"मनुस्मृतिः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १०७:
:'''न शोचन्ति तु यत्रैता वर्धते तद्धि सर्वदा ॥ ३।५७ ॥'''
 
स्त्रीषुस्त्रीणाम् एतावत् यो मानं करोति, स अवश्यमेव तासामवमानं न कर्तुं शक्यः इति तु स्पष्टमेव । अतः तद्विषयिनः श्लोकाः दुष्टाः सन्ति इति स्वीकर्तव्यम् । एतद्धर्मस्यानुकरणं कृत्वा गार्गी, मैत्रेय़्यादीः अनेकाः विदुषीः स्त्रियः प्राचीनकालतोऽद्यपर्यन्तं भारतवर्षे सन्ति ।
 
==विषयविन्यासः==
==विषयाः==
मनुस्मृतौ द्वादश अध्यायाः सन्ति । सम्प्रति २६८५ श्लोकाः च उपलभ्यन्ते । तत्र १२१४ श्लोकाः एव मौलिकाः सन्ति, अन्ये १४७१ प्रक्षिप्ताः इति कृतगहनान्वेषणः विद्वान् प्रो० सुरेन्द्रकुमारः वदति । तेन ’विशुद्धमनुस्मृतिः’[१] नाम्ना ग्रन्थः एतदाशयः स्पष्टीकृतः । अध्यायेषु विषयाः निम्नतालिकानुसारेण सन्ति –
समाजस्य विधिव्यवस्थां लक्षीकृत्य सर्वविधा विषया भगवता मनुना स्वसंहतियां सन्निवेशिताः सन्ति । मनुस्मृतौ द्वादश अध्यायाः सन्ति । आहत्य २६९४ श्लोकाः सन्ति । तेषु प्रथमेऽध्याये सृष्टिरचना तथा प्राणिनाम् उत्पत्तिः, द्वितीयेऽयाये जातकर्मादिसंस्कारविधिः, ब्रह्मचारिधर्मः, गुरोरभिवादनविधिः विचारितः । ततस्तृतीयेऽध्याये समावर्त्तन-विवाह-नित्यश्राद्धादीनां विचारः । चतुर्थेऽध्याये ऋतप्रमुतादिजीविकानां लक्षणं स्नातकधर्माश्च प्रतिपादिताः । ततः पञ्चमाध्याये भक्ष्याभक्ष्यप्रकरणस्य विचारः, द्रव्यशुद्धिविचारः, अशौचविचारश्च कृतः । तदनु षष्ठाध्याये वानप्रस्थाश्रम-सन्यासाश्रमयो धर्माः, सप्तमेऽध्याये राजधर्मः, अष्टमाध्याये व्यवहारपदानां विवेचनम्, साक्षिप्रश्नविधानञ्च, नवमाध्याये दायभागः, स्त्रीपुंधर्म द्यूतसमाहवयादि -विवादपदानि विवेचनानि, दशमाध्याये आपद्धर्मः जातिवर्णविवेकश्च विचारितः, एकादशाध्याये पापानां विविधत्वम्, प्रायश्चित्तानां च विचारः कृतः । द्वादशाध्याये कर्मानुसारेण सांसारिकगतयः देशधर्म-जातिधर्मादीनां च विवेचनं कृतम् । इयञ्चोपलब्धा मनुस्मृतिः भृगुप्रोक्तेति कथ्यते ।
{| class="wikitable"
त्वं एको ह्यस्य सर्वस्य विधानस्य स्वयंभुवः ।
! width=10% | अध्यायसं०
अचिन्त्यस्याप्रमेयस्य कार्यतत्त्वार्थवित्प्रभो । । १.३ । ।
! width==50% | विषयाः==
! width=10% | प्रचलिता/मौलिका श्लोकसं०
|-
| १
| सृष्टिरचना, प्राणिनाम् जातयः, कालगणना, वेदेभ्यो धर्मनिष्पत्तिः, आर्यावर्तः
| १४४/७८
|-
| २
| जातकर्मादिसंस्कारविधिः, ब्रह्मचारिधर्मः, गुरुलक्षणम्
| २२४/१६४
|-
| ३
| समावर्त्तनं, विवाहः, पञ्चमहायज्ञाः
| २८६/८४
|-
| ४
| वेदोक्ताजीविकाः, अतिथि-लक्षणम्, गृहस्थधर्मः
| २६०/९०
|-
| ५
| गृहस्थान्तर्गताः भक्ष्याभक्ष्यम्, देहशुद्धिः, द्रव्यशुद्धिः, पत्नीधर्मः
| १६९/४१
|-
| ६
| वानप्रस्थ-सन्यासा-श्रमीयाः धर्माः, दशलक्षणयुक्त-धर्मः
| ९७/६४
|-
| ७
| राज्याधिकारिणः लक्षणम्, राजधर्मः, व्यसनानि, शत्रु-मित्र-विवेचनम्
| २२६/१८४
|-
| ८
| न्यायसभायाः गठनं, व्यवहाराणां वर्णनं निर्णयं च
| ४२०/२३३
|-
| ९
| व्यवहारविषयः अनुवर्तितः – गृहस्थानां विवादाः, तेषां निर्णयः च, राज्ञः विविधरूपाणि
| ३२५/१५७
|-
| १०
| वैश्य-शूद्र-धर्माः, अनार्य-लक्षणं, कर्मानुसार-वर्णपरिवर्तनम्
| १४२/१५
|-
| ११
| विभिन्न-पापानां प्रायश्चित्तानि
| २६६/३२
|-
| १२
| कर्मफलविधानं, सात्त्विक-राजसिक-तामसिकानि कर्माणि गतयः च, वेदानां माहत्म्यं, धर्मपरिषद्-वर्णनम्
| १२६/७२
|-
|
| योगः
| २६८५/१२१४
|}
 
