"मनुस्मृतिः" इत्यस्य संस्करणे भेदः

No edit summary
(प्रवर्तमानम्)
पङ्क्तिः १:
{{हिन्दूधर्मः}}
:स्मृतिग्रन्थेषु मनुस्मृतिः प्राचीनतमा भवति । महर्षिमनुद्वारा रचितमेष ग्रन्थः मानवधर्मं विवृणोति । एतस्मात् एतस्याः अन्यतमानि नामानि ’मनुसंहिता’ ’मानवधर्मशास्त्रम्’ ’मानवधर्मशास्त्रं’ आदयः अपि सन्ति । श्रुतिग्रन्थाः वेदाः । तान् अधिकृत्य रचिताः ग्रन्थाः स्मृतयः । तेषां विषयवस्तु वैयक्तिकी सामाजिका च व्यवस्था, कर्तव्याणि, व्यवहारनियमानि, निषेद्धव्यानि च अस्ति । एष एव धर्मोऽस्ति खलु । मनुः स्वयं वदति – “धर्मशास्त्रं तु वै स्मृतिः (२।१०)” । अन्यत्र सः वदति - “वेदोऽखिलो धर्ममूलम् (२।६)”, “धर्मज्ञिज्ञासमानां प्रमाणं परमं श्रुतिः (२।१३)” । अतो मनुस्मृतिः पूर्णतया वेदाधारितो विधिविधानात्मको ग्रन्थोऽस्ति । मानवसमाजस्य व्यवस्थिता परिकल्पना विश्वग्रन्थेषु अत्र प्रथमतया दृश्यते । तस्माद् मनुमहर्षिः मानवसभ्यतायाः प्रतिष्ठाता इति मान्यता अस्ति । मनुः स्वयं वदति यत् प्रथमतया संस्कृतिः भारतात् बहिः प्रसारिता –
:'''एतद्देशप्रसूतस्य सकाशादग्रजन्मनः ।'''
:'''स्वं स्वं चरित्रं शिक्षेरन् पृथिव्यां सर्वमानवाः ॥ 2|20 ||'''
:सभ्यतायाः मूलेऽस्ति सुदृढसमाजः । एतादृशः समाजः कथं भवेदित्येतस्य परिकल्पना मनुना प्रथमतया कृता । समाजव्यवस्थायां चत्वारः वर्णाः विहिताः – ज्ञानवर्धने ज्ञानरक्षणे रताः ब्राह्मणाः, राष्ट्ररक्षणे नियमस्थापने क्षत्रियाः, वाणिज्ये पशुपालने कृषिकार्ये वैश्याः, सेवाकार्ये शूद्राः ।
:समाजस्य मूले व्यक्तिरस्ति । वैयक्तिकां व्यवस्थां स एवं निर्दिशति – आयोः चत्वारः भागाः भवेयुः – ब्रह्मचर्याश्रमः, गृहस्थाश्रमः, वानप्रस्थाश्रमः, संन्यासाश्रमश्च । प्रतिवर्णस्य प्रत्याश्रमस्य च स धर्मस्य विधानं कृतवान् । मानवस्य चत्वारः लक्ष्याः सन्ति – धर्मोऽर्थः, काम, मोक्षश्च । तेषां स्वरूपं किं, तान् प्रापणाय किं किं कर्तव्यं, किं किं वर्जनीयम्, आपदि कः धर्मः – एतत् सर्वं तेन ग्रन्थे उपदिष्टम् । धर्मेण सम्बद्धः केचन अन्याः विषयाः अपि वर्णिताः, यथा – मूलप्रकृतया सृष्टेः सृजनक्रमः, गुरोः लक्षणानि, धूर्तस्य लक्षणानि, विवाहप्रकाराः इत्यादयः ।
 
==वैशिष्ट्यम्==
"https://sa.wikipedia.org/wiki/मनुस्मृतिः" इत्यस्माद् प्रतिप्राप्तम्