"मनुस्मृतिः" इत्यस्य संस्करणे भेदः

(प्रवर्तमानम्)
No edit summary
पङ्क्तिः ५:
सभ्यतायाः मूलेऽस्ति सुदृढसमाजः । एतादृशः समाजः कथं भवेदित्येतस्य परिकल्पना मनुना प्रथमतया कृता । समाजव्यवस्थायां चत्वारः वर्णाः विहिताः – ज्ञानवर्धने ज्ञानरक्षणे रताः ब्राह्मणाः, राष्ट्ररक्षणे नियमस्थापने क्षत्रियाः, वाणिज्ये पशुपालने कृषिकार्ये वैश्याः, सेवाकार्ये शूद्राः ।
समाजस्य मूले व्यक्तिरस्ति । वैयक्तिकां व्यवस्थां स एवं निर्दिशति – आयोः चत्वारः भागाः भवेयुः – ब्रह्मचर्याश्रमः, गृहस्थाश्रमः, वानप्रस्थाश्रमः, संन्यासाश्रमश्च । प्रतिवर्णस्य प्रत्याश्रमस्य च स धर्मस्य विधानं कृतवान् । मानवस्य चत्वारः लक्ष्याः सन्ति – धर्मोऽर्थः, काम, मोक्षश्च । तेषां स्वरूपं किं, तान् प्रापणाय किं किं कर्तव्यं, किं किं वर्जनीयम्, आपदि कः धर्मः – एतत् सर्वं तेन ग्रन्थे उपदिष्टम् । धर्मेण सम्बद्धः केचन अन्याः विषयाः अपि वर्णिताः, यथा – मूलप्रकृतया सृष्टेः सृजनक्रमः, गुरोः लक्षणानि, धूर्तस्य लक्षणानि, विवाहप्रकाराः इत्यादयः ।
 
==भारतवर्षे मनुस्मृतेर्माहात्म्यम्==
स्मृतेः वेदानुकूलता, प्राचीनता च तस्याः प्रसिद्धेः कारणे । मनोः कालं वैदिककालं यतो हि ब्राह्मणग्रन्थेषु अपि तस्य उल्लेखः प्राप्तः – “मनुर्वै यत्किञ्चावदत् तद् भैषजम् (तैत्तिरीय-संहिता २।२।१०।२, ३।१।९।४; ताण्ड्य-ब्राह्मणम् २३।१६।७) ।” मनुस्मृतिकृते तत्समये कियान् आदरभावः वर्तते, एतद् वचनं तं प्रकटयति; स्मृतेः वचनं पूर्णतया प्रामाणिकमस्ति, वेदानुकूलमस्ति, एतद्दर्शयति ।
निरुक्तशास्त्रे दायभागविषये यास्कः मनुस्मृतेः उल्लेखं कृतवान् । वाल्मीकिरचिते रामायणे, रामेण वालिवधप्रसङ्गे, रामः स्वस्य कार्यस्य धार्मिकता मनोर्वचनेन सिद्धयति । वाल्मीकिः लिखितवान् –
:'''पुराणं मानवो धर्मः सांगोपांगचिकित्सकः ।'''
:'''आज्ञासिद्धानि चत्वारि, न हन्तव्यानि हेतुभिः ॥ महाभारतम् ॥'''
अर्थात् मनोर्वचनं दुष्टहेतुभिरकाट्यमस्ति । आचार्यो बृहस्पतिः स्वस्य स्मृतौ स्मृतिग्रन्थेषु मनुस्मृत्यै सर्वोच्चं स्थानं प्रदत्तवान् –
:'''वेदार्थोपनिबद्धत्वात् प्राधान्यं हि मनोः स्मृतम् ।'''
:'''मन्वर्थविपरीता तु या स्मृतिः सा न शस्यते ॥'''
:'''तावच्छास्त्राणि शोभन्ते तर्कव्याकरणानि च ।'''
:'''धर्मार्थमोक्षोपदेष्टा मनुर्यावन्न दृश्यते ॥ बृह०स्मृतिः, संस्कारखण्डः, १३-१४ ॥'''
 
