"मनुस्मृतिः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १४४:
==टीकाः==
अन्येषां स्मृतिग्रन्थानामपक्षेया मनुस्मृतेः अधिकतमा टीकाः सन्ति । भरूचेः भाष्यं प्राचीनतमम् इदानीम् उपलभ्यते । काणे तस्य कालः दशमीशताब्देः उत्तरार्द्धं एकादशम्याः पूर्वार्द्धं वा ऊहति । कुल्लूकभट्टस्य मन्वर्थमुक्तावली प्रसिद्धा लोकप्रिया च वर्तते ।
आङ्ग्लदेशीयैः मनुस्मृतिः प्रथमसंस्कृतग्रन्थः पठितः । ’इन्डोलौजी’-विषयस्य प्रतिष्ठापकः, सर् विलियम जोन्स आदरेण तस्याः प्रथमं आङ्ग्लभाष्यं लिखितवान् यत् १७९४-तमे वर्षे प्रकाशितः अभवत् । १८८६-तमे वर्षे जी० बुह्लर><ref>{{cite web | last=जी० बुह्लरस्यानुवादः| publisher=Internet Sacred Text Archive | title=Sacred Books of the East: The Laws of Manus | language=आङ्ग्लभाषा | date = 1886 | url = http://www.sacred-texts.com/hin/manu.htm | accessdate = अगस्त २७, २०१३}}</ref> अपि, अष्टानां टीकानां सहायेन, भाष्यं कृतवान् यत् सम्प्रत्यपि लोकप्रियः अस्ति ।
 
आधुनिक काले, प्रो० सुरेन्द्रकुमारः, बह्वन्वेषणं कृत्वा, अनेकाः टीकाः पठित्वा, मनुस्मृतिभाष्यं १९८२-तमे वर्षे प्रकाशितवान् । तत्र सः प्रक्षिप्तान् श्लोकान् निर्दिष्टवान् । अनन्तरं, १९९०-तमे वर्षे, तस्य ’विशुद्ध-मनुस्मृतिः’ नाम्ना पुस्तकमपि प्रकाशितं यत्र सः केवलं प्रामाणिकान् श्लोकान् निबद्धवान्, प्रक्षिप्तान् श्लोकान् त्यागकारणमपि, बहुप्रमाणानवलम्ब्य विस्तरेण दत्तवान् ।
"https://sa.wikipedia.org/wiki/मनुस्मृतिः" इत्यस्माद् प्रतिप्राप्तम्