"तैत्तिरीयोपनिषत्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २८:
| अनुवाकः ११ || अध्ययनं समाप्य गमनोद्युक्तं शिष्यम् उद्दिश्य गुरोः उपदेशः निरूपितः
|-
| अनुवाकः १२ || उदाहरणम्शान्तिमन्त्राः
|}
==ब्रह्मानन्दवल्ली==
ब्रह्मानन्दवल्ल्यां ९ अनुवाकाः विद्यन्ते । तेषु विषयप्रस्तुतिः एवं विद्यते -
{| class="wikitable"
|-
! अनुवाकः !! प्रस्तुताः विषयाः
|-
| अनुवाकः १ || ब्रह्मणा एव विश्वस्य उत्पत्तिः
|-
| अनुवाकः २ || अन्नेन एव सर्वेषां वस्तूनाम् उत्पत्तिः
|-
| अनुवाकः ३ || प्राणेन एव सर्वे जीवन्ति
|-
| अनुवाकः ४ || ब्रह्म इन्द्रियातीतम् । श्रद्धा, ऋतं, सत्यं, योगः, बुद्धिश्च विज्ञानमयपुरुषस्य अवयवानि
|-
| अनुवाकः ५ || विज्ञानेन यज्ञ-कर्मयोः विस्तारः भविष्यति । प्रिय-मोद-प्रमोद-आनन्द-ब्रह्म एते आनन्दमयस्य आत्मनः अवयवानि
|-
| अनुवाकः ६ || असत् तन्नाम इन्द्रियातीतं सत्यं पूर्वम् एकमेव आसीत् । स्वसङ्कल्पेन मूर्तामूर्तवस्तुरूपेण परिणतम्
|-
| अनुवाकः ७ || असता सत् जातम् । वस्तुनः आनन्ददायकं तत्त्वम् असतः रूपम् । असतः साक्षात्कारतः पुरुषः निर्भयः भवति ।
|-
| अनुवाकः ८ || ब्रह्मानन्दः कीदृशः इति निरूपितः । निष्कामिना वेदज्ञेन ब्रह्मानन्दः प्राप्यते ।
|-
| अनुवाकः ९ || आत्मज्ञानी पापपुण्यातीतः भवति इति निरूपितम् ।
|}
==भृगुवल्ली==
भृगुवल्ल्यां १० अनुवाकाः विद्यन्ते । तेषु विषयप्रस्तुतिः एवं विद्यते -
{| class="wikitable"
|-
! अनुवाकः !! प्रस्तुताः विषयाः
|-
| अनुवाकः १ || भृगुः पितरं ब्रह्मज्ञानम् अयाचत । भूतानि कथम् उत्पद्यन्ते ? केन आधारेण जीवन्ति ? कस्मिन् लीयन्ते इत्येतत् तपसा ज्ञायताम् इति पिता उपदिशति ।
|-
| अनुवाकः २ || अन्नमेव ब्रह्म इति पितरं वदति । पिता पुनः तपसः आचरणाय प्रेषयति ।
|-
| अनुवाकः ३ || प्राणः एव ब्रह्म इति पितरं वदति । पिता पुनः तपसः आचरणाय प्रेषयति ।
|-
| अनुवाकः ४ || मनः एव ब्रह्म इति पितरं वदति । पिता पुनः तपसः आचरणाय प्रेषयति ।
|-
| अनुवाकः ५ || विज्ञानमेव ब्रह्म इति पितरं वदति । पिता पुनः तपसः आचरणाय प्रेषयति ।
|-
| अनुवाकः ६ || आनन्दः एव ब्रह्म इति पितरं वदति । अस्य ज्ञानमेव भार्गवीवारुणीविद्या । अस्य ज्ञाता महिमावान् भवति ।
|-
| अनुवाकः ७ || अन्नं न निन्दितव्यम् । अन्नप्राणयोः अन्योन्याश्रयः विद्यते । अस्य ज्ञाता महिमावान् भवति ।
