"मनुस्मृतिः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २९:
अद्यापि पठनपाठने, मनुस्मृतेः प्राधान्यं वर्तते । भारतस्य संविधानं, ’हिन्दू कोड बिल’ च एतामाश्रिते स्तः । सामाजिक्यां, राजनैतिक्यां, नैयायिकायां च व्यवस्थायां मनोः प्रभावो महत्त्वं च वर्तते ।
 
==विदेशेषु प्रभावः==
केवलं भारते न, अपितु अन्यानां देशानां विधिप्रणयनप्रसङ्गे भगवतो मनुमहर्षेः स्थानमुपरिष्टाद् दृश्यते । कतिपयानां देशानां विधिशास्त्रेषु मनुसंहितायाः केचनांशा यथावत् समुद्धृता दृश्यन्ते । यथा - बालिदेशस्य राष्ट्रनियमाः मनुस्मृतिमधिकृत्य वर्तन्ते । फिलिपीन्सदेशे लोकसभायाः प्राङ्गणे मनोः प्रतिमा विराजते । चम्पाद्वीपे (वियट्नाम्देशे) ’प्रसात्-कोम्पने’ राज्ञः यशोवर्मनः एकस्मिन् शिलालेखे मनोः अधोलिखितः श्लोकः उत्कीर्णः वर्तते –
:'''वित्तं बन्धुर्वयः कर्म विद्या भवति पञ्चमी ।'''
:'''एतानि मान्यस्थानानि गरीयो यद्यदुत्तरम् ॥ २।१३६ ॥'''
 
एवमेव वर्मा, श्रीलङ्का, कम्पूचीया आदि दक्षिणपूर्वेषु राष्ट्रेषु अपि शिलालेखेषु ग्रन्थेषु वा मनोः नाम आदरेण स्मृतम् । मनोः प्रजा वयमिति कम्पूचीयादेशवासिनः मन्यन्ते । थाइलैण्ड्देशे मान्यता अस्ति यत् ते रामस्य वंशजाः सन्ति । रामः मनोः कुले बभूव । नेपालदेशस्य संविधानं मनुस्मृतिमनुकरोति ।
 
एतेन स्पष्टः भवति यत् मनोः वचनं भारतदेशे एव न, परन्तु दूरदेशेषु अपि बहुसम्मानितम् आसीत् ।
 
==प्रणेता कालः च==
एतस्य ग्रन्थस्य प्रणेता ’मनुर्’ अस्ति, एषः विषयः तु निर्विवादोऽस्ति, यतः स्मृतौ एव लिखितमस्ति – '''मनुम् ... अभिगम्य महर्षयः ... वचनमब्रुवन् ।।१।१॥''' चतुर्दशेषु मनुष्षु एष मनुः कः - एतस्मिन् विषये किञ्चित् विवादोऽस्ति – सः स्वायम्भुवमनुः अस्ति, वैवस्वतमनुः वा । स्वायम्भुवमनुरस्ति इति स्मृतौ लिखितम् – '''स्वायम्भुवस्यास्य मनोः ... ॥१।६१॥''' प्रायः सर्वे उल्लेखनानि अपि एतदेव वदन्ति । परन्तु केषुचन स्थानेषु वैवस्वतमनुर्भवितुमर्हतीति सम्भाव्यते । यथा – मनुस्मृतौ एव पठितम् – '''... विवस्वत् सुत एव च ॥१।६२॥''' कथं सप्तमस्य विवस्वत्मनोः उल्लेखः यदि स तत्समये न अभवत् ? कौटिल्यस्यार्थशास्त्रे राज्ञः वैवस्वत्मनोः उल्लेखो वर्तते । परन्तु, अग्रे उक्ता कर-व्यवस्था मनुस्मृति-प्रतिपादिता वर्तते । अत एव स्मृतिः वैवस्वत्मनुना प्रोक्ता इति निष्कर्षः प्रसज्यते । मनुस्मृति-विशेषज्ञः प्रो० सुरेन्द्रकुमारः स्वस्य ’विशुद्ध-मनुस्मृति-’पुस्तके[१] सर्वान् प्रमाणान् संतोल्य निर्णीतवान् यत् स्मृतेः प्रणेता स्वायम्भुवमनुरेवास्तीति । परन्तु स्मृतेः संकलनं तु तस्य शिष्यः भृगु कृतवान् इति प्रतीयते – '''...तेनोक्तो महर्षिमनुना भृगुः तानब्रवीतृषीन् ...॥१।६०॥'''
 
