"तैत्तिरीयोपनिषत्" इत्यस्य संस्करणे भेदः

No edit summary
added contents
पङ्क्तिः १०१:
दशोपनिषत्सु छान्दोग्य-बृहदारण्यके विहाय अवशिष्टासु बृहत्तमा वर्तते इयम् उपनिषत् । इयम् उपनिषत् प्रवृत्तिपरा वर्तते । स्वाद्यायप्रवचनयोः आचरणं सर्वदा स्यादिति आग्रहः अत्र वर्तते । जीवने कानि नीतितत्त्वानि अनुसर्तव्यानि इति स्पष्टोल्लेखः अत्र वर्तते । अत्र प्रस्तुतः पञ्चकोशविचारः तत्त्वज्ञानदृष्ट्या बहुव्यापकं बोधपरञ्च वर्तते । अत्रत्या आनन्दमीमांसा च विशेषमहत्त्वयुता वर्तते । अस्याः उपनिषदः तिसृषु वल्लीषु त्रिविधाः मीमांसाः प्रस्तुताः ।
===शिक्षावल्ली===
अस्यां वल्ल्याम् अध्ययन-विद्यार्जन-नैतिकाचरणविषयाः सुष्ठु उल्लिखिताः सन्ति । शिक्षा नाम वर्णोच्चारविद्या या च ब्रह्मचर्यावस्थायाम् अध्येतव्या । बुद्धेः अधिष्ठातृदेवस्य इन्द्रस्य आह्वानं कृत्वा ऋषयः उत्तमां बुद्धिं मधुरवाणीं च प्रार्थयन्ति । शमदमयुक्ताः उत्तमाः विद्यार्थिनः विद्यार्जनाय अस्मद्समीपं यथा आगच्छेयुः तथा क्रियताम् इत्यपि प्रार्थयन्ति । अत्र प्रत्येकस्य कर्तव्यस्य निर्देशानन्तरं 'स्वाध्यायप्रवचने च' इति उक्तिः विद्यते पौनःपुन्येन । 'सत्यं वद धर्मं चर' इत्येतत् वचनं तु सुप्रसिद्धमेव । अध्ययनं समाप्य गृहगमनोद्युक्तं शिष्यम् उद्दिश्य कृतः उपदेशः अयम् । 'यान्यस्माकं सुचरितानि ॥ तानि त्वयोपास्यानि ॥' - अस्माकम् उत्तमचरितानि भवता उपास्यानि न अन्यानि - इति यत् गुरुः वदति तत् तस्मिन् विद्यमानं माधुर्यं विनयशीलतां च दर्शयति
 
अस्याम् उपनिषदि प्रवृत्तिपराः उल्लेखाः बहवः दृश्यन्ते । 'मम अन्नवस्त्रादीनि वर्धेत, गोसम्पत्तिः वर्धेत' इति ऋषयः प्रार्थयन्ति । 'महान् भवति प्रजया पशुभिः ब्रह्मवर्चसेन' इति ऋषयः शिष्यान् आशिषा अनुगृह्णन्ति । शास्त्रोक्तः धर्मसम्मतः प्रवृत्तिमार्गः निकृष्टः इति केनापि न चिन्त्यते स्म ।
 
'सत्यम्' 'ऋतम्' इति शब्दद्वयं वेदोपनिषत्सु पौनःपुन्येन श्रूयते । सत्यं नाम तत्त्वं, तत्त्वज्ञानं, निजवस्तु । 'ऋतं' नाम सत्यम् अनुसृतः धर्मः, योग्यमार्गः वा । सत्यज्ञानमात्रेण फलितार्थः न सिद्ध्यति । तेन सह ऋतं धर्माचरणम् अत्यवश्यम् । सत्यज्ञानेन विना मनसि स्पष्टता न भवति । धर्माचरणं विना अध्यात्मसाधनं विना साक्षात्कारः न भविष्यति । अतः एतद्वयमपि अत्यवश्यम् । अस्याम् उपनिषदि नीतिविषयः विशेषतया उल्लिखितः । अध्ययनं समाप्य गमनोद्युक्तं शिष्यम् उद्दिश्य अत्र कृतः उपदेशः अद्यत्वे अपि समुचितः विद्यते ।
 
 
 
==बाह्यसम्पर्कतन्तुः==
"https://sa.wikipedia.org/wiki/तैत्तिरीयोपनिषत्" इत्यस्माद् प्रतिप्राप्तम्