"तैत्तिरीयोपनिषत्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ९८:
* ऋत्विजः - यज्ञस्य कारयिता पुरोहितः
* विद्याधर - देवताविशेषः
==तैत्तिरीयोपनिषदः वैशिष्ट्यम्==
दशोपनिषत्सु छान्दोग्य-बृहदारण्यके विहाय अवशिष्टासु बृहत्तमा वर्तते इयम् उपनिषत् । इयम् उपनिषत् प्रवृत्तिपरा वर्तते । स्वाद्यायप्रवचनयोः आचरणं सर्वदा स्यादिति आग्रहः अत्र वर्तते । जीवने कानि नीतितत्त्वानि अनुसर्तव्यानि इति स्पष्टोल्लेखः अत्र वर्तते । अत्र प्रस्तुतः पञ्चकोशविचारः तत्त्वज्ञानदृष्ट्या बहुव्यापकं बोधपरञ्च वर्तते । अत्रत्या आनन्दमीमांसा च विशेषमहत्त्वयुता वर्तते । अस्याः उपनिषदः तिसृषु वल्लीषु त्रिविधाः मीमांसाः प्रस्तुताः ।
===शिक्षावल्ली===
अस्यां वल्ल्याम् अध्ययन-विद्यार्जन-नैतिकाचरणविषयाः सुष्ठु उल्लिखिताः सन्ति । शिक्षा नाम वर्णोच्चारविद्या या च ब्रह्मचर्यावस्थायाम् अध्येतव्या । बुद्धेः अधिष्ठातृदेवस्य इन्द्रस्य आह्वानं कृत्वा ऋषयः उत्तमां बुद्धिं मधुरवाणीं च प्रार्थयन्ति । शमदमयुक्ताः उत्तमाः विद्यार्थिनः विद्यार्जनाय अस्मद्समीपं यथा आगच्छेयुः तथा क्रियताम् इत्यपि प्रार्थयन्ति । अत्र प्रत्येकस्य कर्तव्यस्य निर्देशानन्तरं 'स्वाध्यायप्रवचने च' इति उक्तिः विद्यते पौनःपुन्येन । 'सत्यं वद धर्मं चर' इत्येतत् वचनं तु सुप्रसिद्धमेव । अध्ययनं समाप्य गृहगमनोद्युक्तं शिष्यम् उद्दिश्य कृतः उपदेशः अयम् ।
 
==बाह्यसम्पर्कतन्तुः==
"https://sa.wikipedia.org/wiki/तैत्तिरीयोपनिषत्" इत्यस्माद् प्रतिप्राप्तम्