"मनुस्मृतिः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३९:
 
==प्रणेता कालः च==
एतस्य ग्रन्थस्य प्रणेता ’मनुर्’ अस्ति, एषः विषयः तु निर्विवादोऽस्ति, यतः स्मृतौ एव लिखितमस्ति – '''मनुम् ... अभिगम्य महर्षयः ... वचनमब्रुवन् ।।१।१॥''' चतुर्दशेषु मनुष्षु एष मनुः कः - एतस्मिन् विषये किञ्चित् विवादोऽस्ति – सः स्वायम्भुवमनुः अस्ति, वैवस्वतमनुः वा । स्वायम्भुवमनुरस्ति इति स्मृतौ लिखितम् – '''स्वायम्भुवस्यास्य मनोः ... ॥१।६१॥''' प्रायः सर्वे उल्लेखनानि अपि एतदेव वदन्ति । परन्तु केषुचन स्थानेषु वैवस्वतमनुर्भवितुमर्हतीति सम्भाव्यते । यथा – मनुस्मृतौ एव पठितम् – '''... विवस्वत् सुत एव च ॥१।६२॥''' कथं सप्तमस्य विवस्वत्मनोः उल्लेखः यदि स तत्समये न अभवत् ? कौटिल्यस्यार्थशास्त्रे राज्ञः वैवस्वत्मनोः उल्लेखो वर्तते । परन्तु, अग्रे उक्ता कर-व्यवस्था मनुस्मृति-प्रतिपादिता वर्तते । अत एव स्मृतिः वैवस्वत्मनुना प्रोक्ता इति निष्कर्षः प्रसज्यते । मनुस्मृति-विशेषज्ञः प्रो० सुरेन्द्रकुमारः स्वस्य ’विशुद्ध-मनुस्मृति-’पुस्तके[१]<ref name="vishuddha">{{cite book | last=कुमारः | first=प्रो०सुरेन्द्रः | editor-first=श्री राजवीर | editor-last=शास्त्री | title=विशुद्ध-मनुस्मृतिः | publisher=आर्ष साहित्य प्रचार ट्रस्ट, दिल्ली | date=मई, १९९०}}</ref> सर्वान् प्रमाणान् संतोल्य निर्णीतवान् यत् स्मृतेः प्रणेता स्वायम्भुवमनुरेवास्तीति । परन्तु स्मृतेः संकलनं तु तस्य शिष्यः भृगु कृतवान् इति प्रतीयते – '''...तेनोक्तो महर्षिमनुना भृगुः तानब्रवीतृषीन् ...॥१।६०॥'''
 
कालविषये यथा पूर्वमुक्तं यत् मनुस्मृतेः कालः वैदिककालः । निरुक्ते श्लोकोऽस्ति –
पङ्क्तिः ११०:
 
==विषयविन्यासः==
मनुस्मृतौ द्वादश अध्यायाः सन्ति । सम्प्रति २६८५ श्लोकाः च उपलभ्यन्ते । तत्र १२१४ श्लोकाः एव मौलिकाः सन्ति, अन्ये १४७१ प्रक्षिप्ताः इति कृतगहनान्वेषणः विद्वान् प्रो० सुरेन्द्रकुमारः वदति । तेन ’विशुद्धमनुस्मृतिः’<ref>{{cite book | lastname=कुमारः | first=प्रो०सुरेन्द्रः | editor-first=श्री राजवीर | editor-last=शास्त्री | title=विशुद्ध-मनुस्मृतिः | publisher=आर्ष साहित्य प्रचार ट्रस्ट, दिल्ली | date=मई, १९९०}}<"vishuddha"/ref> नाम्ना ग्रन्थः एतदाशयः स्पष्टीकृतः । अध्यायेषु विषयाः निम्नतालिकानुसारेण सन्ति –
{| class="wikitable"
|-
"https://sa.wikipedia.org/wiki/मनुस्मृतिः" इत्यस्माद् प्रतिप्राप्तम्