कालविषये यथा पूर्वमुक्तं यत् मनुस्मृतेः कालः वैदिककालः । निरुक्ते श्लोकोऽस्ति –
:'''अविशेषेण पुत्राणां दायो भवति धर्मतः ।'''
:'''मिथुनानां विसर्गादौ मनुः स्वायम्भुवोऽब्रवीत् ॥ निरुक्तम् ३।४ ॥'''
 
अतः मनुः आदिसृष्टौ बभूवेति निश्चीयते । अन्यैः प्रमाणैः अपि एष एव निष्कर्षः समागच्छति । सः राजर्षि बभूव इत्यपि प्रसिद्धोऽस्ति ।
 
==वैशिष्ट्यम्==
मनुस्मृति इदानीमपि भारतीय-संस्कृतिं निर्धारयति । धर्मस्य परिभाषा अत्र सर्वप्रथमा दत्ता । एते धर्मा इदानीमपि सर्वे जनाः, ज्ञात्वाज्ञात्वा वा, स्वीकुर्वन्ति । भारतीयानां शीलं, न्यायदृष्टिं च तया प्रदत्ता । भारतवर्षे एव न, अपितु समग्रे सभ्ये विश्वे मनोः धर्मस्य न्यायपद्धतेः च – प्रकृष्टरूपेण अपभ्रंशरूपेण वा - पालनं भवति । सत्यमेव मनुः मानवजातेः प्रथमधर्मप्रवर्तकः । संक्षेपेण अधस्तात् स्मृतेः कानिचन विशिष्टानि अङ्गानि निर्दिष्टानि ।
समाजे मनुस्मृतेः माहात्म्यस्य दृष्ट्या मनुसंहितामपि मानवधर्मसूत्रमिति कथनं नैव युक्तम् । यतो हि धर्मसूत्रस्य शैली सूत्रात्मिका, स्मृतेश्च रीतिः शलोकात्मिका भवति । स्मृतीनां विषयविवेचनं क्रमबद्धं शृङ्खलितञ्च । सूत्राणाञ्च विषयविन्यासो विपर्यस्तो दृश्यते । एक एको विषयो पौनः पुन्येन विचार्यते । अतः शैलीभेदेन स्मृतिसाहित्यसूत्रसाहित्ययोः मध्ये भेदो विद्यते एव । यद्यपि द्वयोः साहित्ययोः सृष्टिः (ख्री० पू० तृतीयशतकात् पञ्चमशतकमध्ये ) तथापि स्मृतिसाहित्यस्य प्राचीनता सूत्रसाहित्यस्य अर्वाचीनता च स्वीकार्या एवास्ति । किञ्च मानवधर्मसूत्रं मनुस्मृतिरूपेण कालान्तरेण परिणतं विषयसाम्यादिति केचन वदन्ति । किन्तु तन्न समीचीनम्, मानवधर्मसूत्रस्य अस्तित्वाभावात् । मनुस्मृतेः वैदिकस्मृतित्वेन प्रसिद्धेः वेदार्थानुमापकत्वेन वेदार्थोपनिबद्धत्वात् मनुस्मृतेः प्राधान्यं प्रत्यपादि । यथोक्तं बृहस्पतिना -
 
:'''वेदार्थोपनिबद्धत्वात् प्राधान्यं हि मनोः स्मृतम् ।'''
* सृष्ट्यादितः मनुः ब्रह्माण्डरचनां वर्णितवान् । आरम्भे, ’तम’-रूपी सत्त्व-रजस्-तमो-गुणी मूलप्रकृतिः आसीत् । तस्याः ’महत्’-नामकः प्रथमः अतिसूक्ष्मः विकारः उत्पद्यते; महतः अहङ्कारः, अहङ्कारात् त्रिगुणात्मकाः पञ्च तन्मात्राणि – शब्दः, स्पर्शः, रूपं, रसः, गन्धः च, दशेन्द्रियाणि, एकं मनश्च उत्पद्यन्ते ; तन्मात्रेभ्य आकाशो, वायुरग्निर्जलं, पृथिवी च निष्पद्यन्ते । एतेषां ब्रह्माण्डस्य सर्वाणि भूतानि निर्मितानि ।
:'''मन्वर्थविपरीता या सा स्मृतिर्नैव शस्यते ॥'''
 