बौद्धकविना अश्वघोषेण (प्रथमशताब्दौ) स्वस्य वज्रकोपनिषद् नाम्ना कृतौ स्वस्य पक्षप्रतिष्ठापनाय मनोः श्लोकाः उद्धृताः । विश्वरूपेण स्वस्य यजुर्वेदभाष्ये, याज्ञवल्क्य-स्मृति-भाष्ये च अनेका श्लोका उद्धृताः । विज्ञानेश्वरेण याज्ञवल्क्य-स्मृति-पोषणाय मनुस्मृतेर्बहवः श्लोका उद्धृताः । शङ्कराचार्येण वेदान्तसूत्रभाष्ये मनुस्मृतेः अनेकाः श्लोकाः उल्लिखिताः । शबरस्वामेः जैमिनीय-पूर्वमीमांसा-भाष्ये (५०० ई०) अपि एवमेव प्राप्तः । गौतमः, वसिष्ठः, आपस्तम्बः, आश्वलायनः, जैमिनिः, बौधायनः, आदयः कल्पादिसूत्रकाराः स्वस्य ग्रन्थेषु मनुं अतीवसम्मानेन स्मृतवन्तः, स्वस्य ग्रन्थस्य गौरववर्धनाय, प्रामाणिकताप्रदर्शनाय च तस्य उल्लेखं कृतवन्तः ।
 
५७१ ई०-संवत्सरस्य एकः शिलालेखः प्राप्तः । तत्र वलभेः राज्ञः धारसेनस्य गुणगानमस्ति । सः मनोः विधयः अक्षरशः पालयति, अत एव महान् राजा अस्ति इत्येवं स्तुतिरस्ति ।
 
अन्येषां स्मृतिग्रन्थानां नीतिग्रन्थानां च मूले मनुस्मृतिरेव दृश्यते, यथा - याज्ञवल्क्यस्मृतिश्चाणक्यस्य अर्थशास्त्रं नीतिशास्त्रं च ।
 
एवं भारतवर्षे बहुप्राचीनकालात् धर्मस्य निर्णयः मनुस्मृत्या अभवत् । परन्तु, मध्यकाले तस्मिन् बहवः प्रक्षेपाः अन्तर्गताः । शूद्रः-स्त्री-आदि-विषये अनेकाः निरादरभावगताः श्लोकाः, प्राचीनेभिः सम्मानभावपूर्णेभिः वेदानुकूलेभिः श्लोकेभिः सह, वर्तते । एतस्मात् सम्प्रति एतस्य ग्रन्थस्य महत्त्वं किञ्चित् न्यूनमस्ति ।
 
मनुस्मृतौ बहूनि प्रक्षेपाः सन्तीति कुल्लूकभट्टादिना भाष्यकारैः स्वीकृताः । बुह्लर, जौली, आदयः पाश्चात्य विद्वांसः च तस्मिन् दुष्टाः श्लोकाः सन्तीति निर्दिष्टवान् । एकोनविंशति-शताब्देः परार्द्धे आर्यसमाजस्य प्रवर्तकः स्वामिदयानन्दसरस्वतिः मनुस्मृतेः पुनरुद्धारं कृतवान् । सः प्रक्षेपणं निर्दिष्टवान्, परन्तु अन्येषां श्लोकानां धर्मविषये प्रामाणिकता उद्घोषितवान् । स्वस्य ग्रन्थेषु, वेदान् मनुस्मृतिं च अवलम्ब्य, सः धर्मं उपदिष्टवान् । विंशति-शताब्दौ यत्र अम्बेडकरस्तस्याः शूद्रविरोधित्वं निन्दितवान्, अन्यत्र ए०सी० भक्तिवेदान्तस्वामी, एस० राधाकृष्णन्, पाण्डुरङ्ग शास्त्री अठावले, ऐनी बिसैन्ट, फ्राइड्रिक् नीश आदि महानुभावाः तस्याः भूरि प्रशंसां कृतवान् ।
 
अद्यापि पठनपाठने, मनुस्मृतेः प्राधान्यं वर्तते । भारतस्य संविधानं, ’हिन्दू कोड बिल’ च एतामाश्रिते स्तः । सामाजिक्यां, राजनैतिक्यां, नैयायिकायां च व्यवस्थायां मनोः प्रभावो महत्त्वं च वर्तते ।
 
 
==वैशिष्ट्यम्==
"https://sa.wikipedia.org/wiki/मनुस्मृतिः" इत्यस्माद् प्रतिप्राप्तम्