|-
| अनुवाकः ८ || आपतेजसोः अन्योन्याश्रयः विद्यते । उभौ अपि अन्नरूपौ एव । अस्य ज्ञाता महिमावान् भवति ।
|-
| अनुवाकः ९ || पृथ्व्याकाशयोः अन्योन्याश्रयः विद्यते । उभौ अपि अन्नरूपौ एव । अस्य ज्ञाता महिमावान् भवति ।
|-
| अनुवाकः १० || अतिथिसत्कारः कर्तव्यः । शरीरदेवताः उपासितव्याः । तृप्तिबलतेजसां प्राप्तये दैव्योपासनं कर्तव्यम् इति सूचितम् ।
|}
प्रतिष्ठा इति, मनः इति, महातत्त्वमिति (बुद्धेः) ब्रह्मणः उपासनेन विभिन्नानि फलानि प्राप्यन्ते । ब्रह्मज्ञानी पञ्चकोशान् अतीत्य आनन्देन गायन् समग्रमपि उपभुङ्क्ते । आत्मा देवताभ्यः पूर्वम् आसीत्, अमृतनाभौ तस्य जन्म, आत्मा एव विश्वस्य उपसंहारकः इति निरूपितमस्ति । ततः शान्तिमन्त्राः उक्ताः ।
==प्रमुखाः शब्दाः==
* मित्रः - सूर्यदेवता
* अर्यमा - द्वादशादित्येषु अन्यतमः
* ऋतम् - यथासत्यम्
* ब्रह्मवर्चस् - ब्रह्मज्ञानेन उत्पन्नं तेजः
* उपनिषत् - ज्ञानं, तत्त्वं, रहस्यम्
* संहिता - संयोगः
* सन्धिः - ऐक्यस्थानं कालः वा
* सन्धान - संयोजकं वस्तु
* प्रवचनम् - अध्यापनम्, विवेचनम्, व्याख्यानम्, विवरणम्
* कोशः - अवस्था
* दमः - इन्द्रियसंयमः
* शमः - मनसः संयमः
* स्वाराज्य - ब्रह्मपदवी, मोक्षः
* विज्ञानम् - शुद्धबुद्धिशक्तिः
* ऋत्विजः - यज्ञस्य कारयिता पुरोहितः
* विद्याधर - देवताविशेषः
 
आत्मविषये साधकाय बहु पुष्टिं ददाति । अत्र उपासनानि उक्तानि, केचन विधयः मुमुक्षवे विहिताः, आत्मनः स्वरूपं निरूपितम्, पञ्चकोशप्रपञ्चनम् इत्यादिविचाराः अन्तर्गताः सन्ति ।
 
तत्रादौ शिक्षावल्ली शं नो मित्रः इत्यनेन शान्तिमन्त्रेण आरभ्यते । अस्मिन् मन्त्रे सलकचराचरजगतः शान्तिः प्रार्थ्यते । तदुत्तरं शीक्षां व्याख्यास्यामः इति ग्रन्थभागः आरभ्यते । अत्र शिक्षाशास्त्रं नाम वर्णस्वरमात्राबलसामसन्तानादिविषयक-बोधकशास्त्रमिति अवधेयम् । तदुत्तरं संहितोपनिषत् आरभ्यते । तत्र तावत् पञ्च अधिकरणानि प्रदत्तानि अधिलोकादीनि । तत्र उपासनेन न सन्धीयते प्रजया पशुभिः । ब्रह्मवर्चसेनान्नाद्येन सुवर्गेण लोकेन इति फलसङ्कीर्तनं कृतं वर्तते ।
तदुत्तरं छन्दसाम् ऋषभत्वेन ओङ्कारस्य उपासनं मेधकामस्य श्रीकामस्य च विहितम् । तदुत्तरं भूः भुवः सुवः इति तिसृणां व्याहृतीनामुपासनं तेन च ता यो वेद । स वेद ब्रह्म । सर्वऽस्मै देवा बलिमावहन्ति । इत्यादिरूपेणा प्रयोजनं कथितं विद्यते । तस्यैव सकलशान्तिप्राप्तिः च उक्ता अनन्तरं पाड्लोपासनमुक्तं यत्र च पृथिव्यादिपञ्चपञ्चसमुदायानां पड्लिच्छन्दसि निबद्धानामुपासनं तेन च सर्वत्र पाड्लदृष्टिः भवति साधकस्य ।