पुनश्च यद् वै मनुरवदत् तद् भेषजम् इति स्मृति वचनात् मनुस्मृतेः प्राधान्यं प्राशस्त्यं प्राचीनत्वञ्च विद्यत इति नास्ति काचन विप्रतिपत्तिः । मनुश्च स्वायम्भुवमनुरिति निश्चीयते । भगवन्नारायणात प्राप्तं लक्षश्लोकात्मकं धर्मशास्त्रं ब्रह्मा स्वायम्भुवे मनवे प्राह । मनुः संक्षिप्य भृगवे प्राह । भृगुश्च अन्येभ्य ऋषिभ्य एवं परम्परया मनुस्मृतिरियं जगति प्रतिष्ठा जाता सम्प्रति समुपलब्धायां मनुस्मृतौ २३८४ श्लोकाः विद्यन्ते । न केवलं भारते अपि तु बहुषु राष्ट्रेष्वपि मनुस्मृतेः प्रचारप्रसारो वर्तते ।
* भारतस्य प्राचीनं नाम ’आर्यावर्तोऽ’-त्र प्रथमतया दृश्यते –
:'''आसमुद्रात्तु वै पूर्वादासमुद्रात्तु पश्चिमात् ।'''
:'''तयोरेवान्तरं गिर्योरार्यावर्तं विदुर्बुधाः ॥ १।१४१ ॥'''
एवं हिमालयस्य दक्षिणे सम्पूर्णं भूखण्डम् ’आर्यावर्त’-पदेन निर्दिष्टः आसीत् ।
 
* मनुस्मृतौ वर्णितस्य धर्मस्य विशेषता अस्ति यत् एष न तु हिन्दुधर्मो राष्ट्रधर्मोऽन्यत् वा कोऽपि सीमितो धर्मोऽस्ति, परन्तु मानवमात्रकृते सार्वजनिकः, सार्वकालिकः, सार्वभौमश्चास्ति । संक्षेपेण मनुना दशलक्षणात्मको धर्म एवं प्रोक्तः –
:'''धृतिः क्षमा दमोऽस्तेयं शौचमिन्द्रियनिग्रहः ।"
:'''धीर्विद्या सत्यमक्रोधो दशकं धर्मलक्षणम् ॥ मनुस्मृतिः ६।९२ ॥'''
सर्वधर्माविरोधिनः एतानि लक्षणानि खलु !
 
* धर्मस्य मूलं वेदाः सन्तीति स घोषितवान् –
:'''वेदोऽखिलो धर्ममूलं स्मृतिशीले च तद्विदाम् ।'''
:'''आचारश्चैव साधूनामात्मस्तुष्टिरेव च ॥ १।१२५ ॥'''
:'''चातुर्वर्ण्यं त्रयो लोकास्चत्वारश्चाश्रमाः पृथक् ।'''
:'''भूतं भव्यं भविष्यं च सर्वं वेदात् प्रसिद्ध्यति ॥ १२।९७ ॥'''
 
वेदानामपौरुषेयत्वं च मनुरुद्घोषितवान् –
:'''सर्वेषां तु स नामानि कर्माणि च पृथक् पृथक् ।'''
:'''वेदशब्देभ्य एवादौ पृथक्संस्थाश्च निर्ममे ॥ १।२१ ॥'''
 
अत्र ’सः’-पदेन १।६-तमे सूत्रे वर्णितः स्वयम्भूः भगवान् उद्दिष्टः ।
 
* आचारव्यवहारविधिनिषेधादीनां व्यवस्थानां तुलनात्मकधिया मनुस्मृतिरद्वितीयानुपमा चास्ति । प्राचीनकालतः भारतीयानाम् उद्दात्तविचारा अत्र प्रतिबिम्बिताः सन्ति । मनुष्येषु अन्यजन्तुषु भिन्नता वर्तते इतेतस्मात् मनुष्यकृते षोडशसंस्काराः विहिताः येन सः पूतः, हृष्टः, पुष्टः, धीमान् च भवति । ते सन्ति – गर्भाधानं, पुंसवनं, सीमन्तोन्नयनं, जातकर्म, नामकरणं, निष्क्रमणं, अन्नप्राशनं, मुण्डनं चूडाकर्म वा, उपनयनं, वेदारम्भः, केशान्तः, समावर्तनं, विवाहः, वानप्रस्थः, संन्यासः, अन्त्येष्टिः । तेषां विषये यः धर्मः वक्तव्यः सः मनुस्मृत्यौ उप्लभ्यते ।
 