==टीकाः==
अन्येषां स्मृतिग्रन्थानामपक्षेया मनुस्मृतेः अधिकतमा टीकाः सन्ति । भरूचेः भाष्यं प्राचीनतमम् इदानीम् उपलभ्यते । काणे तस्य कालः दशमीशताब्देः उत्तरार्द्धं एकादशम्याः पूर्वार्द्धं वा ऊहति । कुल्लूकभट्टस्य मन्वर्थमुक्तावली प्रसिद्धा लोकप्रिया च वर्तते ।
अस्याः स्मृतेरुपरि नवटीकाः प्रकाशिताः सर्वत्र ममुपलभ्यते । तासु कुल्लूकभट्टस्य मन्वर्थमुक्तावली प्रसिद्धा प्रामाणिकी विद्वज्जनादृता चेति वक्तुं शक्यते । एवमेव तपोमहत्त्वस्य तथा कृतकर्मणां च फलादीनां वर्णनमपि साङ्गेपाङ्गतया दृश्यते । मनुष्याणां नियमविधिः, अध्ययनाध्यापनविधिः, राजधर्मः, गार्हस्थ्यधर्मः, तथा वर्णाश्रमानुकूलानां धर्माणां सर्वविधोपायश्च सर्वं किञ्चित् मनुस्मृतौ वर्णितमस्ति, यस्या अनुशीलनेनावश्यं मनुष्यः सम्यक्तया सचेतनः पूतचित्तो नागरिकः सन् समाजे जनकल्याणं साधयितुं क्षमो भवेत् । सर्वासामितरासां स्मृतीनां ‘मनुस्मृतिः’ मूलाधारो भवतीति कथनं सर्वथा समीचीनमिति ।
आङ्ग्लदेशीयैः मनुस्मृतिः प्रथमसंस्कृतग्रन्थः पठितः । ’इन्डोलौजी’-विषयस्य प्रतिष्ठापकः, सर् विलियम जोन्स आदरेण तस्याः प्रथमं आङ्ग्लभाष्यं लिखितवान् यत् १७९४-तमे वर्षे प्रकाशितः अभवत् । १८८६-तमे वर्षे जी० बुह्लर अपि, अष्टानां टीकानां सहायेन, भाष्यं कृतवान् यत् सम्प्रत्यपि लोकप्रियः अस्ति ।
 
आधुनिक काले, प्रो० सुरेन्द्रकुमारः, बह्वन्वेषणं कृत्वा, अनेकाः टीकाः पठित्वा, मनुस्मृतिभाष्यं १९८२-तमे वर्षे प्रकाशितवान् । तत्र सः प्रक्षिप्तान् श्लोकान् निर्दिष्टवान् । अनन्तरं, १९९०-तमे वर्षे, तस्य ’विशुद्ध-मनुस्मृतिः’ नाम्ना पुस्तकमपि प्रकाशितं यत्र सः केवलं प्रामाणिकान् श्लोकान् निबद्धवान्, प्रक्षिप्तान् श्लोकान् त्यागकारणमपि, बहुप्रमाणानवलम्ब्य विस्तरेण दत्तवान् ।
 
==बाह्यसम्पर्कतन्तुः==
"https://sa.wikipedia.org/wiki/मनुस्मृतिः" इत्यस्माद् प्रतिप्राप्तम्