एवमेव क्रमेण ओङ्कारस्योपासनम्, ऋतं सत्यं तपः दमः शमः इत्येतेषां स्वाध्यायप्रवचनयोः वेदविहितकर्मरूपेणानुष्ठानम् । तदुत्तरं त्रिशङ्कुः उद्गारं करोति अहं वृक्षस्य रेरिवा । कीर्तिः पृष्ठं गिरेरिव इत्यादिरूपेण । अत्रापि ज्ञायते यत् ब्रह्मविद्यायाः अवान्तरफलानि प्रयोजनानि कानि सन्ति इति । द्रविणसवर्चसादीनां प्राप्तिः ।
तत्पश्चात् गुरुः अन्तेवासिनमुद्दिश्य सत्यं वद धर्मं चर इत्यादिव्रतनियमान् विधत्ते । यस्मिन् समाजक्षेत्रे सः भवाति तत्र यदि कर्मविषये विचिकित्सा भवति तर्हि तत्रत्याः युक्तादिधर्मविशिष्टाः शिष्टाः ब्राह्मणाः उपसर्तव्याः । एष एव वेदानामुपदेशः ।
 
ब्रह्मानन्दवल्यां तावत् आदौ ब्रह्मणः स्वरूपलक्षणमुक्त्वा सत्यं ज्ञानमनन्तं ब्रह्म इति तस्य तटस्थलक्षणं बोधयितुमग्रिमभागः आरभ्यते । तदुत्तरं प्रत्येकस्यापि अन्नमयादिकोशस्य निरूपणं तत्तदङ्गानां शिरः पूर्वपक्षादिनिर्देशनपुरस्सरम् । अनन्तरं च आनन्दस्य तारतम्यवर्णनम् । मानुषानन्दः ततः शतगुणितानन्दः गन्धर्वादीनाम् । एवं क्रमेण ब्रह्मानन्दस्य सर्वश्रेष्ठत्वम् निरतिश्यत्वम् ततः अतिरिक्तस्य अविद्यमानत्वात् ।
भृगुवल्यां च आख्यायिका भवति यत् वारुणिः भृगुः पितरं वरुणमुपसर्प्य ब्रह्मविद्यां बोधयितुं प्रार्थयते । तदा पिता वदति अन्नं प्राणः चक्षुः श्रोत्रं मनो वाचम् इति । अनेन सः न प्रत्यायितो भवति । तदा पुनः पिता वदति तपसा ब्रह्म विजिज्ञासस्व इति । तदा सः अरण्यादिकं प्रविश्य तत्र तपः कर्तुमारभते । क्रमशःअन्नप्राणमनोविज्ञानादीन् अतीत्य अन्ते आनन्दात्मतामनुभवति । तत्कारणात् एषा वारुणीविद्या इति प्रकथिता भवति । तत्पश्चात् अन्नं न निन्द्यात् इत्यादिव्रतविधानं विद्यते । यतः ब्रह्मविज्ञाने अन्नतः एव क्रमणं श्रूयते सम्भवति च अतः । तस्मात् गुरुमिव अन्नं न निन्द्यात् इति उपदेशः । अन्ते ब्रह्मज्ञानी साम्नः गायनं करोति हाउ हाउ इति । अन्ते अहं विश्वं भुवनमभ्यभवाम् इति सर्वात्मभावं दर्शयति सः ज्ञानी ।
==बाह्यसम्पर्कतन्तुः==
* [http://www.sanskritdocuments.org/all_pdf/tait.pdf Text]
"https://sa.wikipedia.org/wiki/तैत्तिरीयोपनिषत्" इत्यस्माद् प्रतिप्राप्तम्