* प्रायः मध्यकाले बहुप्रक्षेपकारणात् व्यवस्थानां विकृतरूपं ग्रन्थे यत्रतत्र दृश्यते । यथा, वर्णानां जन्मतः निर्धारणम् । मनुः तु गुणेन कर्मणा वा वर्णव्यवस्थामुपदिष्टवान् –
:'''शूद्रो ब्राह्मणतामेति ब्राह्मणश्चैति शूद्रताम् ।'''
:'''क्षत्रियाज्जातमेवं तु विद्याद्वैश्यात्तथैव च ॥ १०।६५ ॥'''
 
अन्यत्र च स्पष्टतया प्रोक्तः –
:'''योऽनधीत्य द्विजो वेदमन्यत्र कुरुते श्रमम् ।'''
:'''स जीवन्नेव शूद्रत्वमाशु गच्छति सान्वयः ॥ २।१६८ ॥'''
 
:'''उत्तमानुत्तमान् गच्छन् हीनान् हीनांश्च वर्जयन् ।'''
:'''ब्राह्मणः श्रेष्ठतामेति प्रत्यवायेन शूद्रताम् ॥ ४।२४५ ॥'''
 
समाजस्य सुचारुव्यवस्थाकृते एषा वर्णव्यवस्था निरूपिता । एषा व्यवस्था यथा वेदेषु वर्णिता तथैव मनुना प्रोक्तः । वर्णानां यथाक्रमं कर्म एवं प्रतिपादितम् –
:'''अध्यापननध्ययनं यजनं याजनं तथा ।'''
:'''दानं प्रतिग्रहं चैव ब्राह्मणानमकल्पयत् ॥ १।८८ ॥'''
:'''प्रजानां रक्षणं दानमिज्याध्ययनमेव च ।'''
:'''विषयेष्वप्रसक्तिश्च क्षत्रियस्य समासतः ॥ १।८९ ॥'''
:'''पशूनां रक्षणं दानमिज्याध्ययनमेव च ।'''
:'''वणिक्पथं कुसीदं च वैश्यस्य कृषिमेव च ॥ १।९० ॥'''
:'''एकमेव तु शूद्रस्य प्रभुः कर्म समादिशत् ।'''
:'''एतेषामेव वर्णानां शुश्रूषामनसूयया ॥ १।९१ ॥'''
 
अतो, यदि शूद्रकुलोत्पन्नोऽपि अध्ययनं कृत्वा अध्यापनं करोति, सः ब्राह्मणाय कल्पते । इतिहासे एतस्योदाहरणं लभ्यते, यथा – ऐतरेयब्राह्मणे वर्णिता कवष-ऐलूषस्य कथा यत्र दासीपुत्रः कवषः वेदार्थद्रष्टा भूत्वा ब्राह्मणोऽभवत् । रामायणे विश्वामित्रो ब्राह्मणो जन्मना क्षत्रियोऽभूत् ।
 
* स्त्रीविषये तेन प्रोक्तः -
:'''स्त्रियो रत्नान्यथो विद्या धर्मः शौचं सुभाषितम् ।'''
:'''विविधानि च शिल्पानि समादेयानि सर्वतः ॥ २।२४० ॥'''
:'''पितृभिर्भ्रातृभिश्चैताः पतिभिर्देवरैस्तथा ।'''
:'''पूज्या भूषयित्वाश्च बहुकल्याणमीप्सुभिः ॥ ३।५५ ॥'''
:'''शोचन्ति जामयो यत्र विनश्यत्याशु तत्कुलम् ।'''
:'''न शोचन्ति तु यत्रैता वर्धते तद्धि सर्वदा ॥ ३।५७ ॥'''
 
स्त्रीषु एतावत् यो मानं करोति, स अवश्यमेव तासामवमानं न कर्तुं शक्यः इति तु स्पष्टमेव । अतः तद्विषयिनः श्लोकाः दुष्टाः सन्ति इति स्वीकर्तव्यम् । एतद्धर्मस्यानुकरणं कृत्वा गार्गी, मैत्रेय़्यादीः अनेकाः विदुषीः स्त्रियः प्राचीनकालतोऽद्यपर्यन्तं भारतवर्षे सन्ति ।
 
==विषयाः==
"https://sa.wikipedia.org/wiki/मनुस्मृतिः" इत्यस्माद् प्रतिप्राप्तम्