवर्तीकाले विद्धंसमास्कोनगरस्य पुनर्निमाणं तथा विकासः अभवत् । १३२३ तमे वर्षे व्लादिमीर - सुज्दाल इति राजवंशस्य शासनकाले मास्को प्रथमवारं राजधानीरूपेण घोषितासीत् । मास्कोनगरस्य नैसर्गिकपरिमण्डलानि अतीवाऽकर्षकानि आसन् । एतस्मात् अस्मिन्नगरं प्रति बहुजनाः आगत्य वसतिस्थापनं कृतवन्तः ।
* १६५४-५६ तमवर्षाभ्यन्तरे महामारी(प्लेग)रोगसंक्रमणेन मास्कोनगरस्य जनसंख्या अर्धम् अभवत् । तथा समग्र[[रशिया]]देशे अपि बहुजनाः मृतवन्तः ।
* १७१२ तमे वर्षे सैन्ट पीटर्सबर्ग नगरं [[रशिया]]देशस्य राजधानी अभवत् । बाल्टिकनद्याः तटे स्थितं नगरमिदं पीटर महोदयेन निर्मितम् ।
* १७७१ तमे वर्षे पुनः प्लेगरोगसंक्रमणेन प्रायः १,००,००० जनाः मृतवन्तः । १९०५ तमे वर्षे अलेक्जेंडर अद्रिनोव मास्कोनगरस्य प्रथमपौरशासनाधिकारिकः अभूत् । १९१३ तमे वर्षे [[रशिया]]देशे आर्थिकक्षेत्रे क्रान्तिः अभवत् । मास्कोनगरस्य प्रभूतः आर्थिकविकासः अभवत् । अनन्तरं मास्कोनगरम् सोवियत् राष्ट्रपुञ्जस्य राजधानी अभूत् ।
 
==आर्थिकव्यवस्था==
"https://sa.wikipedia.org/wiki/मास्कोनगरम्" इत्यस्माद् प्रतिप्राप्तम्