"मैसूरु" इत्यस्य संस्करणे भेदः

पङ्क्तिः ७६:
 
==मैसूरुराजगृहम्==
 
[[File:Mysore Palace at Navaratri.jpg|thumb|400px|right|दीपालङ्कृतः राजप्रासादः]]
एतत् राजगृहम् १९१२ तमे क्रिस्ताब्दे निर्मितम् । अस्य विस्तारः ३० हेक्टेर् मितः । इण्डो- सारसनिक् शैल्यां रचितमस्ति । अर्धगोलाकारकाणि, चतुरस्राकारकाणि गोपुराणि अतीव- सौन्दर्यकारकाणि सन्ति । रचनायां प्यारिसनगरे स्थितेन वर्सेलेराजगृहेण स्पर्धते । त्रिभिः अट्टैः युक्तम् राजगृहम् । अत्र पञ्चस्तरीयाणि शिखराणि सन्ति ।
राजगृहे दर्शकाणां कृते सर्वत्र शिल्पानां सुन्दरवर्णचित्राणाम् अद्भुतं दर्शनं भवति । राजगृहावरणे एव देवालयाः सन्ति । मैसूरुनगरस्य मध्यभागे एव एतत् राजगृहम् अस्ति । ओडेयर् वंशजैः निर्मितम् राजगृहम् एतत् सर्वेषां जनानाम् आनन्ददायकम् अस्ति ।
"https://sa.wikipedia.org/wiki/मैसूरु" इत्यस्माद् प्रतिप्राप्तम्