"ईशावास्योपनिषत्" इत्यस्य संस्करणे भेदः

No edit summary
विषयः योजितः
पङ्क्तिः १:
[[Image:Ishainvoke.JPG‎|thumb|300px|ईशोपनिषदः शान्तिमन्त्रः]]
ईशावास्योपनिषत् (Ishavasyopanishat) शुक्लयजुर्वेदीया इयम् उपनिषत् । उपनिषत्सरणौ ईशोपनिषत् प्रथमा वर्तते । शुक्लयजुर्वेदस्य संहितोपनिषदियम् । अष्टादशमन्त्रात्मिका इयम् उपनिषत्विद्यते
==उपनिषत्सारः==
===शान्तिमन्त्रस्य सारांशः===
इयम् उपनिषत् शुक्लयजुर्वेदीयकाण्वशाखीयसंहितायाम् अन्तर्भवति पूर्णमदः पूर्णमिदमिति शान्तिपाठने आरभ्यते । अत्र इदमवदेयं यत् अस्मिन् चराचरजगन्मण्डले यत्किञ्चित् दृश्यते श्रूयते वा सर्वत्र सर्वमपि सर्वशक्तिमता परमात्मना ईशा वास्यम् अर्थात् आच्छादनीयम् । एषः परमात्मा सर्वज्ञः सकलानां भूतानामधिपतिः सच्चिदानन्दघनश्च विद्यते । यच्च किञ्चित् प्राणिनां भोग्यं वस्तु दृश्यते तदपि परमात्मना व्याप्तं सत् निः श्रेयसे कल्पते ।इह प्राणधारिणः जीवस्य आविर्भाव्ः केवलं नैमित्तिकः । उभयमपि स्थावरजङ्गमं वस्तु जडात्मकत्वात् त्याज्यमेव । नामरुपात्मकेषु भोग्यपदार्थेषु जिज्ञासोः साधकस्य कृते त्यागः सर्वथा आवश्यकः एव । या च परमात्मना अस्मदर्थं दत्ता सम्पत् सा त्यागेन भोक्तव्या भवति ।
इयम् उपनिषत् शुक्लयजुर्वेदीयकाण्वशाखीयसंहितायाम् अन्तर्भवति । पूर्णमदः पूर्णमिदमिति शान्तिपाठः आरभ्यते । अनन्तगुण-अनन्तशक्ति-अनन्तज्ञानेन युक्तः परमात्मा सर्वसम्पूर्णः । इदं व्यक्तविश्वमपि नियमबद्धमित्यतः वस्तुतः सम्पूर्णमस्ति । इदं नियमबद्धं सम्पूर्णं विश्वं सर्वसम्पूर्णेन अनन्तपरमात्मना एव उद्भूतम् । किन्तु अस्य विश्वस्य उत्पत्त्या परमात्मनि न्यूनता भवेत् किम् ? सर्वथा न । सः अनन्तः, अखण्डः, अच्युतः, परिपूर्णश्च । तस्मात् अनन्तानि ब्रह्माण्डानि सृष्टानि चेदपि तदीयाः अनन्तज्ञानगुणविक्रमाः अच्युताः तिष्ठन्ति । अनन्तसङ्ख्यया अनन्तसङ्ख्या व्यवकलितः चेदपि अनन्तसङ्ख्या एव यथा अवशिष्येत तथा परमात्मनः अनन्तत्वस्य अखण्डत्वस्य बाधा न कापि विद्यते ।
 
===मन्त्राणां सारः===
यदि साधकः निष्कामः सन् कर्मानुष्ठानं कर्तुमिच्छति तर्हि नूनमसौ शतं वर्षाणि जीवुतुम अर्हति ।अत् उक्तम्, कुर्वन्नेवेह कर्माणि जिजीविषेत् शतं समाः इति ।अन्यथा कर्मणा बध्दः आवर्तादावर्तान्तरं व्रजन् नैव निर्वृतिं प्राप्नोति । ये च आत्महनः भवन्ति अर्थात् आत्मविषये अज्ञाः भवन्ति ते नीचलोकान् गच्छन्ति यत्र च तमसा दुःखेन च् आवृताः भवन्ति । यदि साधकः सर्वेषु भूतेषु स्वात्मानं पश्यति अपि च स्वस्मिन् सर्वं जगत् पश्यति सः शोकाभावं प्राप्नोति । एतस्यानन्तरं विद्याविद्यानां सम्भूत्यसम्भूतीनां च उपासनमुक्तम् । तत्र विद्या इत्यनेन देवताज्ञानमुच्यते अविद्यया च कर्म उच्यते । उभयोरपि विविच्य अनुष्ठानेन अन्धं तमः प्रविशन्ति उपासकाः । यदि समुच्चयानुष्ठानं कुर्वन्ति तर्हि मृत्युं तीर्त्वा देवताज्ञानं प्राप्नुवन्ति । एवमेव सम्भूत्यसम्भूत्योः अपि सम्भूतिः- हिरण्यगर्भोपासनम्, असम्भूतिः –प्रकृत्युपासनम् । विविच्यानुष्ठानेन अन्धतमः प्राप्तिः । सहानुष्ठानेन अणिमादि-ऐश्वर्यप्राप्तिः प्रकृतिलयः च भवतः । अन्ते सूर्यस्य स्तुतिः देहत्यागसमये क्रियमाणा उच्यते ।
अस्य विश्वस्य चेतनाचेतन-सूक्ष्मासूक्ष्म-चराचराणि सकलवस्तूनि सर्वव्यापकेन परमात्मना व्याप्तानि । तस्मात् प्राप्तानि सर्वाणि अपि वस्तूनि ईशप्रसादभावनया उपयोक्तव्यानि । अस्मिन् जगति कर्तव्यनिष्ठया कर्म कुर्वन्तः शतं वर्षाणि जीवेम इति सर्वेषाम् इच्छा स्यात् । अनेन मार्गेण गम्यते चेदेव मुक्तिः । कर्मदोषेण निर्लिप्तैः भाव्यं चेदपि अयमेव मार्गः । आत्मज्ञानाय प्रयत्नम् अकुर्वन्तः मानवाः अज्ञानान्धकारावृतम् आसुरलोकं प्रविशन्ति । इदं भवेत् आत्मघातसमम् ।
====आत्मनः स्वरूपम्====
आत्मा अचलः, अखण्डश्च । मनसः अपेक्षया वेगवान् । देवताभिः अपि अगोचरः । सर्वव्यापके तस्मिन् एव वायुः तन्नाम तदीया विश्वनिर्माणशक्तिः चलनात्मकं कर्मशक्तिं स्थापयति । सः चलः अचलश्च । दूरः समीपश्च । सः सर्वेषाम् अन्तर्बाह्यव्यापी विद्यते ।
 
==बाह्यसम्पर्कतन्तुः==
"https://sa.wikipedia.org/wiki/ईशावास्योपनिषत्" इत्यस्माद् प्रतिप्राप्तम्